________________
तत्त्वार्थवार्तिके
[ ११२
अपूर्वाधिगमलक्षणानुपपत्तिश्च सर्वस्य ज्ञानस्य प्रमाणत्वोपपत्तेः | १२ | 'अपूर्वाधिगमलक्षणं प्रमाणम्' इत्येतच्च नोपपद्यते । कुतः ? सर्वस्य ज्ञानस्य प्रमाणत्वोपपत्तेः । प्रमीयतेऽनेनेति प्रमाणम्, सर्वेण च ज्ञानेन प्रमीयते । यथा अन्धकारेऽवस्थितानां घटादीनामुत्पत्त्यनन्तरं प्रकाशकः प्रदीप उत्तरकालमपि न तं व्यपदेशं जहाति तदवस्थानकारणत्वात् एवं ज्ञानमप्युत्पत्त्यनन्तरं घटादी५ नामवभासकं भूत्वा प्रमाणत्वमनुभूयोत्तरकालमपि न तं व्यपदेशं त्यजति तदर्थत्वात् । अथ मतम्क्षणे क्षणेऽन्य एव प्रदीपोऽपूर्वमेव प्रकाशकत्वमवलम्बत इति; एवं सति ज्ञानमपि तादृगेवेति क्ष क्षणेऽन्यत्वोपपत्तेरपूर्वाधिगमलक्षणमविशिष्टमिति'; तत्र यदुक्तम् - *" स्मृतीच्छाद्वेषादिवत् पूर्वाधिगतविषयत्वात् पुनः पुनरभिधानं ज्ञानं न प्रमाणम्" [ ] इति, तद् व्याहन्यते । स्वसंवित्तिफलानुपपत्तिश्च अर्थान्तरत्वाभावात् | १३ | प्रमाणं लोके फलवदुपलब्धम् । १० अस्य च प्रमाणस्य केनचित् फलेन भवितव्यमिति । कश्चिदाह - द्वयाभासं हि ज्ञानमुत्पद्यतेस्वाभासं विषयाभासं च । तस्योभयाभासस्य यत्संवेदनं तत्फलमिति; तन्नोपपद्यते ; कुतः अर्थान्तरत्वाभावात् । लोके प्रमाणात् फलमर्थान्तरभूतमुपलभ्यते । तद्यथा - छेतृछेत्तव्यछेदनसन्निधाने द्वैधीभावः फलम्, न च तथा स्वसंवेदनमर्थान्तरभूतमस्ति । तस्मादस्य फलत्वं नोपपद्यते । सत्यम्, एवमेतत्, अतएव तस्मिन्नधिगमरूपे फले सव्यापारप्रतीततामुपादाय प्रमाणोपचार इति; ' प्रमाणोपचारानुपपत्ति: मुख्याभावात् । १४ । सति मुख्ये लोके उपचारो दृश्यते, यथा सति विशिष्टतिर्यग्गतिपञ्चेन्द्रियजातिनखदंष्ट्रासटाटोपभासुरकपिलनयनतारकाद्यवयवविशिष्टे अन्यत्र क्रौर्यशौर्यादिगुण साधर्म्यात् सिंहोपचारः क्रियते । न च तथेह मुख्यं प्रमाणमस्ति, तदभावात् फले प्रमाणोपचारो न युज्यते ।
?
सिंहे
i
२५
आकार भेदाद्भेद इति चेत्; न; एकान्तवादत्यागात् ॥ १५ ॥ स्यादेतत्-ग्राहकविषयाभाससंवित्ति - २० शक्तित्रयाकारभेदात् प्रमाणप्रमेयफलकल्पनाभेद इति; तन्न; किं कारणम् ? एकान्तवादत्यागात् । 'एकमनेकाकारम्' इत्येतज्जैनेन्द्रं दर्शनम्, तत्कथमेकान्तवादे युज्यते ? यदि हयेवमभ्युपगम्येत ! द्रव्ये कोsपरितोष: । 'रूपाद्यनेकात्मकमेकं परमाणुद्रव्यम्, ज्ञानाद्यनेकात्मकमात्मद्रव्यम्' इति । अथ द्रव्यसिद्धिर्माभूदिति 'आकारा एव न ज्ञानम्' इति कल्प्यते; एवं सति कस्य ते आकारा इति तेषामप्यभावः स्यात् । किञ्च तेषामाकाराणां यौगपद्येन वा उत्पत्तिः स्यात्, क्रमेण वा ? यदि योगपद्येन; हेतुहेतुमद्भावो विरुध्यते । अथ क्रमेण; क्षणिकस्य विज्ञानस्याकाराणां कथं क्रमः ? यदि स्यात् ; *"अधिगमश्चात्र न भावान्तरम्' [ ] इति व्याहन्यते । अपि च बाहयस्य विज्ञेयस्याभावे अन्तरङ्गाकारत्रयकल्पनायां प्रमाणप्रमाणाभासविशेषो नोपपद्यते अन्तरङ्गाकाराभेदात् । 'असद्वस्तु यत्सदिति कल्पयति तत् प्रमाणाभासम्, असदेवेति यत्प्रतिपद्यते तत्प्रमाणम्' इत्यस्ति विशेष इति चेत्; 'प्रमेयद्व व्यवस्थापितप्रमाणद्वय कल्पनाव्याघातः । स्वलक्षणविषयं हि प्रत्यक्षम् सामान्यलक्षणविषयमनुमानम् । स्वलक्षणमसाधारणो धर्मः विकल्पातीतत्वात् 'इदं तत्' इत्यव्यपदेश्यः । तद्विपरीतं सामान्यलक्षणमिति । सर्वस्यासत्त्वे किं कृतोऽयं विशेषः ? असत्त्वं हि नं स्वतो भिद्यते । संबन्धिभेदात् स्याद्भेदः - 'घटस्यासत्त्वं पटस्यासत्वम्' इति तेषां घटादीनां संबन्धिनामभावे तद्विशेषाभाव इति ।
१५
३०
५६
१ श्रधिगमः प्रमाणमित्येव वक्तव्यम् । २ तथा सति । ३ स्वाकारम् । तुलना- "स्विसंवित्तिः फलं वात्र तद्रूपादर्यनिश्चयः ।" - प्रमाणसम्० १।१०१ ४ - तामुपधाय मु०, श्रा०, ब० । तुलना" सव्यापारप्रतीतत्वात् प्रमाणं फलमेव तत् । प्रमाणत्वोपचारस्तु निर्व्यापारे न विद्यते ॥ - प्रमाणसम्० १६६६ प्रमाणाद्भेदः । ७ - णाभासौ नोपपद्येते प्रा०, ब०, ५०, मु० । ८ तुलना - "तस्मात् प्रमेयद्वित्वेन प्रमाणद्वित्वमिष्यते ।" -प्रमाण वा० २६०|
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org