________________
२१४]
प्रथमोऽध्यायः पर्यायवैविध्यादग्निवत् ।८। यथा अग्नेरात्मभूत उष्णपर्यायो लक्षणं न धूमः, तस्य बाहयेन्धननिमित्तत्वे कादाचित्कत्वात्, तथा आभ्यन्तरो मत्यादिपर्याय आत्मभूतत्वाल्लक्षणं नाऽनात्मभूतो बाहयो मत्यादिशब्दः पुद्गलः तत्प्रत्यायनसमर्थः, तस्य बाहयकरणप्रयोगनिमित्तत्वात् ।
इति करणस्य वाऽभिधेयार्थत्वात् ।९। अथवा इतिकरणोऽयम् अभिधेयार्थः प्रयुज्यते। ५ मतिः स्मृतिः संज्ञा चिन्ता अभिनिबोध इति योऽर्थोऽभिधीयते तन्मतिज्ञानमिति । ततो लक्षणत्वमुपपद्यते ।
श्रुतादोनातैरनभिधानात् ।१०। न हयेतैर्मत्यादिभिः श्रुतादीन्यभिधीयन्ते।
वक्ष्यमाणलक्षणसद्भावाच्च ।११॥ श्रुतादीनां हि लक्षणं वक्ष्यते । ततः तेषां मत्यप्रसङगः । 'यद्येवंलक्षणं मतिज्ञानमवधूियते अथास्यात्मलाभे किनिमित्तमिति १ अत आह
तदिन्द्रियानिन्द्रियनिमित्तम् ॥१४॥ अथवा, आत्मप्रसादाविशेषात् सर्वज्ञानानामेकत्वप्रसङगे निमित्तभेदान्नानात्वं प्रतिपिपादयिषन्' ब्रवीति-सत्यपि अमुष्मिन्नविशेषे पृथक्त्वमेषामवेमः । कुतः १ यस्मात्तदिन्द्रियानिन्द्रियनिमित्तमिति । किमिदमिन्द्रियं नाम ?
इन्द्रस्यात्मनोऽर्थोपलब्धिलिडमिन्द्रियम् ।१। इन्द्र आत्मा, तस्य कर्ममलीमसस्य स्वयमर्थान् ग्रहीतुमसमर्थस्याऽर्थोपलम्भने यल्लिङगं तदिन्द्रियमित्युच्यते ।
अथ किमिदमनिन्द्रियम् ?
अनिन्द्रियं मनोऽनुदरावत् ।२। मनोऽन्तःकरणमनिन्द्रियमित्युच्यते। कथमिन्द्रियप्रतिषेधेन मन उच्यते ? यथा 'अयमब्राह्मणः' इत्युक्ते ब्राह्मणत्वरहिते कस्मिश्चित् संप्रत्ययो २० भवति, तथा इन्द्रलिङगविरहिते अन्यस्मिन् अनिन्द्रियमिति संप्रत्ययः स्यात्, न तु इन्द्रलिङग एव मनसि; नैष दोषः: ईषत्प्रतिषेधात् । कथम् ? अनुदरावत् । यथा 'अनुदरा कन्या' इति नास्या उदरं न विद्यते, किन्तु गर्भभारोद्वहनसमर्थोदराभावादनुदरा, तथा अनिन्द्रियमिति नास्येन्द्रियत्वाभावः, किन्तु चक्षुरादिवत् प्रतिनियतदेशविषयावस्थानाभावात् अनिन्द्रियं मन
२५ अन्तरङग तत्करणम्, इन्द्रियानपेक्षत्वात् ।३। नास्यन्द्रियष्वपेक्षास्तीति इन्द्रियानपेक्षम् । न यस्य गुणदोषविचारस्वविषयप्रवृत्तौ इन्द्रियापेक्षास्ति ततोऽन्तरङग तत्करणमिति वेदितव्यम् । तदुभयमवष्टभ्य यदुत्पद्यते तन्मतिज्ञानमिति ।।
तदित्यग्रहणम्, अनन्तरत्वादिति चेत्, न; उत्तरार्थत्वात् ।४। स्यादेतत्-मतिज्ञानस्यानन्तरत्वादनेनाभिसंबन्धो भवतीति तदित्येतद्ग्रहणमनर्थकमिति तन्न; किं कारणम् ? उत्तरार्थ- ३० स्वात् । उत्तरार्थ हि तत् । इतरथा हि अवग्रहहावायधारणा मतिज्ञानभेदा इति विज्ञातुमशक्याः । तद्ग्रहणे पुनः क्रियमाणे तन्मतिज्ञानमवग्रहादय इति संबन्धः सुगमो भवति ।
यदेतस्मिन्निमित्तद्वयसन्निधाने सत्यात्मलाभं प्रत्यागूर्णमनिर्वणितभेदमिति तद्भेदप्रतिपत्त्यर्थमाह
इत्युच्यते।
१ यदेवं ता०।
२-यिष्यन प्रा०, ब०, म०। ३ ह्येतत् प्रा०, ब०, ८०, मु०, ता० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org