________________
[११२०
तत्त्वार्थवार्तिके रिन्द्रियं मसूरिकाकारं कृष्णताराधिष्ठानं तदेव रूपाविष्करणेऽलं नेतराणि इति ।
एवमोभिनिबोधिकं द्रव्यक्षेत्रकालभावैरवसेयम् । द्रव्यतो मतिज्ञानी सर्वद्रव्याण्यसर्वपर्यायाण्युपदेशेन जानाति । क्षेत्रत उपदेशेन सर्वक्षेत्राणि जानाति । अथवा क्षेत्र विषयः । चक्षुषः क्षेत्रं सप्तचत्वारिंशद्योजनसहस्राणि त्रिषष्टयधिके च द्वे योजनशते योजनस्य चैकविशतिः षष्टिभागाः । श्रोत्रस्य क्षेत्र द्वादश योजनानि । घाणरसनस्पर्शनानां नवयोजनानि । कालत उपदेशेन सर्वकालं जानाति । भावत उपदेशेन जीवादीनामौदयिकादीन् भावान् जानाति । तत् सामान्यादेकम् । इन्द्रियानिन्द्रियभेदाद् द्विधा । अवग्रहादिभेदाच्चतुर्धा । तैरिन्द्रियगुणितैश्चतुर्विंशतिविधम् । तैरेव व्यञ्जनावग्रहाधिकैरष्टाविंशतिविधम् । तैरेव मूलभङगाधिकर्द्रव्या
दिसहितैर्वा द्वात्रिंशद्विधम् । त एते त्रयो विकल्पा बह्वादिभिः षड्भिरितरानपेक्षगुणिताः १. चतुश्चत्वारिशं शतम् अष्टषष्ट्युत्तरं शतम् द्वानवत्यधिकं शतमिति च भवन्ति । त एव
बह्वादिभिदिशभिर्गुणिता द्वे शते अष्टाशीत्युत्तरे, त्रीणि शतानि षट्त्रिंशानि, चतुरशीत्यधिकानि त्रीणि शतानि च भवन्ति ।
आह-व्यञ्जनावग्रहे बह्वाद्यभावः । कस्मात् ? अव्यक्तत्वात् । उच्यते-अवग्रहवत् तत्सिद्धिः । यथा अव्यक्तग्रहणमवग्रहः तथा बह्वादिविकल्पोप्यव्यक्तरूपेणैव वेदितव्यः । अथाऽ१५ निःसृते कथम् ? तत्रापि ये च यावन्तश्च पुद्गलाः सूक्ष्मा निःसृताः सन्ति, सूक्ष्मास्तु साधारणर्न' गृहयन्ते, तेषामिन्द्रियस्थानावगाहनम् अनिःसृतव्यञ्जनावग्रहः ।
परोक्षे द्वविध्ये सत्युपक्लुप्तलक्षणविकल्प मतिज्ञानविमि यद् द्वितीयमपदिष्टं तत्किन्निमित्तं कतिविधं चेति ? उच्यते-- .
श्रुतं मतिपूर्व द्वि-अनेकद्वादशभेदम् ॥२०॥ श्रुतशब्दो जहत्स्वार्थवृत्ती रूढिवशात् कुशलशब्दवत् ।१॥ यथा कुशलशब्दः कुशलवन क्रियां प्रतीत्य व्युत्पादितः तद्धित्वा सर्वत्र पर्यवदाते वर्तते, तथा श्रुतशब्दोऽपि श्रवणमुपादाय व्युत्पादितो रूढिवशात् कस्मिश्चिज्ज्ञानविशेषे१० वर्तते ।
कार्यप्रतिपालनात् पूरणाद्वा पूर्व कारणम् ॥२॥ कार्य पालयति पूरयतीति वा पूर्व ३० कारणं लिङग निमित्तमित्यनर्यान्तरम् । मतिज्ञानं व्याख्यातं तत्पूर्वमस्येति मतिपूर्व ‘मतिकारणम्' इत्यर्थः ।
मतिपूर्वकत्वे श्रुतस्य तदात्मकत्वप्रसङगो घटवत्, अतदात्मकत्वे वा तत्पूर्वकत्वाभावः।३। कश्चिदाह-मतिपूर्व श्रुतं तदपि मत्यात्मकं प्राप्नोति, कारणगुणानुविधानं हि कार्य दृष्टं यथा मृन्निमित्तो घटो मृदात्मकः । अथाऽतदात्मकमिष्यते," तत्पूर्वकत्वं तर्हि तस्य हीयते इति ।
१एक्कचउक्कं चउवीसठवीसं च तिप्पडि किच्चा । इगिछबारसगणिदे मदिणाणे होंति ठाणाणि॥ २द्विविधम्- ता० । ३ अल्पादिसेतरानपेक्षः। ४ भवति ता०, १०, मू०, १०। ५ पुरुषः । ६ -रूपं म- ता०, मू० । ७-यमुपविष्टं प्रा०, ब, द०, मु०। ८ -दोजता०, १०। ६ प्रौढे-ता० टि०, श्र० टि०। १० मतिपूर्वलक्षणे । ११ श्रुतस्य प्रमाणरूपम् । १२ मतिपूर्वक म- ता० । १३-णकमि-पा०, ब०, २०, म०। १४ -रमकस्वमिष्यते प्रा०, २०, २० ता०, मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org