SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ १।१६] प्रथमोऽध्यायः संशयाभावः स्यात् । अथ पुरुषे; तथा स्थाणु द्रव्यानपेक्षत्वात् संशयो न स्यात्, तत्पूर्ववत् । नत्वभाव' इष्टः, अतो नैकार्थग्राहिविज्ञानकल्पना श्रेयसीति । किञ्च, ईप्सितनिष्पत्यनियमात् ।६। विज्ञानस्यैकार्थावलम्बित्वे चित्रकर्मणि निष्णातस्य चैत्रस्य पूर्णकलशमालिखतः२ तत्क्रियाकलशतत्प्रकारग्रहणविज्ञानभेदात् इतरेतरविषयसंक्रमाभावात् अनेकविज्ञानोत्पादनिरोध'क्रमे सति अनियमेन निष्पत्तिः स्यात्। दृष्टा तु सा नियमेन । सा ५ चैकार्थग्राहिणि विज्ञाने विरुध्यते । तस्मान्नानार्थोऽपि प्रत्ययोऽभ्युपेयः । द्वित्रादिप्रत्ययाभावाच्च ।७। एकार्थविषय वतिनि विज्ञाने 'द्वाविमौ इमे त्रयः' इत्यादि प्रत्ययस्याभावः, यतो नैकं विज्ञानं द्विवाद्यर्थानां ग्राहकमस्ति । सन्तानसंस्कारकल्पनायां च विकल्यानुपपत्तिः ।।। सन्ताने संस्कारे च कल्प्यमाने विकल्पयोरनुपपत्तिः । स सन्तानः संस्कारश्च ज्ञानजातीयो वा स्यात्, अज्ञानजातीयो वा ? १० यद्यज्ञानजातीयः; न ततः किञ्चित् प्रयोजनमस्ति । ज्ञानजातीयत्वेऽपि एकार्थग्राहित्वं वा स्यात्, अनेकार्थग्राहित्वं वा ? यद्येकार्थग्राहित्वम् दोषविधिस्तदवस्थः । अथानेकार्थग्राहित्वम्, प्रतिज्ञाहानिः प्रसज्यते । विधग्रहणं प्रकारार्थम् ।९। 'विधयुक्तगतप्रकाराः समानार्थाः' इति प्रकारार्थो विधशब्दः। बहुविधं बहुप्रकारमित्यर्थः । क्षिप्रग्रहणमचिरप्रतिपत्त्यर्थम् ।१०। 'अचिरप्रतिपत्तिः कथं स्यात्' इति क्षिप्रग्रहणं क्रियते । अनिःसृतग्रहणमसकलपुद्गलोद्गमार्थम् ॥११॥ अनिःसृतग्रहणं क्रियते असकलपुद्गलोद्गमार्थम् । अनुक्तमभिप्रायेण प्रतिपत्तेः ।१२। 'अभिप्रायेण प्रतिपत्तिरस्ति' इत्यनुक्तग्रहणं क्रियते। २० धू वं यथार्थग्रहणात् ।१३। ५ वग्रहणं क्रियते 'यथार्थग्रहणमस्ति' इति । सेतरग्रहणाद्विपर्ययावरोधः ।१४। 'अल्पमल्पविधं चिरं निःसृतमुक्तमध्रुवम्' इत्येतेषामवरोधो भवति सेतरग्रहणात् । अवग्रहादिसंबन्धात् कर्मनिर्देशः।१५। 'बह्वादीनाम्' इति कर्मनिर्देशोऽवग्रहाद्यपेक्षो । वेदितव्यः। ___ बह्वादीनामादौ वचनं विशुद्धिप्रकर्षयोगात् ।१६। ज्ञानावरणक्षयोपशमविशुद्धिप्रकर्षयोगे सति बह्वादीनामवग्रहादयो भवन्ति इति तेषां ग्रहणमादौ क्रियते । ते च प्रत्येकमिन्द्रियानिन्द्रियेषु द्वादशविकल्पा नेयाः । तद्यथा-प्रकृष्टश्रोत्रेन्द्रियावरणवीर्यान्तरायक्षयोपशमाङ्गोपाङ्गनामोपष्टम्भात् संभिन्नश्रोताऽन्यो वा युगपत्तत विततधन "सुषिरादिशब्दश्रवणाद् बहुशब्दमवगृह्णाति । अल्पश्रोत्रेन्द्रियावरणक्षयोपशमपरिणाम आत्मा ३० ततशब्दादीनामन्यतममल्पं शब्दमवगृह्णाति । प्रकृष्टश्रोत्रेन्द्रियावरणक्षयोपशमादिसन्निधाने सति ततादिशब्दविकल्पस्य प्रत्येकमेकद्वित्रिचतुःसंख्येयासंख्येयानन्तगुणस्यावग्राहकत्वात् बहु । २५ १ संशयस्याभावः - ता० टि०। २-तः क्रिया- ता०, मू०१०। -तः सत्किया-२० । ३ नाश । ४-विषयविज्ञाने ता०। ५-त्तिः सन्ता- १०। ६-पत्तिः श्र०, द०। -पत्त्यर्थ भा०१। ७ अङ्गीकारः। ८ वीणादिवाच । एमरजादि। १० तालादि। ११ वंशादि । ततं वीणादिक वाचमानद्धं मरजाविकम् । वंशादिकं तु सुषिरं कास्यं तालादिकं घनम् ॥ इत्यमरः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy