________________
तत्त्वार्थवार्तिके
[१११९ चक्षुरिति चेत्, न; द्रव्येन्द्रियोपकरणस्य भावेन्द्रियस्य प्राधान्यात् । अप्राप्यकारित्वे व्यवहितातिविप्रकृष्टग्रहणप्रसङ्ग इति चेत्, न, अयस्कान्तेनैव प्रत्युक्तत्वात् । अयस्कान्तोपलम् अप्राप्य लोहमाकर्षदपि न व्यवहितमाकर्षति नातिविप्रकृष्टमिति संशयावस्थमेतदिति । अप्राप्यकारित्वे संशयविपर्ययाभाव इति चेत् ; न ; 'प्राप्यकारित्वेऽपि तदविशेषात् ।।
कश्चिदाह-रश्मिवच्चक्षुः, तेजसत्वात्, तस्मात्प्राप्यकारीति, अग्निवदिति; एतच्चायुयुक्तम्; अनभ्युपगमात् । न वयमभ्युपगच्छामः 'तैजसं चक्षुः' इति । तेजोलक्षणमौष्ण्यमिति कृत्वा चक्षुरिन्द्रियस्थानमष्णं स्यात् । न च तद्देशं स्पर्शनेन्द्रियम् उष्णस्पर्शोपलम्भि दृष्टमिति । इतश्च, अतैजसं चक्षुः भासुरत्वानुपलब्धेः। अदृष्टवशादनुष्णाभासुरत्वमिति चेत्, न;
अदृष्टस्य गुणत्वात्, "अक्रियस्य भावस्वभावनिग्रहासामर्थ्यात् । 'नक्तञ्चररश्मिदर्शनाद् १० रश्मिवच्चक्षुरिति चेत्, न; अतैजसोऽपि पुद्गलद्रव्यस्य भासुरत्वपरिणामोपपत्तेरिति ।
किञ्च, गतिमद्वैधात् । इह यद् गतिमद्भवति न तत् सन्निकृष्टविप्रकृष्टा वविभिन्न कालं प्राप्नोति, न च तथा चक्षुः। चक्षुहि शाखाचन्द्रमसावभिन्नकालमुपलभते, यावता कालेन शाखां प्राप्नोति तावता चन्द्रमसमिति स्पष्टं गतिमद्वैधर्म्यम्, तस्मान्न गतिमच्चक्षुरिति ।
यदि च प्राप्यकारि चक्षुः स्यात्, तमिस्रायां रात्रौ दूरेऽग्नौ प्रज्वलति तत्समी१५ पगतद्रव्योपलम्भनं भवति कुतो नान्तरालगतद्रव्यालोचनम् ? प्रकाशाभावादिति चेत्, न; तैजसत्वादग्न्यादिवत् सहायान्तरानपेक्षत्वप्रसङ्गात् ।
किञ्च, यदि प्राप्यकारि चक्षुः स्यात् १० सान्तराधिकग्रहणं न प्राप्नोति । नहीन्द्रिया"तरविषये गन्धादौ सान्तरग्रहणं दृष्टं नाप्यधिकग्रहणम् । अथ मतम्-बहिरधिष्ठानावृत्तिरिन्द्रियस्य अत उपपन्नं तद्विषयस्य सान्तराधिकग्रहणमिति; तदयुक्तम् ; यस्मान बहिरधिष्ठानादिन्द्रियम्, तत्र चिकित्सादिदर्शनात्, अन्यथा अधिष्ठानपिधानेऽपि ग्रहणप्रसङ्गः । मनसश्चाबहिर्भावात् । मनसाऽधिष्ठितं हि इन्द्रियं स्वविषये व्याप्रियते, न च मनो बहिरधिष्ठानादस्ति, तदभावादग्रहणप्रसङ्गः । अनुवृत्तौर३ च संभवाभावात् विप्रकीर्ण चक्रश्मिसमूहं कथमणुमनोऽधिष्ठास्यति ?
कश्चिदाह-श्रोत्रमप्राप्यकारि विप्रकृष्टविषयग्रहणादिति; एतच्चायुक्तम् असिद्धत्वात् । २५ साध्यं तावदेतत्-विप्रकृष्टं शब्दं गृह्णाति श्रोत्रम् उत घ्राणेन्द्रियवदवगाढं स्वविषयभावपरिणतं
१ चेन्न तत्प्राप्य- प्रा०, ब०, द०, मु० । चक्षुषः। २ द्रष्टव्यम्- न्यायकुमु० पृ० ७६ टि० १ । ३न हि वय- प्रा०, ब०, द०म०। ४ प्रात्मनः। ५ पदार्थ । ६ "नक्तञ्चरनयनरश्मिदर्शनाच" -न्यायसू०३।१०४३।७-पपत्तिरिति-श्र०, द०। ८ तुलना-"पश्येच्चक्षुश्चिराद् दूरे गतिमद यदि तद्भवेत् । प्रत्यभ्यासे च दूरे च रूपं व्यक्तं न तत्र किम् ॥१३॥ यदि चक्षुः प्राप्यकारित्वात् विषयदेशं गच्छेत् तदो न्मिषितमात्रेण न चन्द्रतारकादीनान गृह्णीयात् ।"-चतुश० पृ० १८६।६-टावभि-प्रा०, ब०, ८०, मु०, ता०।१० तुलना-"सान्तरग्रहणं न स्यात प्राप्तौ ज्ञानाधिकस्य च । अधिष्ठानाद् बहिनदिं न शक्तिविषयेक्षणे॥ -सान्तरग्रहणं विच्छिन्नग्रहणम् । अधिकग्रहणम् इन्द्रियासम्बद्धग्रहणमिति ।" -प्रमाणसमु० ७० पृ० ४१-४२। ११ -न्द्रियान्तरे वि-ता०।-न्द्रियनिरन्तरे वि- म०। १२ -नमस्ति मा०, ब, द०, मु०। -तादस्ति तदग्रहण- म०। १३ वृत्तौ वृत्तौ मनसः संभवो नास्ति यतः। -सम्पा० । १४ -र्णः चक्षरश्मिसमूहः कथ- प्रा०, ब०, द०, मु० । १५ बौद्धः -सम्पा० । "अप्राप्तान्यक्षिमनःश्रोत्राणि......" -अभिव० ११४३ । १६ अप्रसिद्ध-श्र०, म० । साध्यसमोऽयं हेतुः । -ब० टि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org