________________
१०
१३१२]
प्रथमोऽध्यायः अभिहितलक्षणात् परोक्षादितरस्य सर्वस्य प्रत्यक्षत्वप्रतिपादनार्थमाह
प्रत्यक्षमन्यत् ॥१२॥ अन्यत्त्रिविधं प्रत्यक्षमित्युच्यते । किमिदं प्रत्यक्ष नाम ?
इन्द्रियानिन्द्रियानपेक्षमतोतव्यभिचारं साकारग्रहणं प्रत्यक्षम् ॥१॥ इन्द्रियाणि चक्षुरादीनि पञ्च, अनिन्द्रियं मनः, तेष्वपेक्षा यस्य न विद्यते। 'अतस्मिंस्तदिति ज्ञानं व्यभिचारः सोऽती- ५ तोऽस्य । आकारो' विकल्पः, यत्सह आकारेण वर्तते तत्प्रत्यक्षमित्युच्यते । 'इन्द्रियानिन्द्रियानपेक्षम्' इति विशेषणं मतिश्रुतनिवृत्त्यर्थम् । 'अतीतव्यभिचारम्' इत्येतद्विभङ्गज्ञाननिवृत्त्यर्थम् , तद्धि मिथ्यादर्शनोदयाद्. व्यभिचरतीति । 'साकारग्रहणम्' इत्येतदवधिकेवलदर्शनव्युदासार्थम् । 'अनाकारं हि तदिति । किं गतमेतदियता सूत्रेण, आहोस्विदेवं वक्तव्यमिति ? गतं प्रतिपन्नम् । कथमिति चेत् ? उच्यते
अक्षं प्रति नियतमिति पररापेक्षानिवृत्तिः।२। 'अक्ष्णोति व्याप्नोति जानाति' इति अक्ष आत्मा, प्राप्तक्षयोपशमः प्रक्षीणावरणो वा, तमेव प्रति नियतं प्रत्यक्षमिति विग्रहात् परापेक्षानिवृत्तिः कृता भवति ।
__ अधिकारात् अनाकारव्यभिचारव्युदासः ॥३॥ अधिकृतमेतत्-'ज्ञानं सम्यक्' इति च, ततोऽनाकारस्य दर्शनस्य व्यभिचारिणो ज्ञानस्य च व्युदासः कृतो भवति ।
करणात्यये ग्रहणाभाव इति चेत्, न; दृष्टत्वात् ईशवत् ।। स्यादेतत्-करणात्यये अर्थस्य ग्रहणं न प्राप्नोति, न हयकरणस्य 'कस्यचित् ज्ञानं दृष्टमिति; तन्न; किं कारणम् ? दृष्टत्वात् । कथम् ? ईशवत्। यथा रथस्य कर्ता 'अनीशः उपकरणापेक्षो रथं करोति, स तदभावे न शक्तः, यः पुनरीशः तपोविशेषात् परिप्राप्तद्धि विशेषः स बाहयोपकरणगुणानपेक्षः स्वशक्त्यैव रथं निवर्तयन् प्रतीतः, तथा कर्ममलीमस आत्मा क्षायोपशमिकेन्द्रियानिन्द्रियप्रका- २० शाद्युपकरणापेक्षोऽर्थान् संवेत्ति, स एव पुनः क्षयोपशमविशेषे क्षये च सति करणानपेक्षः स्वशक्त्यैवार्थान् वेत्ति इति को विरोधः ?
ज्ञानदर्शनस्वभावत्वाच्च भास्करादिवत् ।५। यथा भास्करादयः प्रकाशस्वभावत्वात् प्रकाशान्तरानपेक्षाः प्रकाश्यानर्थान् प्रकाशयन्ति, तथा ज्ञानदर्शनस्वभाव आत्मा तदावरणक्षयक्षयोपशमविशेषे सति स्वशक्त्यैवार्थानाविष्करोतीति सिद्धम् ।
"इन्द्रियनिमित्तं ज्ञानं प्रत्यक्षम्, तद्विपरीतं परोक्षम्' इत्यविसंवादिलक्षणमिति चेत्। न; आप्तस्य प्रत्यक्षाभावप्रसङगात् ।६। स्यान्मतम्-'इन्द्रियव्यापारजनितं ज्ञानं प्रत्यक्षम्, व्यतीतेन्द्रियविषयब्यापार परोक्षम्' इत्येतदविसंवादि लक्षणम् । तथा चोक्तम्
*"प्रत्यक्ष कल्पनापोडं नामजात्यादियोजना।
असाधारणहेतुत्वादक्षैस्तद् व्यपदिश्यते ॥" [प्रमाणसमु० १॥ ३, ४] *"इन्द्रियार्थसन्निकर्वोत्पन्न ज्ञानम व्यपदेश्यमव्यभिचारि "व्यवसायात्मकं प्रत्यक्षम्" न्यायसू० १११।४] *"आत्मेन्द्रियमनोऽर्थसन्निकर्षाधन्निष्पद्यते तदन्यत्" [वंशे० ३।१।१८]
१ भेवग्रहणमाकारः। भेद इत्यर्थः। २ किंस्विदिति भासमानम्। ३ ज्ञातम् । ४ कस्यापि मु०। ५असमर्थः। ६ अथ बौद्धः प्रत्यवतिष्ठते। ७ "प्रत्यक्ष कल्पनापोडं नामजात्यावियोजना। प्रसाधारणवत्वाद व्यपवेश्यं तदिन्द्रियः॥" -प्रमाणसम। कल्पना केत्यत्राह। प्राविशब्देन क्रियागुणद्रव्याणि गृह्यन्ते । तयावोक्तम्-जातिः क्रिया गुणो द्रव्यं संज्ञा पञ्चव कल्पना । प्रश्वो याति सितो घण्टी कत्तलाख्यो यथाक्रमम। १० शब्दरहितम् । ११ निश्चयरूपम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org