________________
४७
११९]
प्रथमोऽध्यायः ध्यारोपः क्रियते, न च तथा ज्ञानं करगत्वेन प्रसिद्ध मस्ति पूर्वदोषोपपत्तेः। अतोऽस्य कर्तृत्वमयुक्तम्।
नच भावसाधनत्वमुपपत्तिमत्अविक्रियस्य तत्परिणामाभावात् । विक्रियास्वभावस्या हि वस्तुनस्तण्डुलादेः विक्लेदादिदर्शनात्, 'पचनं पाकः' इत्येवमादि भावनिर्देशो युक्तः ताकाशस्येति ।
किञ्च, फलाभावात् । ज्ञान हि प्रमाण मिष्टम् । प्रमाणेन च फलवता भवितव्यम् । न चावबोधनमन्तरेण फलमन्यदुपलभ्यते । तस्मादन्येन ज्ञानेन भवितव्यं यस्मिन् सति सा ज्ञातिरवबोधः फलमात्मनो भवति, तच्च नास्त्यतो न भावसाधनत्वम्।।
अधिगमश्चात्र न भावान्तरमिति ‘फले प्रामाण्योपचारः' इति चाऽयुक्तम् ; मुख्याभावात् । आकारभेदात् फलप्रमाणपरिकल्पना चाऽयुक्ता; आकाराकारवतोभदाभेदयोरनेक- १० दोषोपपत्तेः । निर्विकल्पकत्वाच्च तत्त्वस्य आकारकल्पनाभावः। बाहयवस्त्वाकारापोहे अन्तरङ्गाकारानुपपत्तिश्चेति । जैनेन्द्राणां तु परमर्षिसर्वज्ञप्रणीतनयभङ्गगहनप्रपञ्चविपश्चितां स्याद्वादप्रकाशोन्मीलितज्ञानचक्षुषाम् एकस्मिन्न प्यर्थेऽनेकपर्यायसंभवादुपपद्यते इति विमृष्टार्थमेतत् ।
मत्यादीनां जानशब्देन प्रत्येकमभिसंबन्धो भुजिवत् ।१२॥ यथा 'देवदत्त जिनदत्तगुरुदत्ता १५ भोज्यन्ताम्' इति देवदत्तादीनां भुजिना प्रत्येकमभिसंबन्धो भवति, एवमिहापि प्रत्येकमभिसंबन्धः-'मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मन:पर्ययज्ञानं केवलज्ञानम्' इति । सत्यपि 'तत्सामानाधिकरण्ये 'उपात्तलिङ्गसंख्या त्वात्त'ल्लिङ्गसंख्योपादानं नास्ति' इत्युक्तं पुरस्तात् ।
स्वन्तत्वाद् अल्पान्तरत्वाद् अल्पविषयत्वाच्च मतिग्रहणमादौ ।१३। 'मतिः' इत्येतत् पदं स्वन्तम् अल्पान्तरं च अवध्यादिभ्यो विषयश्चास्याल्पः चक्षुरादीनां प्रतिनियतविषयत्वात्, २० तस्मादस्यादौ ग्रहणं क्रियते।
तदनन्तरम् श्रुतम् तत्पूर्वकत्वात् ।१४। *"मतिपूर्व हि श्रुतम्" [त० सू० १।२०] इति वक्ष्यते । ततस्तदनन्तरं श्रुतं क्रियते । दतश्च
विषयनिबन्धनतुल्यत्वाच्च ।१५। *"मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु" [त० सू० १।२६] इति वक्ष्यते, अतस्तत्तुल्यत्वाच्च तदनन्तरं श्रुतम् ।
तत्सहायत्वाच्च ।१६। यथा नारदपर्वतयो: सहायत्वात् यत्र नारदस्तत्र पर्वतः, यत्र पर्वतस्तत्र नारदः परस्परापरित्यागात्, तथा मतिश्रुतयो: परस्परापरित्याग:-'यत्र मतिस्तत्र श्रुतं यत्र श्रुतं तत्र मतिः' इति ।।
प्रत्यक्षत्रयस्यादाववधिवचनम्, विशुद्धयभावात् ।१७। सत्यपि मतिश्रुताभ्यां प्रत्यक्षत्वाद् 'विशुद्धत्वेऽवधेः औपरिष्टं प्रत्यक्षज्ञानमपेक्ष्यावधिर्न विशुद्धस्ततोऽस्य प्रागुपन्यासः । ३०
ततो विशुद्धतरत्वात् मनःपर्ययग्रहणम् ।१८। ततोऽवधेर्मनःपर्ययज्ञानं विशुद्धतरम् । एकिं कृतोऽस्य विशुद्धिप्रकर्षः ? संयमगुणसन्निधानकृतः । अतोऽस्य तदनन्तरं ग्रहणम् ।
अन्ते केवलग्रहणम्, ततः परं ज्ञानप्रकर्षाभावात् ।१९। सर्वेषां ज्ञानानां परिच्छेदने
२५
१-स्वाभाव्यस्य श्र०। २ परामष्टार्थम् । ३ मत्यादिभिः। ४ ज्ञानस्य। ५ मत्यादि। ६ स्वमते इदुदन्तस्य सुरिति संज्ञा। घिसंज्ञकमित्यर्थः -सम्पा०। ७ श्रुतं तत्पूर्व हि प्रा०, ब०, २०, मु०। ८ वक्ष्यमाणप्रकारेणेत्यर्थः । ६ -शुद्धित्वे ता०, श्र०। १० प्रौपदिष्टम् प्रा०, मु०, द०। उपरिभवम् । ११ केन कृतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org