________________
४५ तत्त्वार्थवार्तिके
[१९ ____एवं सम्यग्दर्शनस्यादावुद्दिष्टस्य लक्षणोत्पत्तिस्वामिविषयन्यासाधिगमोपाया निर्दिष्टाः, तत्संबन्धेन च जीवादीनां संज्ञापरिणामादिनिर्दिष्ट: । तदनन्तरमिदानी सम्यग्ज्ञानं विचाराहमित्याह
मतिभुतावधिमनःपर्ययकेवलानि ज्ञानम् ॥ ६ ॥ मत्यादय इति क एते शब्दाः ?
मतिशब्दो भावकर्तृकरणसाधनः ।१। अयं मतिशब्दो भावकर्तृकरणेष्वन्यतमसाधनो . वेदितव्यः । मनेर्भावसाधने क्तिः । तदावरण कर्मक्षयोपशमे सनि इन्द्रियानिन्द्रियापेक्षमर्थस्य मननं मतिः औदासीन्येन तत्त्वकथनात् । बहुलापेक्षया कर्तृ साधनः करणसाधनो वा, 'मनुतेऽर्थान् मन्यतेऽनेन' इति वा मतिः, भेदाभेदविवक्षोपपत्तेः ।।
. श्रुतशब्दः कर्मसाधनश्च ।२। किञ्च पूर्वोक्तविषयसाधनश्चेति वर्तते । श्रुतावरणक्षयोपशमा'द्यन्तरङ्गबहिरङ्गहेतुसन्निधाने सति "श्रूयते स्मेति श्रुतम् । कर्तरि श्रुतपरिणत आत्मैव शृणोतीति श्रुतम् । भेदविवक्षायां श्रूयतेऽनेनेति श्रुतम्, श्रवणमात्र वा।
. अवपूर्वस्य दधातेः कर्मादिसाधनः किः ।३। कर्मादिषु साधनेष्वन्यतमे किरयं वेदितव्यः । • अवधिज्ञानावरणक्षयोपशमाधुभयहेतुसन्निधाने "सति अवाग् धीयते अवाग्दधाति अवाग्धान१५ मात्र वाऽवधिः । 'अवशब्दोऽधःपर्यायवचनः, यथा 'अधःक्षेपणम् अवक्षेपणम्' इति । 'अधो
गतभूयोद्रव्यविषयो हयवधिः । अथवा, अवधिर्मर्यादा, अवधिना प्रतिबद्धं ज्ञानमवधिज्ञानम् । तथाहि वक्ष्यते- *"रूपिष्ववधेः" [त० सू० ११२७] इति । सर्वेषां प्रसङ्ग इति चेत्, न; रूढिवशाद् व्यवस्थोपपत्ते!शब्द प्रवृत्तिवत् ।
मनःप्रतीत्य प्रतिसंधाय वा ज्ञानं मनःपर्ययः।४। तदावरणकर्मक्षयोपशमादिद्वितयनिमित्तवशात् परकीयमनोगतार्थज्ञानं मनःपर्ययः । भावादिसाधनत्वं पूर्ववद्वेदितव्यम् । कथं मनः प्रतीत्य प्रतिसंधाय वा ज्ञानमिति ? अत्रोच्यते-परकीयमनसि गतोऽर्थः 'मनः' इत्युच्यते, तात्स्थ्यात्ताच्छन्द्यमिति । स च क: मनोगतोऽर्थः ? भावघटादिः,१२ तमर्थ समन्तादेत्य अवलम्ब्य वा स्वप्रसादादात्मनो ज्ञानं मनःपर्ययः ।
मतिज्ञानप्रसङग इति चेत् न, अपेक्षामात्रत्वात् ।५। स्यादेतत् -मनःपर्ययज्ञानं मतिज्ञानं २५ प्राप्तम् । कुतः ? मनोनिमित्तत्वात् । एवं हयार्थी प्रक्रिया" मनसा मनः संपरिचिन्त्येति;
तन्नः किं कारणम् ? अपेक्षामात्रत्वात्। स्वपरमनोऽपेक्षामात्रं तत्र क्रियते यथा 'अभे५ चन्द्रमसं पश्य' इति, न 'तत्कार्य मतिज्ञानवत्, आत्मशुद्धिनिमित्तत्वादे तस्येति ।।
बाह्याभ्यन्तरक्रियाविशेषान् यदर्थ केवन्ते तत्केवलम् ।६। तपःक्रियाविशेषान् वाङमनसकायाश्रयान् “बाहयानाभ्यन्तरांश्च यदर्थमर्थिनः केवन्ते सेवन्ते तत्केवलम् ।
१-दावुपदिष्टस्य ता०, १०,०। २ -दि निर्दिष्टम् प्रा०, ब०, ८०, मु०। ३ प्रादिशब्देन वीर्यान्तरायादिकस्य क्षयोपशमादिकं गहयते । ४ कर्मसाधनोऽयं ज्ञायते । स्वसंवेदनेन । ५ जानाति । ६ घोः किः इति । ७ सत्यवधीयते प्रा०, ब०, द०, मु०। अवशब्दार्थोद्योतकोऽयमवाक्शब्दः । ८ अवधिशब्दो मु०, २०, ब०, प्रा०, ता०, श्र०, मू०। ६ कल्पना स्याधि (?) भवप्रत्ययस्यापेक्षया व्युत्पत्तिरियं रूढिशब्दत्वादन्यत्रापि। १० मत्यादिमनःपर्ययान्तानाम, तेषां मननमात्रसद्भावात्। ११ यथा गच्छतीति गौरित्यक्ते गमनक्रिया प्रश्वादिष्वपि वर्तते, न गोष्ठे (स्थितायां गवि?)। १२ ज्ञानविषयत्वात् । १३-पर्यायश्र०। १४ तुलना-"मण माणसं पडिविदइत्ता.."-महाबंध पु० २४। १५ मेघे। '१६ मनसः। १७-देवतस्येति ता०, १०।१८ बाह्याभ्यन्तरा- ता०, १०, द०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org