________________
११९]
प्रथमोऽध्यायः
धारणं प्रतीयते- - 'अप एव भक्षयति' इति, तथा सर्वेषामवग्रहादीनां प्रसिद्धौ अवग्रहवचनमवधारणार्थं विज्ञायते ।
तयोरभेदो ग्रहणाविशेषादिति चेत्; न; व्यक्ताऽव्यक्तभेदाद् अभिनवशराववत् |२| स्यादेतत्-तयोरर्थावग्रहव्यञ्जनावग्रहयोर्नास्ति भेदः - ग्रहणाविशेषात्, न हि शब्दादिग्रहणं प्रति विशेषोऽस्तीति; तन्न; किं कारणम् ? व्यक्ताव्यक्तभेदात् । व्यक्तग्रहणमर्थावग्रहः । अव्यक्तग्रहणं व्यञ्जनावग्रहः । कथम् ? अभिनवशराववत् । यथा सूक्ष्मजलकणद्वित्र सिक्तः शरावो - Serat नाभवति स एव पुनः पुनः सिच्यमानः शनैस्तिम्यति, तथा आत्मनः शब्दादीनामव्यक्तग्रहणात् प्राक् " व्यञ्जनावग्रहः, व्यक्तग्रहणमर्थावग्रहः ।
सर्वेन्द्रियाणामविशेषेण व्यञ्जनावग्रहप्रसङ्गे यत्रासंभवस्तदर्थं प्रतिषेध माह
६७
न चक्षुरनिन्द्रियाभ्याम् ||१६||
चक्षुषा अनिन्द्रियेण च व्यञ्जनावग्रहो न भवति । कुतः ?
व्यञ्जनावग्रहाभावः चक्षुर्मनसोरप्राप्यकारित्वात् ॥ १॥ यतोऽप्राप्तमर्थमविदिक्कं 'युक्तसन्निकर्षविषयेऽवस्थितं बाह्यप्रकाशाभिव्यक्तमुपलभते चक्षुः, मनश्चाप्राप्तम्, ततो नानयोर्व्यञ्जनावग्रहोऽस्ति ।
इच्छा मात्रमिति चेत्; न; सामर्थ्यात् |२| स्यादेतत् - इच्छामात्रमिदम् - 'अप्राप्तार्थावग्राहि १५ चक्षुः' इति; तन्न; किं कारणम् ? सामर्थ्यात् । कथं सामर्थ्यम् ? आगमतयुतितश्च । आगमतस्तावत्'
** "पुट्ठे 'सुणेदि सद्दं अपुट्ठे 'पुण पस्सदे रूवं । गंध रसं च फार्स बद्धं पुट्ठं विजाणादि ॥ " [
Jain Education International
।
१ - द्वित्रिसिक्तः आ०, ब०, द०, मु०, ता० ॥ २ शब्दादीनां व्य- प्रा०, ब०, ६०, मु० । ३ हेतोः - मू० टि० । ४ अर्थावग्रहात् प्राक् - मू० टि० । ५ युक्तं स मु० आ०, ब०, द० । ६ - तावत् गाथा पुट्ठे प्रा०, ब०, मु० । तावत् गाहा पुट्ठे, द०, ता० । श्रागमस्तावत्झा०, ब०, द०, मु०, मू०, ता० । ७ सुणोदि मु०, ब० ८ पुणो विप- ता० । पुण वि प- श्रा०, ब०, ब०, मु० । ६ पुट्ठमपुट्ठे ता० आ०, ब०, सा० । श्राव० नि० गा० ५। पंचर्स० १ । ६८ । स्पृष्टं शृणोति शब्द अस्पृष्टं पुनः पश्यति रूपम् । गन्धं रसं च स्पशं बद्धं स्पृष्टं विजानाति ॥ उद्धतेयम्स० सि० १ । १६ । - सम्पा० । १० द्रष्टव्यम् - न्यायकुमु० पृ० ७५ टि० २ । ११ तुलना - "काचेन अभ्रपटलेन स्फटिकेन अम्बुना चान्तरितं व्यवहितं कथं दृश्यते सप्रतिधत्वात् । काचादिव्यवहितं चक्षुर्न पश्येत । तच्च पश्यतीति सिद्धान्तः ।" -स्कु० प्रभि० पृ० ८४ । १२ भागासिद्धः । १३ चेतनास्तरवः स्वापात् न हि तरुषु सर्वत्र स्वापः पत्रसंकोचलक्षणस्य तस्य द्विवलेष्वेव भावात् ।
५
युक्तितोऽपि -
] इति । अप्राप्यकारि चक्षुः स्पृष्टानवग्रहात् । यदि प्राप्यकारि स्यात् त्वगिन्द्रियवत् स्पृष्टमञ्जनं गृह्णीयात् । न च गृह्णाति । अतो मनोवदप्राप्यकारीत्यवसेयम् ।
अत्र केचिदाहुः - प्राप्यकारि चक्षुः आवृतानवग्रहात् त्वगिन्द्रियवदिति"; अत्रोच्यते"काचाभ्रपटलस्फटिकावृतार्थावग्रहे सति अव्यापकत्वादसिद्धो" हेतु:, वनस्पतिचैतन्ये स्वापवत् । तथा संशयहेतु:, अप्राप्यकारिण्ययस्कान्तोपले साध्यविपक्षेऽपि दर्शनादिति । भौतिकत्वात् प्राप्य - २५ कार चक्षुरग्निवदिति चेत्; न; अयस्कान्तेनैव प्रत्युक्तत्वात् । बाहयेन्द्रियत्वात् प्राप्यकारि
For Private & Personal Use Only
१०
२०
www.jainelibrary.org