________________
६५
१।१७]
प्रथमोऽध्यायः वर्णकद्रव्यकथने ताल्वादिकरणसंश्लेषात् प्राक् सकृदप्यकथितमेव द्रव्यमाचष्टे 'भवानेवंविधमस्माकं पञ्चवर्णद्रव्यं व्याकरिष्यति' इत्यनुक्त रूपमवगृह्णाति । परकीयाभिप्रायानपेक्षम् आत्मीयचक्षुरिन्द्रियपरिणामसामर्थ्यादेवोक्तं रूपमवगृह्णाति। संक्लेशपरिणामनिरुत्सुकस्य यथानुरूप चक्षुरिन्द्रियावरणक्षयोपशमपरिणामकारणावस्थितत्वात् यथा प्राथमिकं रूपग्रहणं तथावस्थितमेव रूपमवगृह्णाति नोनं नाभ्यधिकम् । पौनःपुन्येन संक्लेशविशुद्धिपरिणामकारणा- ५ पेक्षस्य आत्मनो यथानुरूपपरिणामोपात्तचक्षुरिन्द्रियसान्निध्येऽपि तदावरणस्येषदीषदाविर्भावात् पौनःपुनि प्रकृष्टावकृष्टचक्षुरिन्द्रियावरणक्षयोपशमपरिणामकारणत्वाच्च अधू वमवगृह्णाति रूपं क्वचिद् बहु क्वचिदल्यं क्वचिद् बहुविधं क्वचिदेकविधं क्वचित् क्षिप्रं क्वच्चिरेण क्वचिदनिःसृतं क्वचिन्निःसृतं क्वचिदनुक्तं क्वचिदुक्तम् । एवं घाणाद्यवग्रहेष्वपि योज्यम्। तथेहावायधारणा अपि बह्वादिभिः सेतरैरवसेयाः ।।
कश्चिदाह-श्रोत्रघाणस्पर्शनरसनचतुष्टयस्य प्राप्यकारित्वात् अनिःसृतानुक्तशब्दाद्यवनहेहावायधारणा न युक्ता इति; उच्यते
अप्राप्तत्वात् ।१७। कथम् ?
पिपीलिकादिवत् ॥१८॥ यथा पिपीलिकादीनां घाणरसनदेशाप्राप्तेऽपि गुडादिद्रव्ये गन्धरसज्ञानम्, तच्च यश्च यावद्भिश्चास्मदाद्यप्रत्यक्षसूक्ष्मगुडावयवैः पिपीलिकादिघाणरसनेन्द्रि- १५ ययो: "परस्परानपेक्षा प्रवृत्तिस्ततो न दोषः ।।
____ अस्मदादीनां तदभाव इति चेत्, न; श्रुतापेक्षत्वात् । १९ । यथा भूगृहसंवद्धितोत्थितस्य पुसः चक्षुरादिभिरवभासितेष्वपि घटादिषु 'घटोऽयं रूपमिदम्' इत्यादि यद्विशेषपरिज्ञानं तत् श्रुतापेक्षं परोपदेशापेक्षत्वात्, तथा अस्मदादीनामप्यनिःसृतानुक्तमपि 'ज्ञानविकल्पशब्दात् यदवग्रहादिज्ञानं तत् श्रुतापेक्षम् । किञ्च,
"लब्ध्यक्षरत्वात् ।२०। श्रुतज्ञानप्रभेदरूपणायां लब्ध्यक्षरश्रुतकथनं षोढा प्रविभक्तम् । तद्यया- "चक्षुःश्रोत्रघाणरसनस्पर्शनमनोलब्ध्यक्षरम्" [ ] इत्यार्ष उपदेशः । अतः चक्षुःश्रोत्रघाणरसनस्पर्शनेन्द्रियमनोलब्ध्यक्षरसान्निध्यात् एतसिध्यति अनिसृतानुक्तानामपि शब्दादीनां अवग्रहादिज्ञानम् ।
यद्यवग्रहादयो बह्वादीनां कर्मणामाक्षेप्तारो बह्वादीनि पुनर्विशेषणानि कस्येति ? २५ अत आह
२०
अर्थस्य ॥१७॥ चक्षुरादिविषयोऽर्थः, तस्य बह्वादिविशेषणविशिष्टस्य अवग्रहादयो भवन्ति ।
इति पर्यायनर्यते वा तैरित्यर्थो द्रव्यम् ॥१॥ प्रत्यात्म संबन्धिनः पर्यायान् उभयनिमित्तवशादुत्पत्तिं प्रत्यागूर्णान् इयति गच्छति, अर्यते गम्यते वा तैरित्यर्थः । कः पुनरसौ ? द्रव्यम्। ३०
किमर्थमिदमुच्यते
१ पञ्चवर्ण व्यति- प्रा०, ब०, व०म०। पञ्चवर्ण व्या-ता०। २-मापेक्ष-प्रा०, ब०, २०, मु० । ३ अत्राप्य वस्योदाहरणमाह । ४ परस्परापेक्षा प्रवृत्तिः मू०। परस्परापेक्षावृत्तिः प्रा०, ब०, २०, मु०। ५ भावश्रुत। ६ -दाद्यव-पा०, ब०, द०, मु०, ता०। ७ प्रात्मनोऽर्थप्रहणशक्तिलब्धिः भावेन्द्रियम्, तपमक्षरं लब्ध्यक्षरम, आत्मज्ञानोत्पत्तिहेतुत्वात् । ८ सूचकाः। ६ स्वरूप।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org