________________
तत्त्वार्थवार्तिके
[२०२० मित्युच्यते । यथा अङकुरो 'बीजपूर्वः, स च सन्तानापेक्षया अनादिनिधन इति । 'न' चाऽपुरुषकृतित्वं प्रामाण्यकारणम्; चौर्याधुपदेशस्यास्मर्यमाणकर्तृ कस्य प्रामाण्यप्रसङगात् । अनित्यस्य च प्रत्यक्षादेः प्रामाण्ये को विरोधः ?
सम्यक्त्वोत्पत्तौ युगपन्मतिश्रुतोत्पत्तमतिपूर्वकत्वाभाव इति चेत्, न; सम्यक्त्वस्य तदपेक्षत्वात् ।८। स्यान्मतम्-मत्यज्ञानश्रुताज्ञानयोः प्रथमसम्यक्त्वोत्पत्तौ युगपज्ज्ञानपरिणामात् मतिपूर्वकत्वं श्रुतस्य नोपपद्यत इति; तन्न; किं कारणम् ? सम्यक्त्वस्य तदपेक्षत्वात् । तयोहि सम्यक्त्वं सम्यग्दर्शनोत्पत्तौ युगपद्भवति "आत्मलाभस्तु क्रमवान्, इति मतिपूर्वकत्वं युक्तं पितापुत्रवत् ।
मतिपूर्वकत्वाविशेषात् श्रुताविशेष इति चेत्; न; कारणभेदात्तद्भेदसिद्धेः ।९। स्यादेतत्१० सर्वेषां प्राणिनां श्रुतमविशिष्टं प्राप्नोति । कुतः ? कारणाविशेषात् । मतिपूर्वत्वं हि
कारणमिष्टम्, तच्च सर्वेषामविशिष्टमिति । तन्न; किं कारणम् ? कारणभेदात्तद्भेदसिद्धेः । प्रतिपुरुषं हि मतिश्रुतावरणक्षयोपशमो बहुधा भिन्नः तद्भेदाद् बाहयनिमित्तभेदाच्च श्रुतस्य प्रकर्षाप्रकर्षयोगो भवति मतिपूर्वकत्वाविशेषेऽपि ।।
श्रुतात् श्रुतप्रतिपत्तलक्षणाव्याप्तिरिति चेत्, न; तस्योपचारतो मतित्वसिद्धः ॥१०॥ स्यान्मतम-यदा शब्दपरिणतपूदगलस्कन्धादाहितवर्णपदवाक्यादिभावात चक्षरादिविषयाच्च आद्यश्रुतविषयभावमापन्नाद् अविनाभाविनः कृतसङगीतिर्जनो घटाज्जलधारणादिकार्यसंबन्ध्यन्तरं प्रतिपद्यते धूमादेर्वाऽग्न्यादिद्रव्यम्, तदा श्रुतात् श्रुतप्रतिपत्तिरिति कृत्वा “मतिपूर्वलक्षणमव्यापीति; तन्न; किं कारणम् ? तस्योपचारतो मतित्वसिद्धेः । मतिपूर्व हि श्रुतं
क्वचित् ‘मतिः' इत्युपचर्यते । अथवा, व्यवहिते पूर्वशब्दो वर्तते, तद्यथा 'पूर्व मथुरायाः पाटलि२० पुत्रम्' इति । ततः साक्षान्मतिपूर्व परम्परया वा मतिपूर्वमपि मतिपूर्वग्रहणेन गृहयते ।
भेवशब्दस्य प्रत्येक परिसमाप्ति जिवत् ।११॥ यथा 'देवदत्तजिनदत्तगुरुदत्ता भोज्यन्ताम्' इति भुजिः प्रत्येक परिसमाप्यते तथेहापि भेदशब्दः प्रत्येकमभिसंबध्यते-द्विभेदमनेकभेदं द्वादशभेदं च इति । तत्राङगप्रविष्टमङगबाहयं चेति द्विविधम् ।
अङगप्रविष्टमाचाराविद्वादशभेदं बुद्धचतिशद्धियुक्तगणधरानुस्मृतग्रन्थरचनम् ॥१२॥ २५ भगवदर्हत्सर्वज्ञहिमवनिर्गतवाग्गङगाऽर्थविमलसलिलप्रक्षालितान्तःकरणैः बुद्धयतिशद्धियु
क्तैर्गणधरैरनुस्मृतग्रन्थरचनम् आचारादिद्वादशविधमङगप्रविष्टमित्युच्यते । तद्यथा-आचारः, सूत्रकृतम्, स्थानम्, समवायः, व्याख्याप्रज्ञप्तिः, ज्ञातृधर्मकथा, उपासकाध्ययनम्, अन्तकृद्दशा, अनुत्तरौपपादिकदशा, प्रश्नव्याकरणम्, विपाकसूत्रम्, दृष्टिवाद इति । आचारे चर्या
१ बीजपूर्वकः मु०, ता०। २ न वा पुरुषकृतित्वमप्रामाण्यका-पा०, २०, ब०, मु० । तुलनास०, सि०१।२०। "तस्मादपौरुषेयत्वे स्यादन्योप्यनराश्रयः। म्लेच्छादिव्यवहाराणां नास्तिक्यवचसामपि ॥ प्रनावित्वा भवेदेवं....." -प्रमाणवा० ३।२४५ । ३ समीचीनत्वम् । ४ उत्पत्तिः। ५ मतिपूर्वकत्वं श्र०, द०। ६ 'मतिपूर्वकत्वाविशेषेपि' इति श्र० प्रती 'श्रुताच्छ.त' इत्यादि वार्तिक एवं सम्मिलितः। ७ कृतसंगति-प्रा०, ब०, २०, म०, ता०। ८ मतिपूर्व ल-श्र०।६ तथा चोक्तम्मतिपूर्व' श्रुतं वक्षरुपचारात् मतिमता। मतिपूर्व ततः सर्व श्रुतं ज्ञेयं विचक्षणरिति । अपि च, अर्थादर्यान्तरं ज्ञानं मतिपूर्व मतं भवेत् । शाब्वं तल्लिङ्गजं चात्र द्वचनेकद्वादशभेदकम् ॥ १० साक्षान्मति पूर्वमिव परम्परया मतिपूर्वमपि इत्यर्थः । वा शब्द इवार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org