________________
१६१०]
प्रथमोऽध्यायः वक्ष्यमाणभेदापेक्षया द्वित्वनिर्देशः ।१४। * "आद्ये परोक्षम् । प्रत्यक्षमन्यत्"। [त० सू० १।११,१२] इति वक्ष्यते । तदपेक्ष या 'प्रमाणे' इति द्वित्वनिर्देशः क्रियते ।
तद्वचनं सन्निकर्षादिनिवृत्त्यर्थम् ।१५। तत् मत्यादिज्ञानं वणितं प्रमाणव्यपदेशं लभते न सन्निकर्षादीनि । अथ सनिकर्षादेः प्रमाणत्वे को दोषः ?
सन्निकर्षे प्रमाणे सकलपदार्थपरिच्छेदाभावः तदभावात् ॥१६॥ यस्य' मतम्-सन्निकर्षः ५ प्रमाणम्, अर्थाधिगमः फलमिति; तस्य सकलपदार्थपरिच्छेदो नास्ति । कुतः ? तदभावात् । तस्य सन्निकर्षस्याभावात् । कथमिति चेत् ? उच्यते-येन केनचित्सर्वज्ञेन भवितव्यम् । तस्यार्थपरिच्छेदहेतुर्यदि सन्निकर्षः; स चतुष्टयत्रयद्वयविषयः स्यात् । तत्र चतुष्टयविषयस्त्रयविषयश्च न संभवति, मनस इन्द्रियाणां चाऽयुगपत्प्रवृत्तित्वात्, प्रतिनियतविषयत्वाच्च । अनन्तो हि ज्ञेयस्त्रिकालविषय: सूक्ष्मान्तरितविप्रकृष्टरूपः, स कथमिह तै: सन्निकृष्यते ? असन्निकृष्ट १० 'नैतत्फलमवबोधः प्रवर्तते । अत: सर्वज्ञाभावः स्यात् । तत एव द्वयंसन्निकर्षोऽपि न भवति । सर्वगतत्वादात्मनः सकलेनार्थेन सन्निकर्ष इति चेत् ; न; तस्य परीक्षायामनुपपत्तेः । यदि हि सर्वगत आत्मा स्यात् तस्य क्रियाभावात् पुण्यपापयोः कर्तृत्वाभाव तत्पूर्वकसंसारः तदुपरति रूपश्च मोक्षो न योक्ष्यते इति। करणग्रामस्य संसार इति चेत् न तस्याचेतनत्वात्, तस्यैव मोक्षप्रसक्तेश्च ।
सर्वेन्द्रियसन्निकर्षाभावश्च ।१७। चक्षुर्मनसोः प्राप्यकारित्वाभावात् सर्वेन्द्रियविषयः सन्निकर्षो न संभवति ? प्राप्यकारित्वाभावश्चोपरिष्टाद्वक्ष्यते ।
सर्वथा ग्रहणप्रसङगश्च सर्वात्मना सन्निकृष्टत्वात् ।१८। यानीन्द्रि याणि प्राप्यकारीणि तैरपि सर्वथा अर्थस्य ग्रहणं प्राप्नोति । कुतः ? सर्वात्मना सन्निकृष्टत्वात् ।
तत्फलस्य साधारणत्वप्रसङगः स्त्रीपुरुषसंयोगवत् ।१९। तस्य सन्निकर्षस्य प्रमाणस्य २० यत्फलमर्थावबोधनम्, तेन च साधारणेन भवितव्यम्। कथम् ? स्त्रीपुरुषसंयोगवत् । यथा स्त्रीपुरुष संयोगजं सुखमुभयोरपि साधारणं तथेन्द्रियाणां मनसोऽर्थस्य चावबोधनं प्राप्नोति ।
शय्यादिवदिति चेत्, न; अचेतनत्वात् ।२०। स्यान्मतम्-यथा शय्यादीनां पुरुषस्य च संयोगे साधारणेऽपि तत्फलं सुखं न शय्यादीनां भवति, किं तहि ? पुरुषस्यैवेति, तथेहापीति; तन्न; किं कारणम् ? अचेतनत्वात् । अचेतनानां शय्यादीनां सत्यपि संयोगे सुखं न भवति ।
इहापि तत एवेति चेत्, न; अविशेषात् ।२१। स्यादेतत्-मनःप्रभृतीनां सत्यपि सन्निकर्षे न तत्फलमवबोधनं भवति । कुतः ? अचेतनत्वादेवेति; तन्न; किं कारणम् ? अविशेषात् । अज्ञस्वभावत्वं तावत् सर्वेषामात्मादीनामविशिष्टं तत्र किंकृतोऽयं विशेष:-“सन्निकर्षजं फलमवबोधनमर्थान्तरभूतमपि सत् आत्मनैव सम्बध्यते न मनःप्रभृतिभिः' इति । ज्ञस्वभावत्वे चात्मनः प्रतिज्ञाहानिः ।
__समवायादिति चेत्, न; अविशेषात् ॥२२॥ स्यादेतत्-समवायो नामायुतसिद्धिलक्षणः सम्बन्धोऽस्ति, तःकृतोऽयं विशेष इति; तन्न; किं कारणम् ? अविशेषात् । 'समवायो हि
Bo
१ स च द्विवचननिर्देशः प्रमाणान्तरसंख्यानिवत्यर्थः। प्रत्यक्षञ्चानुमानञ्च शाब्दञ्चोपमया सह । प्रर्थापत्तिरभावश्च षट प्रमाणानि जैमिनेः ॥ जैमिनः षट प्रमाणानि चत्वारि न्यायवादिनः। सांख्यस्य श्रीणि वाच्यानि वैशेषिकग्रौद्धयोः। २ नैयायिकस्य -सम्पा०। ३ परमाण्वादि, रामरावणादि, मेर्वादि । ४ न तत्कल-प्रा०, ब०, २०, मु०। ५ निवृत्ति। ६न चक्षुरनिन्द्रियाभ्यामित्यत्र । ७-षसंगजं श्र० । ८ सन्निकर्षफल- प्रा०, ब०, २०, मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org