________________
..
१९]
प्रथमोऽध्यायः अव्युत्पन्नो वाऽसहायार्थः केवलशब्दः ।७। 'यथा केवलमन्नं भुक्ते देवदत्तः' इति 'असहायं व्यञ्जनरहितं भुङक्ते' इति गम्यते, तथा क्षायोपशमिकज्ञानासंपृक्तम् असहायं केवलम् इत्यव्युत्पन्नोऽयं शब्दो द्रष्टव्यः ।
करणादिसाधनो ज्ञानशब्दो व्याख्यातः ।८। अयं ज्ञानशब्द: करणादिसाधन इति व्याख्यातः पुरस्तात् ।
इतरेषां तदभावः।९। इतरेषामेकान्तवादिनां तस्य ज्ञानस्य करणादिसाधनत्वं नोपपद्यते। तत्कथमिति चेत् ? उच्यते
आत्माभावे ज्ञानस्य करणादित्वानुपपत्तिः कर्तुरभावात् ।१०। येषामात्मा न विद्यते तेषां ज्ञानस्य करणादित्वं नोपपद्यते । कुत? कर्तुरभावात् । सति हि देवदत्ते छत्तरि परशोः करणत्वं दृष्टम् । तथा चात्मन्यसति नास्य' करणत्वम् । तत एव भावसाधनत्वमपि नोपपद्यते- १० 'ज्ञातिनिम्' इति । न यसति भाववति' भाव' इति ।
. स्यादेतत्-जानातीति ज्ञानमिति कर्तृ साधनत्वमिति; तन्न; निरीहकत्वात् । न हि निरीहको भावः कर्तृत्वमास्कन्दति । निरीहकाश्च' सर्वे भावाः । - किञ्च, पूर्वोत्तरापेक्षस्य लोके कर्तृत्वं दृष्टम् । न च तस्य ज्ञानस्य पूर्वोत्तरापेक्षास्ति क्षणिकत्वात्, अतो निरपेक्षस्य कर्तृत्वाभावः ।
किञ्च, करणव्यापरापेक्षस्य लोके कर्तृत्वं दृष्टम् । न च ज्ञानस्यान्यत् करणमस्तिः।। अतोऽस्य कर्तृत्वमपि नोपपद्यते। स्वशक्तिरेव करणमिति चेत्, न; शक्तिशक्तिमद्भेदाभ्युपगमे आत्मास्तित्वसिद्धेः । अभेदे च स 'दोषस्तदवस्थ एवेति । सन्तानापेक्षया कतकरणभेदोपचार इति चेत्, न; परमार्थविपरीतत्वे मृषावादोपपत्तेः, भेदाभेदविकल्पनयोरुक्तदोषप्रसङ्गाच्च। मनश्चेन्द्रियञ्चास्य करणमिति चेत् न तस्य तच्छक्त्यभावात् । मनस्तावन्न २० करणम् विनष्टत्वात् *"षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः'' [अभिध०१।१७] इति वचनात् । नेन्द्रियमप्यतीतम्, तत एव । नाप्युपजायमानस्य' करणत्वम् । नहि सव्यविषाणं यगपदपजायमानमितरस्य विषाणस्य करणं भवति ।
किञ्च. प्रत्यर्थादन्यस्याभावात। 'ज्ञा' इत्यस्याः प्रकृतेरवबोधनमर्थः, न तस्मादन्यः कश्चिदर्थोऽस्ति यः कर्तृत्वमनुभवेत्, अतोऽस्य कर्तृत्वाभावः । ___ किञ्च, एकक्षणविषयं यत्कर्तृत्वं तदनेकक्षणगोचरोच्चारणलब्धजन्मना कर्तृ शब्देन कथमुच्यते ? कथं वाऽयमेकक्षणेऽसन् वाचक: स्यात् ? सन्तानावस्थानाद् वाच्यवाचक भाव- .. संबन्ध इति चेत्, न; तस्य प्रतिविहितत्वात् । .
अथ मतमेतत्-खात्पतिता नो रत्नवृष्टिः, अवाच्यमेव हि तत्त्वमिष्यते। अव्यापारेषु हि सर्वधर्मेषु वाग्व्यवहारो नास्त्येवेति; तदपि नोपपद्यते; स्ववचनविरोधात्, तत्त्वप्रतिपत्त्युपाया- ३० पह्नवप्रसङ्गाच्च ।
किञ्च, जानातीति ज्ञानमिति कर्तृ सावनत्वं नोपपद्यते । कुतः ? विशेषानुपलब्धेः ।
१ज्ञानस्य । २ प्रात्मनि । प्रात्माभावे तद्धर्मो न घटत इति यावत्- ता० टि०। ३ निापारत्वात्, वाञ्छा तावदात्मन्येव वर्तते न तु ज्ञाने-ता० टि०। ४ यो यत्रैव स तत्रैव यो यदैव तदेव सः। न देशकालयोाप्तिर्भावानामिह विद्यते ॥ इति भवन्मते प्रतिपादनात्। ५ कर्तत्वाभावदोषः। ६ "चक्षःश्रोत्रघाणजिह्वाकायमनोविज्ञानानाम् अनन्तरमतीतं (पूर्वकालिक) च यद्विज्ञानं तदेव मन इत्यु च्यते। यर्थक एव पुरुषः पितापि पुरोपि, एकमेव बीजं धान्यमपि बीजमपि - अभि० व्या० ॥१७॥ सम्या०-। ७ विनष्टत्वादेव । ८ युगपत् -ता० टि०। - स-१०। १० निराकृतत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org