________________
१५
तरवार्थवार्तिके
[११६ आह-ईहादीनाममतिज्ञानप्रसङ्गः । कुतः ? परस्परकार्यत्वात् । अवग्रहः कारणम् ईहा कार्यम्, ईहा कारणम् अवायः कार्यम्, अवायः कारणं धारणा कार्यम् । न चेहादीनाम् इन्द्रियानिन्द्रियनिमित्तत्वमस्तीति; नैष दोषः; ईहादीनाम् अनिन्द्रियनिमित्तत्वात् मतिज्ञानव्यपदेशः।
यद्येवं श्रुतस्यापि प्राप्नोति; इन्द्रियगृहीतविषयत्वादीहादीनाम् अनिन्द्रियनिमित्तत्वमप्युपचर्यते, ५ न तु श्रुतस्यायं विधिरस्ति तस्यानिन्द्रियविषयत्वादिति श्रुतस्याप्रसङ्गः । यद्येवं चक्षुरिन्द्रिये
हादिव्यपदेशाभाव इति चेत्, न; इन्द्रियशक्तिपरिणतस्य जीवस्य भावेन्द्रियत्वे तद्व्यापारकार्यत्वात् । इन्द्रियभावपरिणतो हि जीवो भावेन्द्रियमिष्यते, तस्य विषयाकारपरिणामा ईहादय इति चक्षुरिन्द्रियेहादिव्यपदेश इति। .
___ य इमे अवग्रहादयो मतिज्ञानप्रभेदा उक्तास्ते ज्ञानावरणक्षयोपशमनिमित्ताः केषां १० भवन्तीति ? उच्यते
बहुबहुविधक्षिप्रानिःसृतानुक्तध्रुवाणां सेतराणाम् ॥१६॥ संख्यावैपुल्यवाचिनो बहुशब्दस्य ग्रहणमविशेषात् ।। बहुशब्दो हि संख्यावाची वैपुलाची च, तस्योभयस्यापि ग्रहणम् । कस्मात् ? अविशेषात् । संख्यायाम् ‘एको द्वौ बहवः' इति, वैपुल्ये 'बहुरोदनो बहुः सूपः' इति ।।
बह्ववग्रहाद्यभावः प्रत्यर्थवशवतित्वादिति चेत्; न; सर्वदैकप्रत्ययप्रसङगात् ।२। स्यादेतत्प्रत्यर्थवशवति विज्ञानं नानेकमर्थ ग्रहीतुमलम्, अतो बह्ववग्रहादीनामभाव इति; तन्न; किं कारणम् ? सर्वदैकप्रत्ययप्रसङ्गात् । यथा 'इरिणाटव्यां कश्चिदेकमेव पुरुषमवलोकयन् नानेक इत्यवैति, मिथ्याज्ञानमन्यथा स्यात् एकत्र अनेकबुद्धिर्यदि भवेत्, तथा नगरवनस्कन्धावाराव
गाहिनोऽपि तस्यैकप्रत्ययः स्यात् सार्वकालिकः । अतश्चानेकार्थग्राहिविज्ञानस्यात्यन्तासंभवात् २० नगरवनस्कन्धावारप्रत्ययनिवृत्तिः । नैताः संज्ञा हयेकार्थनिवेशिन्यः, तस्माल्लोकसंव्यवहारनिवृत्तिः। किञ्च,
'नानार्थप्रत्ययाभावात् ।३। यस्यैकार्थमेव नियमाज्ज्ञानं तस्य पूर्वज्ञाननिवृत्तावुत्तरज्ञानोत्पत्तिः स्यात्, अनिवृत्तौ वा ? उभयथा च दोषः । यदि पूर्वमुत्तरज्ञानोत्पत्तिकालेऽस्ति; यदु
क्तम् *"एकार्थमेकमनस्त्वात्”[ ] इत्यदो विरुध्यते । ययकं मनोऽनेकप्रत्ययारम्भकं तथैक२५ प्रत्ययोऽनेकार्थों भविष्यति, अनेकस्य प्रत्ययस्यैककालसंभवात् । 'नन्वनेकार्थोपलब्धिरुपपत्स्यते; तत्र 'यदभिमतम्'-*"एकमेव एकस्य ज्ञानमेकं चार्थमुपलभते" [ ] इत्यमुष्य व्याघातः । अथ पुनर्विनिवृत्ते पूर्वस्मिन्नुत्तरज्ञानोत्पत्तिः प्रतिज्ञायते; ननु सर्वथैकार्थमेकमेव ज्ञानमिति, अतः 'इदमस्मादन्यत्' इत्येष व्यवहारो न स्यात् । अस्ति च सः, तस्मान्न किञ्चिदेतत् । किञ्च,
आपेक्षिकसंव्यवहार विनिवृत्तेः ।४। यस्यैकज्ञानमनेकार्थविषयं न विद्यते; तस्य मध्यमाप्रदेशिन्योयुगपदनुपलम्भात् तद्विषयदीर्घ ह्रस्वव्यवहारो विनिवर्तेत । आपेक्षिको हयसौ, न चापेक्षास्ति । किञ्च,
संशयाभावप्रसङगात् ५। एकार्थविषयवतिनि विज्ञान, स्थाणौ पुरुष वा प्राक्प्रत्ययजन्म स्यात्, नोभयोः प्रतिज्ञातविरोधात् । यदि स्थाणी; पुरुषाभावात् स्थाणुवन्ध्यापुत्रवत्
१-ताः पुनः के -ता०। २ शून्याटव्याम् । संकीणौ निचिताशुद्धाविरिणं शून्यमूषरमित्यमरः । यथारण्याटव्याम्- प्रा०, २०, ब०, मु०। ३ नानात्वप्रत्य- प्र०, ब०, २० म०, मू०। ४ नत्वनेकामु० । नत्वेका -ब०। ५ यदभिमतमेवैकस्य मा०, २०,०, मु०। ६ पुननिव-मा०, १०,०, मु०। ७-र नि- प्रा०, द०, ब०, मु०। प्रागल्योः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org