________________
तत्त्वार्थवार्तिके
[१२१५ अवग्रहेहावायधारणाः ॥१५॥ विषयविषयिसन्निपातसमनन्तरमाद्यं ग्रहणमवग्रहः ।। विषयविषयिसन्निपाते दर्शनं भवति, तदनन्तरमर्थस्य ग्रहणमवग्रहः ।
अवगृहीतेऽर्थे तद्विशेषाकाडक्षणमोहा ।२। यथा 'पुरुषः' इत्यवगृहीते तस्य भाषावयोरूपादिविशेषैराकाङक्षणमीहा ।
विशेषनिर्ज्ञानाद्याथात्म्यावगमनमवायः ॥३, भाषादिविशेष निर्ज्ञानात्तस्य याथात्म्येनावगमनमवायः। 'दाक्षिणात्योऽयम्, युवा, गौरः' इति वा ।
निर्णीतार्थाऽविस्मतिर्धारणा।। भाषावयोरूपादिविशेषैर्याथात्म्येन निर्णीतस्य पुरुषस्योत्तरकालम् स एवायम्' इत्यविस्मरणं यतो भवति सा धारणा। त एते मतिज्ञानभेदाः ।
अत्राह-इदमानुपूर्व्य किं कृतमेषाम् ? उच्यते
अवग्रहादीनामानुपूर्व्यमुत्पत्ति क्रमापेक्षम् ।५। अवग्रहपूर्वकत्वात् इतरेषाम् आदाववग्रहः क्रियते । तथेतरेष्वपि योज्यम् । अत्राह
अवग्रहहयोरप्रामाण्यं तत्सद्भावेऽपि संशयदर्शनाच्चक्षुर्वत् ।६। यथा चक्षुषि न निर्णयः, सत्येव दस्मिन् 'किमयं स्थाणुराहोस्वित् पुरुषः' इति संशयदर्शनात्, तथा अवग्रहेऽपि सति न १५ निर्णय ईहादर्शनात्, ईहायां च न निर्णयः, यतो निर्णयार्थमीहा नत्वीहैव निर्णयः । यश्च निर्णयो न भवति स संशयजातीय इत्यप्रामाण्यमनयोरिति ।
अवग्रहवचनादिति चेत्, न; संशयानतिवृत्तेरालोचनवत् ।७। स्यादेतत्-नावग्रहः संशयः । कुतः ? ६ अवग्रहवचनात् । यत उक्तः 'पुरुषोऽयम्' इति अवग्रहः, 'तस्य भाषावयोरूपादिविशेषा
काङक्षणमीहा' इति । संशयस्तु अप्रतिपत्तिरेवेति; तन्न'; किं कारणम् ? संशयानतिवृत्तेः । २० कथम् ? आलोचनवत् । यथा ऊर्थािलोचने 'किमयमोऽर्थः स्थाणुः, उत पुरुषः' इति संशयानतिवृत्तिः तथा 'ऊोऽयमर्थः' इत्यवग्रहे ईहाद्यपेक्षत्वात् संशयानतिवृत्तिः । उच्यते
लक्षणभेदादन्यत्वमग्निजलवत् ।८। यथा अग्निजलयोः दहनप्रकाशनादि-द्रवतास्नेहनादिप्रतिनियतलक्षणभेदात् अन्यत्वं तथा अवग्रहसंशययोर्लक्षणभेदादन्यत्वम् । कोऽसौ लक्षणभेद: ? उच्यते__अनेकार्थाऽनिश्चिताऽपर्युदासात्मकः संशयः तद्विपरीतोऽवग्रहः ।९। स्थाणुपुरुषाद्यनेकार्थालम्बनसन्निधानादनेकार्थात्मकः संशयः, एकपुरुषाद्यन्यतमात्मकोऽवग्रहः । स्थाणुपुरुषानेकधर्मानिश्चितात्मकः संशयः, यतो न स्थाणुधर्मान् पुरुषधांश्च निश्चिनोति, अवग्रहस्तु पुरुषाद्यन्यतमैकधर्मनिश्चयात्मकः। स्थाणुपुरुषानेकधर्माऽपर्युदासात्मक: संशयः, यतो न प्रतिनियतान्
स्थाणुपुरुषधर्मान् पर्युदस्यति संशयः, अवग्रहः पुनः पर्युदासात्मकः, स हयन्यान् 'ध्रुवादीन् ३० पर्यायान् पर्युदस्य 'पुरुष. इत्येकपर्यायालम्बनः ।
__ संशयतुल्यत्वमपर्युदासादिति चेत्, न; निर्णय विरोधात् संशयस्य ।१०। स्यादेतत्-संशयतुल्योऽवग्रहः । कुतः ? अपर्युदासात् । यथा संशयः स्थाणुपुरुषविशेषापर्यु दासात्मकः तथा अवग्रहोऽपि 'पुरुषः' इति भाषावयोरूपाद्यपर्यु दासात्मकः। अतश्चैतदेवं यदुत्तरकालं तद्विशेषार्थमीहामारभत इति; तन्न ; किं कारणम् ? निर्णयविरोधात् संशयस्य । संशयो हि निर्णयविरोधी नत्ववग्रहः निर्णयदर्शनात् ।
१-माद्यग्र-- प्रा०, ब०, मु० । २ निर्शातार्था- मु० । ३ -काले भा० २। ४ -त्तिक्रियापेमु०। ५ तथोत्तरे- मु० । ६ प्रतिपत्ति। ७ - भावादीन् मु०।-न् भवादीन् प्रा०, २०, २०, ता०, भा० २। स्थाणुरस्त्री धवः शङकुः । स्थावादीनित्यर्थः । ८-यनिरो- मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org