SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ७३ १।२०] प्रथमोऽध्यायः विधानं शुद्धयष्टकपञ्चसमितित्रिगुप्तिविकल्पं कथ्यते । सूत्रकृते ज्ञानविनयप्रज्ञापना कल्प्याकल्प्यच्छेदोपस्थापना व्यवहारधर्मक्रियाः प्ररूप्यन्ते । स्थाने अनेकाश्रयाणामर्थानां निर्णयः क्रियते। . 'समवाये सर्वपदार्थानां समवायश्चिन्त्यते । स चतुर्विधः-द्रव्यक्षेत्रकालभावविकल्पैः । तत्र धर्माऽधर्मास्तिकायलोकाकाशैकजीवानां तुल्याऽसंख्येयप्रदेशत्वात् एकेन प्रमाणेन द्रव्याणां समवायनाद् द्रव्यसमवायः । जम्बूद्वीपसर्वार्थसिद्धय प्रतिष्ठाननरकनन्दीश्वरैकवापीनां ५ तुल्ययोजनशतसहस्रविष्कम्भप्रमाणेन क्षेत्रसमवायनात् क्षेत्रसमवायः । उत्सर्पिण्यवसर्पिण्योस्तुल्यदशसागरोपमकोटिकोटिप्रमाणात् कालसमवायनात् कालसमवायः । क्षायिकसम्यक्त्वकेवलज्ञानकेवलदर्शनयथाख्यातचारित्राणां यो भावः२० तदनुभवस्य तुल्यानन्तप्रमाणत्वात् भावसमवायनाद् भावसमवायः । ____ व्याख्याप्रज्ञप्तौर षष्टिव्याकरणसहस्राणि१२ 'किमस्ति जीवः, नास्ति' इत्येवमादीनि १० निरूप्यन्ते । "ज्ञातृधर्मकथायाम् आख्यानोपाख्यानानां बहुप्रकाराणां कथनम्। उपासकाध्ययनेस श्रावकधर्मलक्षणम् । संसारस्यान्तः कृतो यैस्ते अन्तकृतः । नमिमतङ्गगसोमिलरामपुत्रसुदर्शनयम"लीकवलीककिष्कम्बलपालाम्बष्ठपुत्रा इत्येते दश वर्धमानतीर्थङकरतीर्थे । एवमृषभादीनां त्रयोविंशतेस्तीर्थेष्वन्येऽन्ये च दश दशानगारा दश दश दारुणानुपसर्गानिजित्यं कृत्स्नकर्मक्षयादन्तकृतः दश अस्यां वर्ण्यन्ते८ इति अन्तकृद्दशा। अथवा, अन्तकृतां दशा १५ अन्तकृद्दशा, तस्याम् अर्हदाचार्यविधिः सिध्यतां च । उपपादो जन्म प्रयोजनं येषां त इमे औपपादिकाः, विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धाख्यानि पञ्चानुत्तराणि, अनुत्तरेष्वौपपादिका अनुत्तरोपपादिकाः-ऋषिदास"-वान्य-सुनक्षत्र-कार्तिक-नन्द-नन्दन-शालिभद्र-अभयवारिषेण-चिलातपुत्रा इत्येते दश वर्धमानतीर्थकरतीर्थे । एवमृषभादीनां त्रयोविंशतेस्तीर्थेष्वन्येऽन्ये च दश दशांनगारा दश दश दारुणानुपसर्गानिजित्य विजयाद्यनुत्तरेषूत्पन्ना इत्येवमनुत्तरौ- २० पपादिकाः दशास्यां वर्ण्यन्त° इत्यनुत्तरौपपादिकदशा। अथवा, अनुत्तरौपपादिकानां दशा अनुत्तरौपपादिकदशा तस्यामायुर्वं क्रियिकानुबन्धविशेषः । आक्षेपविक्षेपैहेतुनयाश्रितानां १प्राचारे अष्टादशसहस्त्र (१८०००) पदैः। २ योग्यायोग्य । ३ षट्त्रिंशत्सहस्र (३६०००) पर्वः । ४ तिष्ठन्त्यस्मिन एकाग्रेकोत्तराणि स्थानानीति स्थानम् । ५ स्थाने द्वाचत्वारिंशत्सहस(४२०००) पदैः । ६ सं संग्रहण सादृश्यसामान्येन अवेयन्ते शायन्ते जीवाविपदार्था द्रव्यक्षेत्रकालभावानाश्रित्य, तस्मिन्निति । संग्रहनयन स एक एवात्मा, व्यवहारनयन संसारी मुक्तश्चेति विविकल्पः उत्पादव्ययध्रौव्य इति त्रिलक्षणः इत्यादीनि जीवस्य। सामान्यार्पणया एक एव पुगलः, विशेषार्पणया अणुस्कन्धभेवात द्वितयः इत्यादीनि पुद्गलादीनाञ्चकाचकोत्तरस्थानानि प्ररूप्यन्ते । ७ समवाये एकलक्षचतुःषष्टि (१६४०००) पदैः । ८-वृद्ध्यर्थप्र-प्रा०, ब०, मु०। सप्तमपथिवीनरकनाम। ९ अथवा प्रथमपथिवीनारकभावनव्यन्तराणां जघन्याय षि सदशानीयत्यादि योज्यम्। १० पर्यायः । ११ प्रश्न । १२ द्विवक्षाष्टाविंशतिसहर (२२८०००) पदैः किमस्ति जीवः किं नास्ति जीवः किमेको जीवः किमनेको जीवः कि नित्यो जीवः किमनित्यो जीवः इत्यादीनि षष्टिसहस्त्रसंख्यानि भगवदर्हत्तीर्थकरसन्निधौ गणधरदेवप्रश्नवाक्यानि निरूप्यन्ते। १३ पञ्चलक्षषट्पञ्चाशत्सहस्र (५५६०००) पर्वः। १४ तीर्थकरोक्तं गणधरपृष्टास्तित्वाविस्वरूपम् चक्रवादीनां धर्मानुबन्धिकथोपकथानाञ्च कथनम् । १५ कथोपकथा । १६ एकादशलक्षसप्ततिसहल (११७०००) पर्वः श्रावकाचारक्रियामन्त्राणां निरूपणम्। १७ -यमवाल्मीकवलीकनिष्क-मु०। १८ प्रन्तकृत्वशायां प्रयोविंशति लक्षाष्टाविशतिसहस (२३२८०००) पदैः। १६ -स धन्य-पा०, ब०, म०। २० प्रनत्तरोपपादिकवशायां विनवतिलक्षचतुश्चत्वारिंशत्सहस (९२४४०००) पदैः। १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy