________________
५८
तत्त्वार्थवार्तिके
[११३ व्यम् । कथं पुनः 'मननं मन्यत इति वा मतिः' इत्येवमाद्यर्थविषयाणामेषामनर्थान्तरत्वम् इति ? अत आह-रूढिवशादिति । यथा गच्छतीति गौरित्यङगीकृतमपि गमनं न शब्दवृत्तिनियमकारणं रूढिवशात् क्वचिदेव वर्तते, तथा मत्यादयः शब्दा व्युत्पत्तिकर्मणि सत्यप्यर्थाश्रयेण भेदे क्वचिदेव वर्तन्त' इत्यनर्थान्तरत्वमवसीयते।
शब्दभेदादर्थभेदो गवाश्वादिवदिति चेत् ; न; अतः संशयात् ।३। स्यादेतत्-मत्यादीनां शब्दानां परस्परतोऽर्थान्तरत्वमस्ति। कुतः ? शब्दभेदात्, गवाश्वादिवदितिः तन्न; किं कारणम्; अतः संशयात् । यत एव मत्यादीनां शब्दभेदादन्यत्वमाह भवान्, अत एव संशयः । कथम् ? इन्द्रादिवत्। यथा इन्द्र शक्रपुरन्दरादिशब्दभेदेऽपि नार्थभेदः तथा मत्यादिशब्दभेदेऽप्यर्थाभेद इति । न हि यत एव संशयस्तत एव 'निर्णयः । किञ्च,
शब्दाभेदेऽप्यर्थंकत्वप्रसङगात् ।४। यस्य शब्दभेदोऽर्थभेदे हेतुरिति मतम्, तस्य वागादि'नवार्थेषु गोशब्दाभेददर्शनाद् वागाद्यर्थानामेकत्वमस्तु । अथ नैतदिष्टम्; न हि शब्दभेदोऽन्यत्वस्य हेतुः । किञ्च, ____ आदेशवचनात् ५। यथा इन्द्रादीनामेकद्रव्यपर्यायादेशात् स्यादेकत्वं प्रतिनियतपर्यायार्था
देशाच्च स्यादन्यत्वम्-इन्दनादिन्द्रः, शकनाच्छक्रः, पूरणात्पुरन्दर इति । तथा मत्यादीनामेक१५ द्रव्यपर्यायादेशात् स्यादेकत्वम्, प्रतिनियतार्थपर्यायादेशाच्च स्यानानात्वम्-'मननं मतिः स्मरणं स्मृतिः सज्ञानं संज्ञा चिन्तनं चिन्ता आभिमुख्येन नियतं बोधनमभिनिबोधः' इति ।
पर्यायशब्दो लक्षणं नेति चेत् न; ततोऽनन्यत्वात् ।६। स्यान्मतम्-मत्यादय 'अभिनिबोधपर्यायशब्दा नाभिनिबोधस्य लक्षणम् । कथम् ? मनुष्यादिवत् । यथा मनुष्यमय॑मनुज
मानवादयः पर्यायशब्दाः मनुष्यस्य लक्षणं न भवन्तीति; तन्नः किं कारणम् ? ततोऽनन्यत्वात् । २० इह पर्यायिणोऽनन्यः पर्यायशब्दः, स लक्षणम् । कथम् ? औष्ण्याग्निवत् । यथा पर्यायशब्दः
औष्ण्यमग्नेः पर्यायिणोऽनन्यत्वादग्नेर्लक्षणं भवति तथा पर्यायशब्दा मत्यादय आभिनिबोधिकज्ञानपर्यायिणोऽनन्यत्वेन अभिनिबोधस्य लक्षणम् । अथवा, ततोऽनन्यत्वात् । यथा मनुष्यमर्त्यमनुजमानवादय असाधारणत्वादन्यघटादिद्रव्यासंभविनो' मनुष्यादनन्यत्वात्तस्य लक्षणम्,
अन्यथा हि मनुष्यादिपर्यायालक्षणत्वात् मनुष्याभावो भवेत्, यतो न मनुष्यादिलक्षणव्यति२५ रेकेणास्यान्यल्लक्षणमस्तीति । न चाभाव इष्टः, अत: पर्यायशब्दो लक्षणम् । तथा मतिस्मृत्यादयोऽसाधारणत्वाद् अन्यज्ञानासंभविनोऽभिनिबोधादनन्यत्वात्तस्य लक्षणम् ।
इतश्च पर्यायशब्दो लक्षणम् । कस्मात् ?
गत्वा प्रत्यागतलक्षणग्रहणात् ७। कयम् ? अग्न्युष्णवत् । यथा अग्निरिति गत्वा ज्ञात्वा बुद्धिरुष्णपर्यायशब्दं गच्छति । कथं गच्छति ? कोऽयमग्निः ? य उष्ण इति। उष्ण ३० इति च गत्वा बुद्धिः प्रत्यागच्छति। कोऽयमुष्ण: ? योऽग्निरिति । तथा मतिरिति गत्वा
बुद्धिः स्मृतिं गच्छति। का मतिः ? या स्मृतिरिति । ततः स्मृतिरिति गत्वा बुद्धिः प्रत्यागच्छति। का स्मृतिः ? या मतिरिति । एवमुत्तरेष्वपि । तस्माद् गत्वा प्रत्यागतलक्षणग्रहणात् पश्यामः 'पर्यायशब्दो लक्षणम्' इति । किञ्च,
१ निश्चयः प्रा०, ब०, मु०। २ गौः स्वर्गे वृषभे रश्मौ बजे चन्द्रमसि स्मृतः। अर्जुने नेत्रदिग्बाणे भवाग्वारिषु गौमता ॥ इति विश्वप्रकाशिका । ३-बोधनः ता०, श्र०। ४ मतिज्ञानमित्यर्थः। 'अभिमुखनियमितबोधनमाभिनिबोधनमनिन्द्रियेन्द्रियजम्' इत्युक्तत्वात् -ता० टि० । ५ -संबंधिनो प्रा०, ब०, मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org