________________
१।१०]
प्रथमोऽध्यायः नानाप्रकारार्थप्ररूपणपरं यत् तद्वा श्रुतम् ।२९। अथवा, इन्द्रियानिन्द्रियाभ्यामकं जीवमजीवं चोपलभ्य तत्र सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वादिभिः प्रकारैरर्थप्ररूपणे कर्तव्ये यत्समर्थ तत् श्रुतम् ।। ____ श्रुत्वाऽवधारणात् श्रुतमिति चेत्, न; मतिज्ञानप्रसङगात् ।३०। श्रुत्वा यदवधारयति तत् श्रुतमिति केचिन्मन्यन्ते तन्न युक्तम् कुतः ? मतिज्ञानप्रसङ्गात् । तदपि शब्दं श्रुत्वा 'गोशब्दोऽ- ५ यम्' इति प्रतिपद्यते 1 असाधारणेन नाम लक्षणेन भवितव्यम् । श्रुतं पुनस्तस्मिन्निन्द्रियानिन्द्रियगृहीतागृहीतपर्यायसमूहात्मनि शब्दे तदभिधेये च श्रोत्रेन्द्रियव्यापारमन्तरेण जीवादौ नयादिभिरधिगमोपायर्याथात्म्येनाऽवबोधः।।
"प्रमाणनयरधिगमः' [त० सू० ११६ ] इत्युक्तम् । 'प्रमाणं च केषाञ्चित् ज्ञानमभिमतम्, केषाञ्चित् सन्निकर्षः' इति, अतोऽधिकृतानामेव मत्यादीनां प्रमाणत्वख्यापनार्थमाह- १०
तत्प्रमाणे ॥१०॥ प्रमाणशब्दस्य कोऽर्थः ?
भावकर्तृ करणत्वोपपत्तेः प्रमाणशब्दस्य इच्छातोऽर्थाध्यवसायः ।। अयं प्रमाणशब्दः भावे कर्तरि करणे च वर्तते । तत्र भावे तावत् प्रमेयार्थ प्रति निवृत्तव्यापारस्य तत्त्वकथनात् प्रमा प्रमाणमिति। कर्तरि प्रमेयार्थ प्रति प्रमातृत्वशक्तिपरिणतस्याश्रितत्वात् प्रमिणोति १५ प्रमेयमिति प्रमाणम् । करणे 'प्रमातृप्रमाणयोः प्रमाणप्रमेययोश्च स्यादन्यत्वात् प्रमिणोत्यनेनेति प्रमाणम्।
- अनवस्थेति चेत्, न; दृष्टत्वात् प्रदीपवत् ।। स्यान्मतम्-इदमिह संप्रधार्य प्रमाणसिद्धिः परतो वा स्यात्, स्वत एव वेति ? यदि यथा प्रमेयसिद्धिः प्रमाणाधीना एवं प्रमाणसिद्धिरपि प्रमाणान्तराधीनेति, तस्याप्यन्यत् तस्याप्यन्यदित्यनवस्था। अथ स्वत एव सिद्धिः; एवमपि २० । यथा प्रमाणस्य स्वत एव सिद्धिस्तथा प्रमेयस्यापि 'प्रमेयात्मन एव सिद्धिरिति प्रमाणव्यवस्थाकल्पना न घटते। 'इच्छामात्रत्वं (त्वे) विशेषहेतुवचनं चेति; तन्न; किं कारणम् ? दृष्टत्वात् प्रदीपवत् । दृष्टो हि प्रदीपो घटादीनां प्रकाशकः स्वस्य च, तथा प्रमाणमपि' इति । ___अथवा, अयंमपरोऽर्थः--यदि भावकर्तृकरणानामन्यतमसाधनः प्रमाणशब्दः; अनवस्था प्राप्नोति । “न होकस्मिन्नर्थात्मनि विरुद्धशक्त्यवस्थानमिति; तन्न; किं कारणम् ? दृष्टत्वात् २५ प्रदीपवत् । यथैकस्य प्रदीपस्य 'प्रदीपनं प्रदीपयति प्रदीप्यतेऽनेन' इति वा भावादिशक्त्यविरोधः तथा प्रमाणस्यापि इति ।
इतरथा हि प्रमाणव्यपदेशाभावः ।३। यदि प्रमाणं स्वस्याप्रकाशकं स्यात् परसंवेद्यत्वात् अस्य प्रमाणव्यपदेशो न स्यात् ।
विषयज्ञानतद्विज्ञानयोरविशेषः ।४। विषयाकारपरिच्छेदात्मनि ज्ञाने यदि स्वाकार- ३० परिच्छेदो न स्यात् "तद्विषये विज्ञाने विषयाकाररूपतैवेति तयोरविशेषः स्यात् ।
१ अङ्गीकृतत्वात्। २ प्रमातृप्रमेययोः प्रा०, ब०, ५०, मु०। ३ प्रमाणादर्थसंसिद्धिरिति वचनात। ४ स्वरूपतः। ५ इच्छामात्रवि-पा०, ब०, २०, मु०। ६-णमिति ता०। ७न चवं सर्वेषु तस्य विवक्षितत्वात् । ८ तथा सति विरोध इत्याह न विरोध इति, नेति परिहरति । समत्वम्ता०टि०। १०विषयभूते वस्तुनि तवग्राहके च विज्ञाने। तद्विषये- घटज्ञानविषयके घटज्ञानेऽपि विषयाकारतवेति तयोः घटज्ञान-घटज्ञानज्ञानयोः अभेदः प्राप्रोति । तुलना-"विषय-ज्ञानतज्ज्ञानभेदाद बुद्धद्विरूपता।" -प्रमाणसमु० १।१२। -सम्पा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org