________________
८४
तत्त्वार्थवार्तिके
[१११६ विधमवगृह्णाति । अल्पविशुद्धिश्रोत्रेन्द्रियादिपरिणामकारण आत्मा ततादिशब्दानामेकविधावग्रहणात् एकविधमवगृह्णाति। प्रकृष्टश्रोत्रेन्द्रि यावरणक्षयोपशमादिपरिणामित्वात् क्षिप्रं शब्दमवगाति । अल्पश्रोत्रन्द्रियावरणक्षयोपशमादिपारिणामिकत्वात् चिरेण शब्दमवगृह्णाति रसूविशद्धश्रोत्रादिपरिणामात साकल्येनानच्चारितस्य ग्रहणात् अनिःसतमवगृह्णाति । निःसृतं ५ प्रतीतम् । प्रकृष्टविशद्धिश्रोत्रेन्द्रियादिपरिणामकारणत्वात एकवर्णानिर्गमेऽपि अभिप्रायेणव
अनुच्चारित शब्दमवगलाति 'इम भवान शब्द वक्ष्यति' इति। अथवा, स्वरसचारणात् प्राक् तन्त्रीद्रव्यातोद्याद्यामर्शनेनैव अवादितम् अनुक्तमेव शब्दमभिप्रायेणावगय आचष्टे'भवानिम शब्द वादयिष्यति' इति । उक्तं प्रतीतम्। संक्लेशपरिणामनिरुत्सकस्य यथानुरूपश्रोत्र न्द्रियावरणक्षयोपशमादिपरिणामकारणावस्थितत्वात् यथा प्राथमिक शब्दग्रहण तथावस्थितमेव शब्दमवगृह्णाति नोनं नाभ्यधिकम् । पौनःपुन्येन संक्लेशविशुद्धिपरिणामकारणापेक्षस्यात्मनो यथानुरूपपरिणामोपात्तश्रोत्रेन्द्रियसान्निध्येऽपि तदावरणस्येषदीषदाविर्भावात् पौनापुनिक प्रकृष्टावकृष्टश्रोत्रेन्द्रियावरणादिक्षयोपशमपरिणामत्वाच्च अध्रवमवगृह्णाति शब्दम्-क्वचिद् बहु क्वचिदल्पं क्वचिद् बहुविधं क्वचिदेकविधं क्वचित् क्षिप्रं क्वच्चिरेण क्वचिदनिःसृतं क्वचिन्निसृतं क्वचिदुक्तं क्वचिदनुक्तम् ।
अत्राह--बहुबहुविधयोः कः प्रतिविशेषो यावतोभयत्रापि ततादिशब्दग्रहणमविशिष्टमस्ति ? उच्यते-न, 'विशेष दर्शनात् । यथा कश्चित् बहूनि शास्त्राणि "मौलेन सामान्यार्थेनाविशेषितेन व्याचष्टे न तु बहुभिविशेषिताथै :, कश्चिच्च तेषामेव बहूनां शास्त्राणां बहुभिरथैः परस्परातिशययुक्तैर्बहुविकल्पैाख्यानं करोति, तथा ततादिशब्दग्रहणाविशेषेऽपि यत्प्र
त्येकं ततादिशब्दानाम् एकद्वित्रिचतुःसंख्येयाऽसंख्येयाऽनन्तगुणपरिणतानां ग्रहणं तद् बहुविध२० ग्रहणम्, यत्ततादीनां सामान्यग्रहणं तद् बहुग्रहणम् ।
आह-उक्तनिःसृतयोः कः प्रतिविशेषः, यतः सकलशब्दनिःसरणान्निःसृतम् उक्तमप्येवंविधमेव ? उच्यते-अन्योपदेशपूर्वकं शब्दग्रहणम् उक्तम् ‘गोशब्दोऽयम्' इति । स्वत एव ग्रहणं निःसृतम् ।
‘चक्षुषा तु विशुद्ध चक्षुरिन्द्रियावरणक्षयोपशमपरिणामकारणत्वात शुक्लकृष्णरक्तनीलपीत२५ रूपपर्यायं बहुमवगृह्णाति । अल्पं पूर्ववत् । प्रकृष्टविशुद्धिचक्षुरिन्द्रियादिक्षयोपशमपरिणाम
कारणत्वात् शुक्लादिपञ्चतयरूपगुणस्य प्रत्येकमेकद्वि त्रिचतुःसंख्येयासंख्येयानन्तगुणपरिणामिनोऽवग्राहकत्वसामर्थ्याद् बहुविध रूपमवगृह्णाति । एकविधं पूर्ववत् । क्षिप्रचिरयोरप्युक्त एव क्रमः । पञ्चवर्णवस्त्रकम्बलचित्रपटादीनां सकृदेकदेशविषयपञ्चवर्णग्रहणात् कृत्स्नपञ्चवर्णष्वदृष्टेष्वनिःसृतेष्वपि तद्वर्णाविष्करणसामर्थ्याद् अनिःसृतमवगृह्णाति । अथवा, देशान्तरस्थपञ्चवर्णपरिणतंकवस्त्रादिकथनात् साकल्येनाऽकथितस्यापि एकदेशकथनेनैव तत्कृत्स्नपञ्चवर्णग्रहणाद् अनिःसृतम् । निःसृतं प्रतीतम् । 'सुविशुद्धचक्षुरिन्द्रियादिक्षयोपशम आत्मा शुक्लकृष्णादिवर्णमिश्रीकरणदर्शनात् परेणाकथितमपि वर्णमभिप्रायेणैव प्रतिपद्यते-'भवानिमं वर्णमे"तद्वर्णद्वयमिश्रणात् करिष्यति' इत्येवं ग्रहणादनुक्तं रूपमवगृह्णाति । अथवा, देशान्तरस्थपञ्च
१ सुविशुद्धिो - प्रा०, ब०, ८०, मु०। २-र्णनिर्ग-प्रा०, ब०, द०, मु०। ३-मेव गु१०। ४ माह प्रा०, ब०, २०, म०, ता०। ५ यस्मात कारणात। ६ एकप्रकारनानाप्रकारक वर्शनात् । ७ मौनन आ०, ब०, द०, मु०। ८ चक्षुषा वि- श्र० । चक्षुषा स तु वि- ता० । १ सुविशुद्धिचक्षु प्रा०, ब०, द०, मु०। १० -तद्वर्णमि-।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org