________________
१।१५]
प्रथमोऽध्यायः ईहायां तत्प्रसङग इति चेत् न, अर्थादानात् ।११। स्यादेतत्-यदि निर्णयाविरोध्यवग्रह इति न संशयः, ननु ईहाया निर्णयविरोधिनीत्वात् संशयत्वप्रसङ्ग इति; तन्न; किं कारणम् ? अर्थादानात् । अवगृह्यार्थ तद्विशेषोपलब्ध्यर्थमर्थादानमीहा। संशयः पुनर्नार्थविशेषालम्बनः ।
संशयपूर्वकत्वाच्च ।१२। संशयो हि पूर्वमुपजायते ईहायाः । कथम् ? इह पुरुषमवगृहय 'किमयं दाक्षिणात्य उत औदीच्यः' इत्येवमाद्यप्रतिपत्तौ संशय., एवंसंशयितस्योत्तरकालं ५ विशेषोपलिप्सां प्रति यतनमीहेति संशयादर्थान्तरत्वम् ।। ___ अत एव संशयावचनम् अर्थगृहीतः।१३। अत एव सूत्रे संशयो नोक्तः । कुतः ? अर्थगृहीतः । सति' हि संशये ईहायाः प्रवृत्तिर्नाऽसतीति ।
आह-किमयम् अपाय उत अवाय इति ? उभयथा न दोषः। अन्यतरवचनेऽन्यतरस्यार्थगृहीतत्वात् । यदा 'न दाक्षिणात्योऽयम्' इत्यपायं त्यागं करोति तदा 'औदीच्यः' इत्य- १० वायोऽधिगमोऽर्थगृहीतः। यदा च 'औदीच्यः' इत्यवायं करोति तदा 'न दाक्षिणात्योऽयम्' इत्यपायोऽर्थगृहीतः । ____ कश्चिदाह-यदुक्तं भवता विषयविषयिसन्निपाते दर्शनं भवति, तदनन्तरमवग्रह इतिः तदयुक्तम्; अवैलक्षण्यात् । न हयवग्रहाद्विलक्षणं दर्शनमस्तीति । अत्रोच्यते-न; वैलक्षण्यात् । कथम्? इह चक्षुषा चक्षुर्दर्शनावरणवीर्यान्तरायक्षयोपशमाङ्गोपाङ्गगनामावष्टम्भाद् अविभावि- १५ तविशेषसामर्थ्येन 'किञ्चिदेतद्वस्तु' इत्यालोकनमनाकारं दर्शनमित्युच्यते बालवत् । यथा जातमात्रस्य बालस्य प्राथमिक उन्मेषोऽसौ अविभावितरूपद्रव्यविशेषालोचनाद्दर्शनं विवक्षितं तथा सर्वेषाम् । ततो 'द्विवादिसमयभाविषून्मेषेषु चक्षुरवग्रहमतिज्ञानावरणवीर्यान्तरायक्षयापेशमाङ्गोपाङ्गनामावष्टम्भाद् 'रूपमिदम्' इति विभावितविशेषोऽवग्रहः । यत् प्रथमसमयोन्मेषितस्य बालस्य दर्शनं तद् यदि अवग्रहजातीयत्वात् ज्ञानमिष्टम्; तन्मिथ्याज्ञानं वा स्यात्, सम्यग्ज्ञानं २० वा ? मिथ्याज्ञानत्वेऽपि संशयविपर्ययानध्यवसायात्मकं [वा] स्यात् ? तत्र न तावत् संशयविपर्ययात्मक वाऽचेष्टि; तस्य' "सम्यग्ज्ञानपूर्वकत्वात् । प्राथमिकत्वाच्च तन्नास्तीति । न वाऽनध्यवसायरूपम्। जात्यन्धबधिररूपशब्दवत् वस्तुमात्रप्रतिपत्तेः। न सम्यग्ज्ञानम्; अर्थाकारावलम्बनाभावात् । किञ्च,
___ कारणनानात्वात् कार्यनानात्वसिद्धेः । यथा मृत्तन्तुकारणभेदात् घटपटकार्यभेदः तथा दर्श- २५ नज्ञानावरणक्षयोपशमकारणभेदात् तत्कार्यदर्शनज्ञानभेद इति । अस्ति प्राक् अवग्रहाद्दर्शनम् । ततः शुक्लकृष्णादिरूपविज्ञानसामोपेतस्यात्मनः किं शुक्लमुत कृष्णम्' इत्यादिविशेषाप्रतिपत्तेः संशयः । ततः शुक्लविशेषाकाङक्षणं प्रतीहनमीहा। ततः 'शुक्लमेवेदं न कृष्णम्' इत्यवायनमवायः । 'अवेतस्यार्थस्याविस्मरणं धारणा। एवं श्रोत्रादिषु मनस्यपि योज्यम् । तदावरणकर्मक्षयोपशमविकल्पात् प्रत्येकमवग्रहादिज्ञानावरणभेद इष्यते । कथम् ? ज्ञानावरणमूलप्रकृतेः पञ्चो- ३० त्तरप्रकृतयः, तासामप्युत्तरोत्तराः प्रकृतिविशेषाः सन्ति । "ज्ञानावरणस्योत्तरोत्तरप्रकृतयः 'असंख्येया लोकाः" [ ] इति वचनात् ।
सति संशये ईहायाः प्रवृत्तिर्नास्तीति द०, मु०। असति सं-पा०, ब०। २-वरणीयवीप्रा०, ब०, मु०। ३ सुज्वेत्यादिना समासः। ४ -पर्यासानध्य- ता०। ५वाचेष्टितस्य म०, प्रा०, ब०, २०। बालेऽस्ति तस्य मु०। लुङ चेष्टितम्- ता०टि०। न तावत् संशयविपर्ययात्मकं वा बालेन अचेष्टि चेष्टितमित्यर्थः। ६ संशयविपर्ययात्मकस्य । ७ समीचीन। ८ निश्चितस्य । नानाजीवापेक्षया । प्रसंख्येयलोकाः म० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org