SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थवार्तिके [१।१० स्मृत्यभावप्रसङगश्च ५। न हयनुपलब्धपूर्वेऽर्थे ‘स एवायम्' इति स्मृतिर्भवति यदि च विज्ञानं स्वात्मानं न विजानीयात् । उत्तरकालम् अनधिगतस्वात्मविज्ञानः कथं ब्रूयात् 'ज्ञोऽहम्' इति ? ततः स्मृतेरभाव: स्यात् । फलाभाव इति चेत्, न; अर्थावबोधे प्रीतिदर्शनात ।६। स्यादेतत्--भावसाधने प्रमाणे प्रमैव ५ प्रमाणमिति न फलमन्यदुपलभ्यत इति फलाभाव इतिः तन्न; किं कारणम् ? अर्थावबोधे प्रीतिदर्शनात् । ज्ञस्वभावस्यात्मनः कर्ममलीमसस्य करणालम्बनादर्थनिश्चये प्रीतिरुपजायते, सा फलमित्युच्यते । __उपेक्षाज्ञाननाशो वा ७। रागद्वेषयोरप्रणिधानमुपेक्षा, अज्ञाननाशो वा फलमित्युच्यते। ज्ञातृप्रमाणयोरन्यत्वमिति चेत् न; अज्ञत्वप्रसङगात्।८। स्यान्मतम्-'प्रमिणोत्यात्मानं १० परं वा प्रमाणम्' इति कर्तृ साधनत्वमयुक्तम्: यस्मादन्यत्प्रमाणं ज्ञानम्, स च गुणः, अन्यश्च प्रमाता आत्मा स च गुणी, गुणिगुणयोश्चान्यत्वं द्रव्यरूपवत् । तथा च *"आत्मेन्द्रियमनोऽर्थसन्निकर्षाद्यनिष्पद्यते तदन्यत्" [वैशे० सू० ३।१८] इति वचनात् अन्यत्प्रमाणम् अन्य: प्रमाता, ततः करणसाधनत्वमेव युक्तमितिः तन्न; किं कारणम् ? अज्ञत्वप्रसङगात् । यदि ज्ञानादन्य आत्मा, तस्याऽज्ञत्वं प्राप्नोति घटवत् । १५ ज्ञानयोगादिति चेत्, न; अतत्स्वभावत्वेज्ञातृत्वाभावः अन्धप्रदीपसंयोगवत् ।९। स्यादेतत् ज्ञानयोगाज्ज्ञातृत्वं भवतीति; तन्न; किं कारणम् ? अतत्स्वभावत्वे ज्ञातृत्वाभावः । कथम् ? अन्धप्रदीपसंयोगवत् । यथा जात्यन्धस्य प्रदीपसंयोगेऽपि न द्रष्टुत्वं तथा ज्ञानयोगेऽपि अज्ञस्वभावस्यात्मनो न ज्ञातृत्वम् । प्रमाणप्रमेययोरन्यत्वमिति चेत्, न; अनवस्थानात् ।१०। स्यान्मतम्--अन्यत् प्रमाणमन्यत् २० प्रमेयम् । कुतः ? लक्षणभेदात् दीपघटवत् इति; तन्न; किं कारणम् ? अनवस्थानात् । यदि यथा 'बाहयप्रमेयाकारात् प्रमाणमन्यत् तथाभ्यन्तर प्रमेयाकारादप्यन्यत् स्यात्, अनवस्थाऽस्य स्यात् । प्रकाशवदिति चेत्, न; प्रतिज्ञाहानेः ॥११॥ तत्रतत्स्यात्-नानवस्थादोषः। कथम् ? प्रकाशवत् । यथा प्रकाशस्य घटादीनामात्मनश्च प्रकाशकस्य नानावस्थादोषः एवमिहापीति; २५ तन्न; किं कारणम् ? प्रतिज्ञाहानेः । प्रकाशो हि 'स्वात्मनोऽनन्यः स्वपरप्रकाशने समर्थः प्रदय॑मानः प्रमाणप्रमेययोरन्यत्वप्रतिज्ञां हापयति ।। 'अनन्यत्वमेवेति चेत्, न; उभयाभावप्रसङगात् ॥१२॥ यद्यन्यत्वे दोषोऽनन्यत्वं तर्हि ज्ञातृप्रमाणयोःप्रमाणप्रमेययोश्चेति; तन्न; किं कारणम् ? उभयाभावप्रसङ्गात् । यदि ज्ञातु रनन्यत्प्रमाणं प्रमाणाच्च प्रमेयम्; अन्यतराभावे तदविनाभाविनोऽवशिष्टस्याप्यभाव इत्यु१. भयाभावप्रसङ्गः। कथं तर्हि सिद्धिः ? ___ अनेकान्तासिद्धिः ।१३। स्यादन्यत्वं स्यादनन्यत्वमित्यादि । संज्ञालक्षणादिभेदात् स्यादन्यत्वम्, व्यतिरेकेणानुपलब्धेः स्यादनन्यत्वमित्यादि । ततः सिद्धमेतत्-'प्रमेयं नियमात् प्रमेयम्, प्रमाणं तु स्यात्प्रमाणं स्यात्प्रमेयम्' इति । १ करणलम्बनाऽर्थ- श्र० । २ बाह्यात् प्र-प्रा०, ब०, द०, मु०। ३ भावघट इत्यर्थः । ४ वाविनस्तवेत्यर्थः। स्वात्मनोऽनाशः श्र०, ता०, ब० । स्वात्मनो भासः प्रा०। स्वात्मनो स्वपर-मु०। ५ अथ मीमांसकः प्रत्यवतिष्ठते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy