________________
प्रथमोऽध्यायः
४३
अनधिकृतत्वादिति चेत्; न; सामर्थ्यात् । १४ । स्यादेतत् - अनधिकृतास्ते ततो न पुनर्युक्तमेषां ग्रहणमिति; तन्न; किं कारणम् ? सामर्थ्यात् तेषामपि ग्रहणं भवति ।
विधानग्रहणात् संख्यासिद्धिरिति चेत्; न; भेदगणनार्थत्वात् ॥ १५॥ स्यादेतत्-विधानग्रहदेव संख्या सिद्धिरिति तन्न; किं कारणम् ? भेदगणनार्थत्वात् । प्रकारगणनं हि तत्, भेदगण नार्थमिदमुच्यते - ' उपशमसम्यग्दृष्टय इयन्तः, क्षायिकसम्यग्दृष्टय एतावन्तः' इति ।
१८]
क्षेत्राधिकरणयोरभेद इति चेत्; न; उक्तत्वात् ॥ १६॥ स्यादेतत्-यदेवाधिकरणं तदेव क्षेत्रम्, अतस्तयोरभेदात् पृथग्ग्रहणमनर्थ कमिति; तन्न; किं कारणम् ? उक्तार्थत्वात् । उक्तमे - तत् - सर्व भावाधिगमार्थत्वादिति ।
क्षेत्रे सति स्पर्शनोपलब्धेरम्बुघटवत् पृथग्ग्रहणम् ॥१७॥ यथेह सति घटे क्षेत्रे अम्बुनोऽवस्थानात् 'नियमाद् घटस्पर्शनम्, नहयेतदस्ति - 'घटे अम्बु अवतिष्ठते न च घटं स्पृशति १० इति । तथा आकाशक्षेत्रे जीवावस्थानां नियमादाकाशे स्पर्शनमिति क्षेत्राभिधानेनैव स्पर्शनस्यार्थ गृहीतत्वात् पृथग्ग्रहणमनर्थकम् ।
न वा, विषयवाचित्वात् | १८ | नवैष दोषः । किं कारणम् ? विषयवाचित्वात् । विषयवाची क्षेत्रशब्दः, यथा राजा जनपदक्षेत्रेऽवतिष्ठते, न च कृत्स्नं जनपदं स्पृशति । स्पर्शनं तु कृत्स्नविषयमिति ।
५
त्रैकाल्यगोचरत्वाच्च । १९ । यथा साम्प्रतिकेनाम्बुना सांप्रतिकं घटक्षेत्रं स्पृष्टं नातीतानागतम्, नैवमात्मनः सांप्रतिकक्षेत्रस्पर्शने स्पर्शनाभिप्रायः, स्पर्शनस्य त्रिकालगोचरत्वात् । स्थितिकालयोरर्थान्तरत्वाभाव इति चेत्; न; मुख्यकालास्तित्वसंप्रत्ययाथम् ॥२०॥ स्यादेतत्-स्थितिरेव काल:, काल एव च स्थितिरित्यतो नास्त्यनयोरर्थान्तरभाव इति; तन्न; किं कारणम् ? मुख्यकालास्तित्वसंप्रत्ययार्थं पुनः कालग्रहणम् । द्विविधो हि कालो मुख्यो २० व्यावहारिकश्चेति । तत्र मुख्यो निश्चयकालः । पर्यायिपर्यायावधिपरिच्छेदो व्यावहारिकः । तयोरुत्तरत्र निर्णयो वक्ष्यते ।
तं च ॥ २१ ॥ किमुक्तम् ? सर्वभावाधिगमहेतुत्वादिति ।
१ संख्या हि गणनामात्ररूपा व्यापिनी, विधानं तु प्रकारगणनारूपम् । तथोक्तम्- गणनामात्ररूपेयं संख्योक्ताऽतः कथञ्चन । भिन्ना विधानतो भेदगणनालक्षणादिह ॥ इति । २ तन्नि- प्रा०, ब०, ६०, मु० । ३ - ण इत प्रा०, ब०, ६०, मु० । -ण केचिदनतिसंक्षेपेणानतिविस्तरेण इ- श्र० ।
नामादिषु भावग्रहणात् पुनर्भावाग्रहणमिति चेत्; न; औपशमिकाद्यपेक्षत्वात् ॥ २२॥ स्यादेतत्-नामादिषु भावग्रहणं कृतं तेनैव सिद्धत्वात् पुनर्भावग्रहणमनर्थकमिति; तन्न; किं २५ कारणम् ? औपशमिकाद्यपेक्षत्वात् । पूर्व भावग्रहणं 'द्रव्यं न भवति' इत्येवंपरम्, इदं तु अपशमिकादिवक्ष्यमाणभावापेक्षम् - किं सम्यग्दर्शनमौपशमिकं क्षायिकम्' इत्यादि ।
fararaat वा तत्त्वाधिगमहतुविकल्पः | २३ | अथवा, सर्वेषामेव परिहारः - विनेयायशो हि तत्त्वाधिगमहेतुविकल्पो वेदितव्यः । केचित् संक्षेपेण प्रतिपाद्याः केचिद्विस्तरेण केचिदनतिसंक्षेपेण केचिदनतिविस्तरेण । इतरथा हि प्रमाणग्रहणादेव सिद्धेरितरेषामधिगमो - ३० पायानां ग्रहणमनर्थकं स्यादिति ।
इति तत्त्वार्थवातिके व्याख्यानालङकारे प्रथमेऽध्याये पञ्चममाह्निकम् ॥५॥
Jain Education International
१५.
For Private & Personal Use Only
www.jainelibrary.org