________________
तत्त्वार्थवार्तिके
[१९ केवलस्य सामर्थ्यात्, अस्य चान्येन ज्ञानेनाऽपरिच्छेद्यत्वात् नातोऽन्यत्प्रकृष्टं ज्ञानमस्तीति, ततः परं ज्ञानप्रकर्षाभावः ।।
__तेनैव सह निर्वाणाच्च ।२०। यतश्च केवलेनैव सह निर्वाणं न क्षायोपशमिकज्ञानः सह, अतोऽन्ते केवलग्रहणम्। कश्चिदाह
मतिश्रुतयोरेकत्वम्; साहचर्यादेकत्रावस्थानाच्चाऽविशेषात् ।२१॥ मतिश्रुतयोरेकत्वं प्राप्नोति । कुतः ? साहचर्यात्, एकत्रावस्थानाच्च अविशेषात् ।
. न; अतस्तत्सिद्धः ।२२। नाविशेषः । कुतः ? अतस्तत्सिद्धेः । यत एव मतिश्रुतयोः साहचर्यमेकत्रावस्थानं चोच्यते अत. एव विशेष: सिद्धः । प्रतिनियतविशेषसिद्धयोहि साहचर्यमेकत्रावस्थानं च युज्यते, नान्यथेति ।
तत्पूर्वकत्वाच्च ।२३। *"मतिपूर्व श्रुतम्" [त० सू० १२०] इति वक्ष्यते । ततश्चानयोविशेषः । यत्पूर्व यच्च पश्चात्तयोः कथमविशेषः ?
तत एवाविशेषः, कारगसदृशत्वात् युगपत्तश्चेति चेत्, न; अत एव नानात्वात् ।२४। स्यादेतत्-यतो मतिपूर्वकत्वमत एवाविशेषः । कुतः ? कारणसदृशत्वात् कार्यस्य । कथम् ?
तन्तुपटवत् । यथा शुक्लादितन्तुकार्य पटद्रव्यं शुक्लादिगुणमेव, तथा मतिकार्यत्वाच्छु तस्यापि १५ मत्यात्मकत्वम् । युगपद्वत्तेश्च । यया अग्नौ औष्ण्यप्रकाशनयोयुगपद्वत्तेः अग्न्यात्मकत्वम्, तथा
सम्यग्दर्शनाविर्भावादनन्तरं युगपन्मतिश्रुतयोर्ज्ञानव्यपदेश'वृत्तेरविशेष इति; तन्नः किं कारणम्? अत एव नानात्वात् । यत एव कारणसदृशत्वं युगपद्वृत्तिश्च चोद्यते अत एव नानात्वं सिद्धम् । द्वयोहि सादृश्य "युगपद्वृत्तिश्चेति ।।
विषयाविशेषादिति चेत्, न; ग्रहणभेदात् ।२५। स्यादेतत्-विषयाविशेषात् मतिश्रुतयो२० रेकत्वम् । एवं हि वक्ष्यते- "मतिश्रुतयोनिबन्धो द्रव्येष्वसर्वपर्यायेषु" ति० सू० १।२६] इति;
तन्न; किं कारणम् ? ग्रहणभेदात् । अन्यथा हि मत्या गृहयते अन्यथा श्रुतेन । यो हि मन्यते 'विषयाभेदादविशेषः' इति; तस्य एकवटविषयदर्शनस्पर्शनाविशेषः स्यात् ।
उभयोरिन्द्रियानिन्द्रियनिमित्तत्वादिति चेत्, न; असिद्धत्वात् ।२६। स्यादेतत्-उभयोरिन्द्रियानिन्द्रियनिमित्तत्वादेकत्वम् । मतिज्ञानं तावत् इन्द्रियानिन्द्रियनिमित्तमिति प्रतीतम्, २५ श्रुतमपि वक्तृश्रोतृजिह्वाश्रवणनिमित्तत्वादन्तःकरणनिमित्तत्वाच्च तदुभयनिमित्तमिति, तन्न;
कि कारणम् ? असिद्धत्वात् । जिह्वा हि शब्दोच्चारक्रियाया निमित्तं न ज्ञानस्य, श्रवणमपि स्वविषयमतिज्ञाननिमित्तं न श्रुतस्य, इत्युभयनिमित्तत्वमसिद्धम् । सिद्धो हि हेतुः साध्यमर्थ साधयेन्नासिद्धः। किनिमित्तं तहि श्रुतम् ?
अनिन्द्रियनिमित्तोऽर्थावगमः श्रुतम् ॥२७॥ इन्द्रियानिन्द्रियबलाधानात् पूर्वमुपलब्धेऽर्थे ३० नोइन्द्रियप्राधान्यात् यदुत्पद्यते ज्ञानं तत् श्रुतम् ।
ईहादिप्रसङग इति चेत्, न; अवगृहीतमात्रविषयत्वात् ।२८३ स्यादेतत्-ईहादीनामपि __ श्रुतव्यपदेशः प्राप्तः, तेऽप्यनिन्द्रियनिमित्ता इति; तन्न; किं कारणम् ? अवगृहीतमात्रविषय
त्वात् । इन्द्रियेणावगृहीतो योऽर्थस्तन्मात्रविषया ईहादयः, श्रुतं पुनर्न तद्विषयम् । किं विषयं तर्हि
श्रुतम् ? अपूर्वविषयम् । एक घटमिन्द्रियानिन्द्रियाभ्यां निश्चित्याऽयं घट इति तज्जातीयमन्य११ मनेकदेशकालरूपादिविलक्षणमपूर्वमधिगच्छति यत्तत् श्रुतम् ।
१ केवलसा-पा०, ब०, २०, म०, ता० । २ भेदः । ३-व्यपदेश इति प्रा०, ब०, २०,म० । कुमुतिकुश्रुतयोः सम्यग्ज्ञानव्यपदेशवृत्तेरभेदः।४ देवदत्तजिनदत्तयज्ञदत्ता युगदायाता इति । ५ तावत्तहिन्द्रि-ता०,०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org