________________
५
१०
तत्त्वार्थवार्तिके
[१८
४२
मेव' स्पर्शनम्, कस्यचिद् द्रव्यमेव, कस्यचिद् रज्जवः षडष्टौ वेति एक सर्वजीवसन्निधौ, तन्निश्चयार्थं तदुच्यते ।
स्थितितोऽवधिपरिच्छेदार्थ कालोपादानम् | ६ | 'स्थितिमतोऽर्थस्यावधिः परिच्छेत्तव्यः' इति कालोपादानं क्रियते ।
२०
अन्तरशब्दस्यानेकाथवृत्तेः छिद्रमध्यविर हेष्वन्यतमग्रहणम् ॥७॥ [ अन्तर शब्दः ] 'बहुष्वर्थेषु दृष्टप्रयोगः । क्वचिच्छिद्रे वर्तते सान्तरं काष्ठम्, सछिद्रम् इति । क्वचिदन्यत्वे * " द्रव्याणि द्रव्यान्तरमारभन्ते " [वैशे० सू० १|१|१०] इति । क्वचिन्मध्ये हिमवत्सागरान्तर इति । क्वचित्सामीप्ये 'स्फटिकस्य शुक्लरक्ताद्यन्तरस्थस्य तद्वर्णता' इति 'शुक्लरक्तसमीपस्थस्य' इति गम्यते । क्वचिद्विशेषे
*"वाजिवार लोहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तरं महदन्तरम् ॥” [गरुडपु०११०।१५] इति, महान् विशेष इत्यर्थः । क्वचिद् बहिर्योगे " ग्रामस्यान्तरे कूपाः' इति । क्वचिदुपसंव्याने अन्तर ' शाटका' इति । क्वचिद्विरहे अनभिप्रेतश्रोतृजनान्तरे मन्त्रं मन्त्रयते, तद्विरहे मन्त्रयते इत्यर्थः । तत्रेह' छिद्रमध्यविरहेष्वन्यतमो वेदितव्यः ।
अनुपहतवीर्यस्य न्यग्भावे पुनरुद्भूतिदर्शनात्तद्वचनम् [८] अनुपहतवीर्यस्य द्रव्यस्य १५ १० निमित्तवशात् कस्यचित् पर्यायस्य न्यग्भावे सति पुनर्निमित्तान्तरात् तस्यैवाविर्भावदर्शनात्
तदन्तरमित्युच्यते ।
परिणामप्रकार निर्णयार्थ भाववचनम् |९| औपशमिकादिः परिणामप्रकारो निर्णेतव्यः इति भाववचनं क्रियते ।
संख्याताद्यन्यतमनिश्चयेऽपि अन्योन्यविशेषप्रतिपत्त्यर्थ मल्पबहुत्ववचनम् | १० | संख्यातादिष्वन्यतमेन परिमाणेन निश्चितानामन्योन्यविशेषप्रतिपत्त्यर्थ मल्पबहुत्ववचनं क्रियते इमे एभ्योऽल्पा "इमे बहवः' इति । आह
निर्देशवचनात् सत्त्वप्रसिद्धेरसद्ग्रहणम् | ११ | निर्देशवचनादेव सत्त्वं सिद्धम्, न हसतो निर्देश इति, तस्माद् असद्ग्रहणम् - अनर्थकं सद्ग्रहणमसङ्ग्रहणम् ।
२५
नवा क्वास्तिक्व नास्तीति चतुदशमार्गणास्थानविशेषणार्थत्वात् ॥ १२ ॥ न वैष दोषः । किं कारणम् ? नानेन सम्यग्दर्शनादेः सामान्येन सत्त्वमुच्यते किन्तु गतीन्द्रियकायादिषु चतुर्दशसु मार्गणास्थानेषु 'क्वास्ति सम्यग्दर्शनादि, क्व नास्ति' इत्येवं विशेषणार्थ सद्वचनम् । सर्व भावाधिगमहेतुत्वाच्च" | १३ | अधिकृतानां सम्यग्दर्शनादीनां जीवादीनां च निर्देशवचनेन अस्तित्वमधिगतं स्यात्, ये त्वनधिकृता जीव पर्यायाः क्रोधादयो ये चाऽजीवपर्याया वर्णादयो घटादयश्च तेषामस्तित्वाधिगमार्थ पुनर्वचनम् ।
१ विमानादि । २ निगोदादेः । ३ कन्दादिः । ४ यः कश्चिज्जीवोऽस्मिल्लोके तपस्तप्त्वाऽच्युतकल्प उत्पन्नः ततश्च्युत्वाऽस्मिल्लोके जातः तस्य त्रिकालविषयं गमनागमनं प्रति षड् रज्जवः स्पर्शनम् । तस्यैवातृतीयनरकात् त्रिकालविषयं विहरणं प्रत्यष्टौ रज्जवः स्पर्शनम् । ५ श्रवकाशे क्षणे वस्त्रे बहिर्योगे व्यतिक्रमे । मध्येऽन्तःकरणे रन्ध्रे विश्लेषे विरहेऽन्तरम् । इति भट्टधनञ्जयः । ६ उत्पादयन्ति । ७ अन्तरं बहिर्योगोपसंव्यानयोरिति सर्वादि । ८ श्रन्तरीयोपसंव्यानपरिधानान्यधोंशुके । ६ नरकबिलादिषु छिद्रार्थः । १० मिथ्यात्वादिकारणवशात् । ११ सम्यग्दर्शनादेः । सम्यग्दर्शनादिनिमित्तवशात् मिथ्यात्वादिपर्यायस्येत्यादि वा । १२ परिणामेन आ०, ब०, मु० । १३ उपशमसम्यग्दृष्टयः । १४ संसारिक्षायिकसम्यग्दृष्टिभ्यः । १५ क्षायोपशमिक सम्यग्दृष्टयः । ततः सिद्धाः क्षायिकसम्यग्दृष्टयः । १६ एवं सर्वत्र योज्यम् । १७ - त्वात् भा० १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org