________________
___७१
१२२०]
प्रथमोऽध्यायः न वा, निमित्तमानत्वाद्दण्डादिवत् ।४। न वैध दोषः । किं कारणम् ? निमित्तमात्रत्वाद् दण्डादिवत् । यथा मृदः स्वयमन्तर्घटभवनपरिणामाभिमुख्ये, दण्डचक्रपौरुषेयप्रयत्नादि निमित्तमात्रं भवति, यतः सत्स्वपि दण्डादिनिमित्तेषु शर्करादिप्रचितो मृत्पिण्डः स्वयमन्तर्घटभवनपरिणामनिरुत्सुकत्वान्न घटीभवति, 'अतो मत्पिण्ड एव बाह्यदण्डादिनिमित्तापेक्ष आभ्यन्तरपरिणामसान्निध्याद् घटो भवति न दण्डादयः, इति दण्डादीनां निमित्तमात्रत्वम् । तथा ५ पर्यायिपर्याययोः स्यादन्यत्वाद् आत्मनः स्वयमन्तःश्रुतभवनपरिणामाभिमुख्ये मतिज्ञानं निमित्तमात्रं भवति, यतः सत्यपि सम्यग्दृष्टः श्रोत्रेन्द्रियबलाधाने वाहयाचार्यपदार्थोपदेशसन्निधाने च श्रुतज्ञानावरणोदयवशीकृतस्य स्वयमन्तःश्रुतभवननिरुत्सुकत्वादात्मनो न श्रुतं भवति, अतो' बाहयमतिज्ञानादिनिमित्तापेक्ष आत्मैव आभ्यन्तरश्रुतज्ञानावरणक्षयोपशमापादितश्रुतभवनपरिणामाभिमुख्यात् 'श्रुतीभवति, न मतिज्ञानस्य श्रुतीभवनमस्ति, तस्य निमित्तमात्रत्वात्। १०
अनेकान्ताच्च ।५। नायमेकान्तोऽस्ति-'कारणसदृशमेव कार्यम्' इति । कुतः ? तत्रापि सप्तभङगीसंभवात् । कथम् ? घटवत् । यथा घटः कारणेन मृत्पिण्डेन स्यात्सदृशः, स्यान्न सदृश इत्यादि । मृद्रव्याजीवानुपयोगाद्यादेशात् स्यात्सदृशः, पिण्डघटसंस्थानादिपर्यायादेशात् स्यान सदृशः । पूर्ववदुत्तरे च भङगा नेतव्याः ! यस्यैकान्तेन कारणानुरूपं कार्यम्, तस्य घटपिण्डशिविकादिपर्याया" उपालभ्यन्ते । किञ्च, घटेन जलधारणादिव्यापारो न क्रियेत मृत्पिण्डे २० तददर्शनात् । अपि च, मृत्पिण्डस्य घटत्वेन परिणामबद् घटस्यापि घटत्वेन परिणाम: स्यात्, एकान्तसदृशत्वात् । न चैवं भवति । अतो नैकान्लेन कारणसदृशत्वम् । तथा श्रुतं सामान्यादेशात् स्यात्कारणसदृशं यतो मतिरपि ज्ञानं श्रुतमपि । अव्यवहिताभिमुखग्रहण-नानाप्रकारार्थप्ररूपणसामर्थ्यादिपर्यायादेशात् स्यान्न कारणसदृशम् । पूर्ववदुत्तरे१० च भङगा नेतव्याः ।
श्रोत्रमतिपूर्वस्यैव श्रुतत्वप्रसङगस्तदर्थत्वादिति चेत् न; उक्तत्वात् ।। स्यादेतत्- २५ श्रोत्रमतिपूर्वस्यवर श्रुतत्वं प्राप्नोति । कुतः ? तदर्थत्वात् । श्रुत्वा अवधारणाद्धि श्रुतमित्युच्यते, तेन चक्षुरादिमतिपूर्वस्य श्रुतत्वं न प्राप्नोति; तन; कि कारणम् ? 'उक्तमेतत्-'श्रुतशब्दोऽयं रूढिशब्दः' इति । रूढिशब्दाश्च स्वोत्पत्ति"निमित्तक्रियानपेक्षाः प्रवर्तन्त इति सर्वमतिपूर्वस्य श्रुतत्वसिद्धिर्भवति । ___ आदिमतोऽन्तक्त्त्वात् श्रुतस्याऽनादिनिधनत्वानुपपत्तिरिति चेत्; न; द्रव्यादिसामान्यापेक्षया ३० तत्सिः ।७। स्यादेतत्-श्रुतस्य आदिमत्त्वमभ्युपगतम्-‘मतिपूर्वम्' इति वचनात्, आदिमतश्च लोके अन्तवत्त्वं दृष्टम्, तत आद्यन्तसंभवाद् 'अनादिनिधनं श्रुतम्' इति व्याहन्यते, ततश्च पुरुषकृतित्वादप्रामाण्यं स्यादिति; नैष दोषः; द्रव्यादिसामान्यापेक्षया तत्सिद्धेः। द्रव्यक्षेत्रकालभावानां विशेषस्याविवक्षायां श्रुतम् 'अनादिनिधनम्' इत्युच्यते, न हि केनचित्पुरुषेण क्वचित् कदाचित् कथञ्चिदुत्प्रेक्षितमिति । तेषामेव विशेषापेक्षया आदिरन्तश्च संभवतीति मतिपूर्व- ३५
१ पूर्वोक्तवाक्यमेव विवृण्वन्नाह यत इति । २ ततो श्र०। ३ ततो प्रा०, ब०, २०, मु.। ४ श्रुतं भ-प्रा०, ब०, मु०। ५ दण्डादिवत् । ६ -दि इति मू-प्रा०, ब०, २०, मु०। ७घटे पिण्ड-म०।८-या उपल-ता, द०, प्रा० । -यान उपल-म०। ६ निराक्रियन्ते -१० टि० । घटपिण्डशिवकादयः पृथक् पर्याया न स्युरित्यर्थः, सर्वे मृत्पिण्डात्मका एव भवेयुः-सम्पा० । १० -सरे भप्रा०, २०,40, मु०, ता०। ११ -कस्यैव श्र०, ता०, द०। १२-बकस्यैव श्र -पा०, २०, ब०, मु० । १३ उपतमेव श्रु-पा०, २०, २०, मु०, ता०, ०। १४ -त्तिकिया- म०, प्रा०, स०, द० । १५-सिद्धिः प्रा०, २०, २०, म०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org