________________
१३१६]
प्रथमोऽध्यायः पुद्गलद्रव्यं गृह्णाति इति। विप्रकृष्टशब्दग्रहणे च स्व'कर्णान्तविलगतमशकशब्दो नोपलभ्येत । नहीन्द्रियं किञ्चिदेकं दूरस्पृष्टविषयग्राहि दृष्टमिति । आकाशगुणत्वाच्छब्दस्य 'स्पर्शवद्गु.. णत्वाभाव इति चेत्, न; अमूर्तगुणस्य आत्मगुणवत् इन्द्रियविषयत्वादर्शनादिति । प्राप्तावग्रहे श्रोत्रस्य दिग्देशभेदविशिष्टविषयग्रहणाभाव इति चेत्, न; शब्दपरिणतविसर्पत्पुद्गलवेगशक्तिविशेषस्य तथाभावोपपत्तेः', सूक्ष्मत्वात् अप्रतिघातात् समन्ततः प्रवेशाच्च, सिद्धमेतत्- ५ चक्षर्मनसी धर्जयित्वा शेषाणामिन्द्रियाणां व्यञ्जनावग्रहः, सर्वेषामिन्द्रियाणामर्थावग्रहः' इति ।
__ मनसोऽनिन्द्रियव्यपदेशाभावः स्वविषयग्रहणे करणान्तरानपेक्षत्वाच्चक्षुर्वत् ।३। यथा चक्षु रूपहणे करणान्तरं नापेक्षत इति इन्द्रियव्यपदेशं लभते तथा मनोऽपि गुणदोषविचारादिस्वव्यापार करणान्तरं नापेक्षत इतीन्द्रियं प्राप्नोति नानिन्द्रियमिति ।।
न वा, अप्रत्यक्षत्वात् ।४। नवैष दोषः । किं कारणम् ? अप्रत्यक्षत्वात्। यथा चक्षुरादि १० परस्परस्यन्द्रियकत्वात् प्रत्यक्षं न तथा मन ऐन्द्रियकम् । कुतः ? सूक्ष्मद्रव्यपरिणामात्, तस्मादनिन्द्रियमित्युच्यते । अत्राह- कथमवगम्यते अप्रत्यक्षं तद् ‘अस्ति' इति ?
अनुमानात्तस्याधिगमः ।५। अप्रत्यक्षाणामप्यर्थानां लोकेऽनुमानादधिगतिर्दृष्टा, यथा आदित्यस्य गतिः, वनस्पतीनां च वृद्धिह्रासौ । तथा मनसोऽप्यस्तित्वमनुमानादधिगम्यते । कोऽसावनुमानः ?
युगपज्ज्ञानक्रियानुत्पत्तिर्मनसो हेतुः ।६। सत्सु चक्षुरादिकरणेषु शक्तिमत्पु, सत्सु च बाहयेषु रूपादिषु, सति चानेकस्मिन् प्रयोजने यतो ज्ञानानां क्रियाणां च युगपदनुतात्तिः, तदस्ति मन इत्यनुमीयते ।
___अनुस्मरणदर्शनाच्च ।७। यतः सकृद् दृष्टं श्रुतं वाऽनुस्मयते, अतस्तद्दर्शनात्तदस्तित्वमवसेयम् । अत्राह-एकस्यात्मनः कुतः करणभेदः ? ।
ज्ञस्वभावस्यापि करणभेदः अनेककलाकुशलदेवदत्तवत् ।८। यथा अनेकज्ञानक्रियाशक्तियुक्तस्यापि देवदत्तस्य करणभेदो दृश्यते-चित्रकर्मणि वर्तमानस्य वर्तिकालेखनीकूचिकाद्युपकरणापेक्षा, काष्ठकर्मणि वर्तमानस्य एवासीघटमुखवृक्षादनादिकरणापेक्षा, तथा आत्मनोऽपि क्षयोपशमभेदात ज्ञानक्रियापरिणामशक्तियक्तस्य चक्षराद्यनेककरणापेक्षा न विरुध्यते ।
स नामकर्मसामर्थ्यात् ।९। स एष करणभेदः नामकर्मसामाद्वेदितव्यः । स कथम् ? २५ इह यदेतत् शरीरनामकर्मोदयाद्यापादितं यवनालिकासंस्थान श्रोत्रेन्द्रियम्, एतदेव शब्दोपलब्धिसहिष्णु नेतराणि । तथा यदेतद् घाणेन्द्रियम् अतिमुक्तकचन्द्रकसंस्थानम्, एतदेव गन्धावगमसमर्थ नेतराणि । तथा यदेतज्जबेन्द्रियं क्षुरप्राकृति, एतदेव रसावगमेऽलं नान्यानि । तथा यदेतत् स्पर्शनेन्द्रियमनेकाकृति तदेव, स्पर्शोपलम्भनेऽलं नेतराणि । तथा यदेतच्चक्षु
नक्रियाशति २०
१-णे स्व- ता०। २-र्ण प्रान्तवि- भा०२। -र्णतान्तवि-मु०, द०, ब०, ज०। ३ तुलनान्यायकम०पू० ८३ । वैशेषिकाः -सम्पा० । ४ स्पर्शगुण- ता० । ५ तथाभावापत्तः प्रा०, ब०, द०, मु०, ता०।६ -नांव-श्र०। ७-दवगम्य ते-पा०, ब०, द०, म०, ता०। ८ कोऽसावनुमान इति भाष्यम् (पात० महा० २११३) -श्र० टि। “मन्यतेजि अनुमान इति रूपम्' -पात० महा० प्र० शश। & "युगपज्ज्ञानानुत्पत्तिर्मनसो लिङगम्" -न्यायसू०१।१।१६। १०-मत्सु चबा-प्रा०, द०, ब०, मु० । -मत्सु सत्सु वा-श्र०, ता० । ११ वासीपुटमुख- मू० । १२ वृक्षादनो वृक्षभेदीत्यमरः । १३-व्यः क- प्रा०, ब, द०, मु०, मू०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org