________________
४६
१५
तत्त्वार्थवार्तिके
[१९ येन हि कर्तृ साधनत्वमवगतं करणादिसाधनत्वं च तेनेदं युज्यते वक्तुम्-'कर्तृ साधनमिदं न करणादिसाधनम्' इति । नच क्षणिकवादिनः प्रत्यर्थवशवर्तिज्ञानविकल्पनायाम् अनवधारितोभयस्वभावस्य तद्विशेषोपलब्धिरस्ति। न हि शुक्लेतरविशेषानभिज्ञस्य 'शुक्लमिदं न नीलादि' इति विशेषणमुपपद्यते ।
अस्तित्वेऽप्यविक्रियस्य तदभावः, अनभिसंबन्धात् ।११। आत्मनः अस्तित्वेऽपि ज्ञानस्य करणाद्यभावः । कुतः? अनभिसंबन्धात् । 'यस्य मतम्-आत्मनो ज्ञानाख्यो गुणः, तस्माच्चार्थान्तरभूतः, *"आत्मेन्द्रियम!ऽर्थसन्निकर्षात् यनिष्पद्यते तदन्यत्" [वैशे० सू० ३।१।१८] इति वचनादिति; तस्य ज्ञानं करणं न भवितुमर्हति । कुतः ? पृथगात्मलाभाभावात् । दृष्टो
हि लोके छेतुर्देवदत्ताद् अर्थान्तरभूतस्य परशोः तैदण्यगौरवकाठिन्यादिविशेषलक्षणोपेतस्य १० सतः करणभावः, नच तथा ज्ञानस्य स्वरूपं पृथगुपलभामहे ।
किञ्च, अपेक्षाभावात् । दृष्टो हि परशोः देवदत्ताधिष्ठितो'द्यमननिपातनापेक्षस्य करणभावः, न च तथा ज्ञानेन किश्चित्कर्तृसाध्यं क्रियान्तर मपेक्ष्यमस्ति ।
किञ्च, तत्परिणामाभावात् । छेदनक्रियापरिणतेन हि देवदत्तेन तत्क्रियायाः साचिव्ये नियुज्यमानः परशुः 'करणम्' इत्येतद्युक्तम्, न च तथा आत्मा ज्ञानक्रियापरिणतः ।
अर्थान्तरत्वे तस्याऽज्ञत्वात् । इह यज्ज्ञानादन्यद्भवति तदज्ञं दृष्टं यथा घटादिद्रव्यम्, तथा च ज्ञानादन्य आत्मा इत्यज्ञत्वप्रसङ्गः। ज्ञानयोगाज्ज्ञत्वं दृष्टत्वात् दण्डिवदिति चेत्; न; तत्स्वभावाभावे संबन्धनियमानुपपत्तिः इन्द्रियमनोवत् । ज्ञस्वभावाभावे सति 'आत्मन्येव . योगो न मनसेन्द्रियेण वा' इति नियमाभावः । युतसिद्धयोश्च दण्डदण्डिनोः संबन्धः, दण्डस्य च प्रसिद्धस्य सतो विशेषणमात्रत्वेनोपादानात्, आत्मनश्च तदुत्पत्तौ हिताहितविचारणाविक्रियानुपपत्तेरसाम्यम् । उभयोश्चाज्ञयोः संबन्धेऽप्यज्ञत्वप्रसङ्गः, दृष्टत्वात्, जात्यन्धयोः संबन्धे दर्शनशक्त्यभावात् ।
किञ्च, इन्द्रियमनःप्रसङ्गात् । यदि 'ज्ञायतेऽनेन ज्ञानम्' इति करणमभ्युपगम्यते, तेनेन्द्रियाणां मनसश्च ज्ञानत्वप्रसङ्गः विशेषाभावात्, तैरपि ज्ञायत इति ।
किञ्च, उभयोनिष्क्रियत्वात्। सर्वगतस्य तावदात्मनः क्रिया नास्ति, नापि ज्ञानस्य । "क्रियावत्वं द्रव्यस्यैव "लक्षणम्" [ ] इति वचनात् । ततः क्रियाविरहितस्य कथं कर्तृत्वं करणत्वं वा स्यात् ?
यस्यापि मतम्-'अनित्यगुणव्यतिरेकाच्छुद्धः पुरुषो नित्यश्च निर्विकारत्वात्' इति; तस्य ज्ञानं करणं न भवतुमर्हति । कुतः ? अनभिसंबन्धात् । या बुद्धिः इन्द्रियमनोऽहङ्कार
महवृत्त्युपनीता आलोचनसंकल्पाभिमानाध्यवसायरूपा सा प्रकृतिः, पुरुषः पुनरविक्रियः ३० शुद्धश्च, तस्य सा करणं कथं स्यात् ? क्रियापरिणतस्य हि देवदत्तस्य लोके करणसंप्रयोगो दृष्टः । इत्येवमादि योज्यम् ।
नापि कर्तु साधनत्यं युज्यते । लोके हि करणत्वेन प्रसिद्धस्यासेः तत्प्रशंसापरायामभिधानप्रवृत्ती समीक्षितायां "तक्ष्ण्यगौरवकाठिन्याहितविशेषोऽयमेव छिनत्ति' इति कर्तृधर्मा
१ करणत्वाभाव इति वा पाठः -१० टि० । २ वैशेषिकस्य । ३ उत्पतन । ४ -रं समपेक्ष्यम०,०, प्रा०, ब०। ५ अन्यत्। ६-क्रिपोपपते- प्रा०, ब०, द० म०। ७ज्ञानप्र-१०, मा तलना-"क्रियागणवत्समवायिकारणमिति द्रव्यलक्षणमा -वशे० स० १११११५ । ६ सांख्यस्यापि। १० मतमन्यत् गु-पा०, ब०, २०, म०। ११ नित्यत्वात् । १२ विवक्षितायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org