________________
तत्त्वार्थ वार्तिके
[१११२
*"श्रोत्रादिवृत्तिः प्रत्यक्षम्' ।" [ ] "सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् " [मी० द० १|१|४] इति च सर्वैरभ्युपगम्यते । अत एव तल्लक्षणमविसंवादि निश्चेव्यमिति; तन्नः किं कारणम् ? आप्तस्य प्रत्यक्षाभावप्रसङ्गात् । यदीन्द्रियनिमित्तमेव ज्ञानं प्रत्यक्षमिष्यते; एवं सत्याप्तस्य प्रत्यक्षज्ञानं न स्यात् । नहि तस्येन्द्रियपूर्वोऽर्थाधिगमः । अथ ५ तस्यापि करणपूर्वकमेव ज्ञानं कल्प्यते; तस्यासर्वज्ञत्वं पुरस्तादुक्तम् ।
आगमादिति चेत्; न; तस्य प्रत्यक्षज्ञानपूर्वकत्वात् ॥७॥ स्यादेतत्-आगमादतीन्द्रियार्थाधिधिगमेऽव्याहतशक्तेः सर्वार्थावबोध इति; तन्नः किं कारणम् ? तस्य प्रत्यक्षज्ञानपूर्वकत्वात् । आप्तेन हि क्षीणदोषेण प्रत्यक्षज्ञानेन प्रणीत आगमो भवति न सर्वः । यदि सर्वः स्यात्; अविशेषः स्यात् । स च नास्ति इत्यागमस्य प्रामाण्याभावः ।
अपौरुषेयादिति चेत्; न; तदसिद्धेः ॥८॥ स्यादेतत्- अपौरुषेय नमोऽस्ति अनादिनिधनोऽत्यन्तपरोक्षेष्वर्थेष्वप्रतिहतगतिः, ततः सर्वार्थाधिगम इति; तन्न; किं कारणम् ? तदसिद्धेः । न च कश्चिदागमोsपौरुषेयः सिद्धोऽस्ति, हिंसादिविधायिनः प्रामाण्या सिद्धेः ।
१०
५४
अतीन्द्रियं योगिप्रत्यक्षमिति चेत्; न; अर्थाभावात् ।९। स्यान्मतम् - योगिनोऽतीन्द्रियप्रत्यक्षं ज्ञानमस्ति आगमविकल्पातीतम्, तेनासौ सर्वार्थान् प्रत्यक्षं वेत्ति । उक्तञ्च - " योगिनां गुरु१५ "निर्देशाद् व्यतिभिन्नार्थमात्रदृक् " [ प्रमाणसमु० १।६] इति; तन्न; किं कारणम् ? अर्थाभावात् । 'अक्षमक्षं प्रति वर्तते' इति प्रत्यक्षम् । न चायमर्थों योगिनि विद्यते अक्षाभावात् ।
११६
अथवा न सन्ति सर्वे भावाः स्वपरोभयहेत्वहेतुभ्य उत्पत्त्याद्यभावात्, "सामान्यविशेषयोश्चैकानेकयोर्वृत्त्यसंभवादिदोषोपपत्तेः, अतोऽर्थाभावान्निरालम्बनं योगिनो ज्ञानं कथं स्यात् ? " परिकल्पितात्मना न सन्ति भावा निर्विकल्पात्मना सन्ति' इति चायुक्तम्; तदधिपायाभावात् । न हि निर्विकल्पोऽर्थोऽस्ति तद्विषयं ज्ञानं चेति प्रतिपादयितुं शक्यम्, लक्षणाभावात् ।
२०
तदभावाच्च।१०। तस्य योगिनोऽभावाच्च । न हि कश्चित्तत्परिकल्पितो योगी विद्यते, विशेलक्षणविरहात्, सर्वविरहाच्च निर्वाणप्राप्तौ । " तन्नैतत्स्यात्-११ निर्वाणं द्विविधम्- "सोप
१ सांख्यमतम् । २ सम्यगर्थे च संशब्दो दुष्प्रयोगनिवारणः । प्रयोग इन्द्रियाणाञ्च व्यापारोऽर्थेषु कथ्यते ॥ - ता० टि० । मीमांसकभाट्टप्राभाकराणां मतम् । ३ इति वा तत्प्रत्यक्षमिति च स श्रा०, ब०, द०, मु०, ता० । ४ सर्वाधिगम इति श्र० । ५ - शाद्यति - प्रा०, ब०, द० मु० । ६ इन्द्रियाविनिरपेक्षम्, श्रात्मेन्द्रियमनोनिरपेक्षदर्शनमित्यर्थः । " योगिनां गुरुनिर्देशादसंकीर्णार्थमात्रदृक्-श्रागमस्य सविकल्पकत्वं निर्देशशब्देनोक्तम्, तेन श्रसंकीर्ण रहितमित्यर्थः । श्रनेन स्फुटाभत्वमपि श्रूयते । निर्विकल्पकं हि स्फुटाभत्वाव्यभिचरितम् । मात्रशब्दः श्रारोपितार्थव्यवच्छेदार्थम् अतः यत् शुद्धार्थ विषयक मार्य सत्यदर्शनात्मक तदेव प्रमाणम् ।" - प्रमाणसनु० टी० ।-सम्पा० । ७ एक स्यानेक वृत्तितं भागाभावाद् बहूनि वा । भागित्वाद्वास्य नैकत्वं दोषो वृत्तेरनार्हते । ८ नामजात्यादि । ६ बौद्ध । १० तत्रैतत्स्यात् ता०, श्र० मु० १११ तुलना- “इह हि भगवता उषितब्रह्मचर्याणां तथागतशासनप्रतिपन्नानां धर्मानुधर्मप्रतिपत्तियुक्तानां पुद्गलानां द्विविधं निर्वाणमुपर्वाणतं सोपधिशेषम्, निरुपधिशेषं च । नत्र निरवशेषस्याविद्यारागादिकस्य क्लेशगणस्य प्रहाणात् सोपधिशेषं निर्वाणमिष्यते । तत्रोपधीयतेऽस्मिन्नात्मस्नेह इत्युपधिः । उपधिशब्देनात्मज्ञप्तिनिमित्ता: पञ्चोपादान स्कन्धा उच्यन्ते । शिष्यत इति शेषः । उपधिरेव शेषः उपधिशेषः । सह उपधिशेषेण वर्तते इति सोपधिशेषम् । किं तत् ? निर्वाणम् । तच्च स्कन्धमात्रकमेव केवलं सत्कायदृष्ट्यादिक्लेशसंस्काररहितमवशिष्यते निहताशेषचौरगणग्राममात्रावस्थानसाधर्म्येण तत्सोपधिशेषं निर्वाणम् । यत्र तु निर्माण स्कन्धमात्रकमपि नास्ति तन्निरुपधिशेषं निर्वाणम् । निर्गत उपधिशेषोऽस्मिन्निति कृत्वा । निहताशेषचौरगणस्य ग्राममात्रस्यापि विनाशसाधर्म्येण ।" - माध्यमिकवू० पृ ५१६ । १२ सोपाधि- ता० द० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org