________________
तत्त्वार्थवार्तिके
[ ११८ अर्थवचनं गुणग्रहणनिवृत्त्यर्थम् ।२। केचित्-'रूपादयो गुणा एवेन्द्रियैः सन्निकृष्यन्ते ततस्तद्ग्रहणम्' इति मन्यन्ते; तन्मतनिवृत्त्यर्थम् 'अर्थस्य' इत्युच्यते । न हि ते रूपादयो गुणा अमुर्ता इन्द्रियसन्निकर्षमापद्यन्ते इति । तत्प्रचयविशेष सति सन्निकर्षसंभव इति चेत; न; गुणानां प्रचयानुपपत्तेः । सत्यपि वा प्रचये 'अर्थान्तरप्रादुर्भावाभावात् सूक्ष्मावस्थानतिक्रमात् अग्रहणमेवैषां स्यात् । न त दानीमिदं भवति-'रूपं मया दृष्टं गन्धो वा घ्रातः' इति, भवति च; अर्थग्रहणात् तदव्यतिरेकात् तेषामपि ग्रहणोपपत्तेः ।
तेषु सत्सु मतिज्ञानात्मलाभात् सप्तमीप्रसङगः ॥३॥ यतो विषयेषु सत्सु मतिज्ञानमाविर्भवति अत: 'अर्थ' इति वाच्यम् ।
न; अनेकान्तात् ।४। नायमेकान्तोऽस्ति-'सत्यर्थे मतिज्ञानं भवति' इति, यतः सत्यप्यर्थे १० अवनितलभवनसंभूतस्य कुमारस्योत्तीर्णमात्रस्य घटरूपादिमतिज्ञानाभावः । अथवा, नायमेका
न्तोऽस्ति, अधिकरणस्य सत्त्वात् सप्तमीप्रसङ्ग इति । कस्मात् ? तस्याविवक्षितत्वात् । विवक्षावशाद्धि कारकाणि भवन्ति ।।
क्रियाकारकसंबन्धस्य विवक्षितत्वात् ।५। अवग्रहादयः क्रियाविशेषा उक्ताः, तेषामवश्यं केनचित् कर्मणा भवितव्यमिति 'बह्वादिविकल्पस्यार्थस्य' इत्युच्यते ।
बह वादिसामानाधिकरण्याद् बहुत्वप्रसङगः ॥६॥ यतो बह्वादिरेवार्थः नातोऽन्यः, ततो बह्वादिसामान्याधिकरण्यात् 'अर्थानाम्' इति बहुत्वं प्राप्नोति ?
न वा, अनभिसम्बन्धात् ।७। न वैष दोषः । किं कारणम् ? अनभिसंबन्धात् । न यस्य "बह्वादिभिरभिसंबन्धः क्रियते। केन तर्हि ? अवग्रहादिभिः। 'कस्य' इत्युक्ते 'अर्थस्य' “इत्यभिसम्बध्यते, तद्विशेषणं बह्वादिग्रहणम् ।
सर्वस्य वाऽर्यमाणत्वात् ।८। अथवा, सर्वस्यार्यमाणस्यार्थत्वम्, अतो जातिप्रधानत्वान्निदेशस्य 'अर्थस्य' इत्येकत्वनिर्देशो युक्तः ।
प्रत्येकमभिसंबन्धाद्वा ।९। अथवा प्रत्येकमभिसंबन्धः क्रियते-बहोरर्थस्य बहुविधस्यार्थस्य इति ।
___किममी अवग्रहादयः सर्वस्येन्द्रियानिन्द्रियार्थस्य भवन्ति उत कश्चिद्विषयविशेषोऽ२५ स्तीति ? अत आह
व्यञ्जनस्यावग्रहः ॥१८॥ व्यञ्जनमव्यक्तं शब्दादिजातं तस्यावग्रहो भवति। किमर्थमिदम् ? नियमार्थम्-'अवग्रह एव नेहादयः' इति । स तहर्येवकारः कर्तव्यः ?
न वा; सामर्थ्यादवधारणप्रतीतः अब्भक्षवत् ११। न वा कर्तव्यः । किं कारणम् ? साम•दवधारणप्रतीतेः । कथम् ? अब्भक्षवत् । यथा न कश्चिदपो न भक्षयतीति सामर्थ्यादव
. १ वैशेषिकाः। २ यावता बह्वादिरर्थ एव, सत्यमेव किन्तु प्रवाविपरिकल्पनानिवृत्त्यर्थमर्यस्ये. त्युच्यते इत्याह। ३ रूपादीनाम्। ४ गुणादीनां प्रा०, ब०, २०, मु०। ५सम्बन्धाभावात् । ६ अन्योऽर्थः प्रर्यान्तरं तस्य, भेवस्य घाताभावादननां तन्मते अन्यार्थप्रादुर्भावाभाव इत्यर्थः। ७ बहुत्वादिभि-मु०, प्रा०, द०,०। ८ इतीह सम्ब-प्रा०, २०, २०, मु०। विगतमञ्जनमभिव्यक्तिर्यस्य तद् व्यञ्जनम् । व्यज्यते मक्यते प्राप्यत इति । व्यञ्जनमिति च व्यक्तिम्रक्षणयोरर्थयोर्ग्रहणात् शब्दादिकं श्रोत्रादिनेन्द्रियण प्राप्तमपि यावत्राभिव्यक्तं तावदेव व्यञ्जनमित्युच्यते एकवारजलकणसिक्तमूतनशराववत् । १० प्रभक्षणवत् ता० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org