________________
२२१२]
प्रथमोऽध्यायः धिविशेष, निरुपधिविशेषं चेति । तत्र सोपधिविशेषे निर्वाणे बोद्धाऽस्ति" [ 1 इति; तत्रापि यथा 'बायस्याभावः कल्प्यते ताथागतैः तथाभ्यन्तरस्यापीति बोद्धरभाव एव ।
योगजवर्मानुग्रहादात्मा करणविरहितोऽप्यवतीति चेत् न, तस्य निष्क्रियस्य नित्यस्य "सतस्तक्रियावदनुग्रहविकाराभावात् ।
तल्लक्षणानुपपत्तिश्च स्ववचनव्याघातात् ।११॥ तस्य प्रत्यक्षस्योक्तं लक्षणमपि नोप- ५ पद्यते । कुतः ? स्ववचनव्याघातात् । आन्यापोहिकप्रतिविहितान्येव" शेषप्रमाणलक्षणानि । ततस्तत्र नो नातितरां प्रतिविधानादरः, किन्तु तत्प्रमाणलक्षणगुणसंभावनातिरस्कारार्थ किञ्चिद्वयाप्रियामहे । यदुक्तम्-*"कल्पनापोढं प्रत्यक्षम्" [प्रमाणसमु० १।३] इति । 'कल्पना हि जातिद्रव्यगुणक्रियापरिभाषाकृतो वागबुद्धिविकल्पः, ततोऽनापोपोडं कल्पोढम् । किं तत् सर्वथा कल्पनापोढम्, उताहो कथञ्चिदिति ? यदि सर्वथा; 'अस्ति प्रमाणं ज्ञानं कल्पनापोढम्' इत्येवमादि १० कल्पनाभ्योऽप्यपोढमिति अस्त्यादिवचनव्याधातः। अथ अस्त्यादिकल्पनाभ्योऽनपोढमिष्यते; 'सर्वथा कल्पनापोढम्' इति वचनव्याघातः । अथ कथञ्चित्कल्पनापोढम्। एकान्तवादत्यागात् पुनरपि स्ववचनव्याघात एव ।। ____ अथ मतम्-नास्माकमेकान्तः 'कल्पनापोढ मेव' इति । किमर्थ तहि विशेषणम् ? परमतापेक्षं विशेषणम् । परमते हि नामजात्यादिभेदोपचारकल्पना प्रोक्ता, ततोऽपोढं न स्वविकल्पादिति । १५ उक्तञ्च-
"सवितर्कविचारा हि पञ्च विज्ञानधातवः ।
निरूपणानुस्मरणविकल्पेनाविकल्पकाः ॥" [अभिध० १।३२] इति । अत्रोच्यते-'आलम्बने अर्पणा वितर्कः, तत्रैवानुमर्शनं विचार::०, तस्य नामादिभिः प्रकल्पना निरूपणम्, पूर्वानुभूतानुसारेण विकल्पनमनुस्मरणम्, इति । एते धर्माः क्षणमात्रावस्थानेष्वक्षविषयविज्ञानेषु निरन्वयेषु'नोपपद्यन्ते युगपदुत्पत्तेरनवस्थानाच्च । अतो ग्राहयग्रहणभावा- २० भावश्च स्यात् सव्येतरगोविषाणवत् । क्रमवृत्तित्वे च तेषां स्वार्थाभावप्रसङ्गश्चेति। सन्तानाद्यपेक्षया तदुपपत्तिरिति चेत् ; न तत्, परीक्षाऽक्षमत्वात् । अतः सर्वस्मिन्नसति विकल्पे 'अयं विकल्पोऽस्ति अयं "नास्ति' इति विज्ञानस्य विवेको नोपपद्यते । सर्वविकल्पविरहाच्च नास्तित्वमेवास्य स्यात्। अनुस्मरणाद्यभ्युपगमे च एकस्यानेकक्षणवर्तिनो वस्तुनोऽस्तित्वं सिद्धम् । अनुस्मरणादि हि स्वयमनुभूतस्यार्थस्य दृष्टम्, नाननुभूतस्य नान्यानुभूतस्येति।
तथा मानसमपि प्रत्यक्षं नोपपद्यते । अपि च, *"षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः" [अभिव० १।१७] इति-अतीतमसत् कथं विज्ञानस्य कारणं स्यात् ? अथ पूर्वोत्तरनाशोत्पत्त्योयुगपद्वृत्तेः कार्यकारणभावः कल्प्यते; भिन्नसन्तानयोरपि विनश्यदुत्पद्यमानयोः कार्यकारणभावः स्यात् । एकसन्ताने शक्त्यनुगमाभ्युपगमे प्रतिज्ञाहानिश्च स्यात् ।
१ वस्तुनः। २ -ते तैस्त- प्रा०, बं०, द०, मु० । ३ अथ लब्धावकाशा नैयायिकादयः .प्रत्यवतिष्ठन्ते। ४ प्रात्मनः । ५ अथ नैयायिकमतं निराकृत्येदानी प्रकृतमनुसन्दधन बौद्धपरिकल्पितप्रत्यक्ष निराकरोति । ६ प्रन्यापोहेन युक्तः बौद्ध इत्यर्थः अन्यापोहो व्यावृत्तिः। ७ --वाशेष-मु०। नंयायिकादीनाम् । ८ "प्रथ कल्पना कीदृशी चेदाह-नामजात्यादियोजना। यदृच्छाशब्देष नाम्ना विशिष्टोऽर्थ उच्यते डित्य इति । जातिशग्वेषु जात्या गौरियमिति । गुणशब्देषु गुणेन शुक्ल इति । क्रियाशब्वेषु क्रियया पाचक इति । द्रव्यशब्देषु द्रव्येण विषाणीति ।"-प्र० स० टी० पु. १२। -सम्पा० । ६ कारणानि। १० "वितर्कविचारोदार्यसूक्ष्मते- चित्तस्य औदार्य वितर्कः, सूक्ष्मावस्था विचारः"अभिध० टी० २।३२। ११ -यज्ञानेषु श्र०। प्रक्षश्च विषयाश्च ज्ञानानि च तेषु। १२ त्रुट यद्रूपेषु ।१३ सवितर्कादि। १४ नामजात्यादिभेदोपचारकल्पना।
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org