________________
[१।११
तत्त्वार्थवार्तिके सर्वगतः ज्ञस्वभावशून्यत्वे समानेऽपि आत्मनैव ज्ञानं योजयति, न मनःप्रभृतिभिः' इति वचनं न विपश्चिन्मनःप्रीतिकरम् । एवमिन्द्रियेऽपि योज्यम् ।
अनुमानौपम्ययोः अनुमानागमयोः अनुमानप्रत्यक्षयोः औपम्यप्रत्यक्षयो: औपम्यागमयो: आगमप्रत्यक्षयोः प्रत्यक्षपरोक्षयोश्च विपर्ययप्रसङ्गे 'मत्यादीनाञ्चाविशेषेण प्रमाणद्वयासक्ते५ रवधारणार्थमाह
आये परोक्षम् ॥११॥ आदिशब्दस्यानेकार्थवृत्तित्वे विवक्षातः प्राथम्यार्थसङग्रहः ॥१॥ अयमादिशब्दोऽनेकार्थवृत्तिः । क्वचित्प्राथम्ये वर्तते, 'अकारादयो वर्णाः, ऋषभादयस्तीर्थकराः' इति । क्वचित्प्रकारे,
'भुजङ्गादयः परिहर्तव्याः' इति । क्वचिद्वयवस्थायाम् *'सर्वादि सर्वनाम" [जैने० १।१।३५] १० इति । क्वचित्सामीप्ये 'नद्यादीनि क्षेत्राणि' इति । क्वचिदवयवे, *"टिदादिः" [जैने०१।११५३]
इति । तत्रेह आदिशब्दस्य विवक्षातः प्राथम्यार्थो वेदितव्यः । आदौ भवमाद्यम् । किं पुनस्तत् ? मतिः श्रुतं च।
__ श्रुताग्रहणमप्रथमत्वात् ॥२॥ श्रुतस्य ग्रहणं न प्राप्नोति । कुतः ? अप्रथमत्वात् । नहि सूत्रे श्रुतं प्रथमम् ।
उत्तरापेक्षया आदित्वमिति चेत् न; अतिप्रसङगात्।३। स्यान्मतम्-अवध्याद्युत्तरमपेक्ष्य श्रुतस्यादित्वमिति; तन्न; किं कारणम् ? अतिप्रसङ्गात् । उत्तरमपेक्ष्य यद्यादित्वं कल्प्यते; केवलं व्युदस्य सर्वस्यादित्वं प्राप्नोति ।
द्वित्वनिर्देशादिति चेत् न; तदवस्थत्वात् ।। स्यादेतत्-द्वित्वनिर्देशेन सर्वस्य ग्रहणं न भवति, अतो नातिप्रसङ्ग इतिः तन्न; किं कारणम् ? तदवस्थत्वात् । एवमप्यतिप्रसङ्ग एव २० भवति-'कयोयोर्ग्रहणम्' इति ।
न वा; प्रत्यासत्तेः श्रुतग्रहणम् ।५। न वैष दोषः। किं कारणम् ? प्रत्यासत्तेः श्रुतग्रहणं भवति। द्वित्वनिर्देशाद् गृह्यमाणं यदाद्यस्य प्रत्यासन्नं तदेव गृहयते । तस्य हि सामीप्यादौ. पचारिक प्राथम्यमस्तीति, तथा सामीप्यं श्रर्थाच्च ।
उपात्तानुपात्तपरप्राधान्यादवगमः परोक्षम् ।६। उपात्तानीन्द्रियाणि मनश्च, अनुपात्तं २५ प्रकाशोपदेशादि परः तत्प्राधान्यादवगमः परोक्षम् । यथा गतिशक्त्युपेतस्यापि स्वयमेव
गन्तुमसमर्थस्य यष्टयाद्यवलम्बनप्राधान्यं गमनम्, तथा मतिश्रुतावरणक्षयोपशमे सति ज्ञस्वभावस्यात्मनः स्वयमेवार्थानुपलब्धुमसमर्थस्य पूर्वोक्तप्रत्ययप्रधानं ज्ञानं परायत्तत्वात्तदुभयं परोक्षमित्युच्यते ।
अंत एव प्रमाणत्वाभावः इत्यनुपालम्भः १७। अत्राऽन्ये उपालभन्ते-'परोक्षं प्रमाणं न ३० भवति, प्रमीयतेऽनेनेति हि प्रमाणम्, न च परोक्षेण किंञ्चित्प्रमीयते 'परोक्षत्वादेव' इति;
सोऽनुपालम्भः । कुतः ? अत एव । यस्मात् 'परायत्तं परोक्षम्' इत्युच्यते न 'अनवबोधः' इति ।
१ अप्रमाणत्वप्रसङ्ग। २ मत्यादीनामवि-प्रा०, २०, २०, मु०। ३ प्रतिप्रसङ्गस्य, प्रतिप्रसङ्गो न निवर्तते इत्यर्थः । ४ सामीप्यश्रुतेरर्याच्च प्रा०, ब०, २०, मु०। ५ उच्चारणकाले श्रवणात् । ६ मतेः सकाशात मतिश्रुतयोरित्यादिसूत्रे (तयोः समानार्थविषयत्वसुचनात्) । ७-दि तत्प्रा- मु०, मू०, ता०, १०, २०, ब०, ज०। केवलं भा० २ प्रती-दि परः तत्प्रा-इति पाठः। ८ प्रविषयत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org