________________
१८]
प्रथमोऽध्यायः वा तत्र प्रतिष्ठानात् । स्थिति:-सादिसनिधनं क्षायोपशमिकं ज्ञानं चतुर्विकल्पम्, साद्यनिधनं क्षायिकम् । विधानम्-सामान्यादेकं ज्ञानम्, प्रत्यक्षपरोक्षभेदाद् द्विधा, द्रव्यगुणपर्यायविषयभेदात् त्रिधा, नामादिविकल्पाच्चतुर्धा, मत्यादिभेदात् पञ्चधा। इत्येवं संख्येयासंख्येयानन्तविकल्पं च भवति ज्ञेयाकारपरिणतिभेदात् । ___ चारित्रनिर्देश:- कर्मादानकारण निवृत्तिश्चारित्रम्, नामादि । तत्पुनरात्मनः स्वरूपस्य ५ वा । चारित्रमोहोपशमादि साधनं स्वशक्तिर्वा । स्वामिसंबन्धभागेवाधिकरणम् । स्थितिर्जघन्येनान्तर्मुहूर्ता, उत्कर्षेण पूर्वकोटी देशोना । अथवा सादिसपर्यवसानम् औपशमिकक्षायोपशमिकम्, साद्यपर्यवसानं क्षायिकम्, 'शुद्धिव्यक्त्यपेक्षया । विधानम्-सामान्यादेकम्, द्विधा बाहयाभ्यन्तरनिवृत्तिभेदात्, त्रिधा औपशमिकक्षायिकक्षायोपशमिकविकल्पात्, चतुर्धा चतुर्यमभेदात्, पञ्चधा सामायिकादिविकल्पात् । इत्येवं संख्येयासंख्येयानन्तविकल्पं च भवति १० परिणामभेदात् । ___किमेतैरेव जीवादीनामधिगमो भवति उतान्योऽप्यधिगमोपायोऽस्ति' इति परिपृष्टः . 'अस्ति' इत्याह
।
सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ॥८॥ 'अधिगमः' इत्यनुवर्तते ।
प्रशंसादिषु सच्छन्दवृत्तरिच्छातः सद्भावग्रहणम् ।। सच्छब्दः प्रशंसादिषु वर्तते । तद्यथा-प्रशंसायां तावत् 'सत्पुरुषः, सदश्वः" इति । क्वचिदस्तित्वे 'सन् घटः, सन् पटः' इति । क्वचित् प्रज्ञायमाने-प्रवृजितः सन् कथमनृतं ब्रूयात् ? 'प्रवृजितः' इति प्रज्ञायमान इत्यर्थः । क्वचिदादरे ‘सत्कृत्यातिथीन् भोजयति' 'आदृत्य' इत्यर्थः । तत्रेहेच्छातः सद्भावे गृहयते ।
___ "अव्यभिचारात् सर्वमूलत्वाच्च तस्यादौ वचनम् ।२। सत्त्वं हयव्यभिचारि सर्वपदार्थवि- २० षयत्वात् । नहि कश्चित्पदार्थः सत्तां व्यभिचरति। यदि व्यभिचरेत् ; वाग्विज्ञानगोचरातीतः .. स्यात् । गुणास्तु रूपादयो ज्ञानादयश्च केषुचित् सन्ति केषुचिन्न सन्ति । क्रिया च परिस्पन्दात्मिका जीवपुद्गलेष्वस्ति नेतरेष्विति न व्याप्तिमती । सर्वेषां च विचारार्हाणामस्तित्वं मूलम् । तेन हि निश्चितस्य वस्तुन उत्तरा चिन्ता युज्यते । अतस्तस्यादौ वचनं क्रियते।
सतः 'परिमाणोपलब्धः संख्योपदेशः।३। सतो हि वस्तुनः संख्याताऽसंख्याताऽनन्तपरिमाणोपलब्धेः संख्याताद्यन्यतमपरिमाणावधारणार्थ संख्या भेदलक्षणा उपदिश्यते ।
निर्जातसंख्यस्य निवासविप्रतिपत्तेः क्षेत्राभिधानम् ।४। निश्चयेन ज्ञातसंख्यस्यार्थस्य ऊधिस्तिर्य अनिवासविप्रतिपत्तेः ऊर्ध्वाद्यन्यतमनिवासनिश्चयार्थ क्षेत्राभिधानम् ।
__ अवस्थाविशेषस्य वैचित्र्यात् त्रिकालविषयोपश्लेषनिश्चयार्थ स्पर्शनम् ५। 'अवस्थाविशेषो विचित्रः व्यसूचतुरसादिः, तस्य त्रिकालविषयमुपश्लेषणं स्पर्शनम् । कस्यचित्तत्क्षेत्र- ३०
१ मतिश्रुतावषिमनःपर्ययभेदात् । २ शुद्धव्यक्त्य- ता०। ३ चतुर्थमभे-मु०। चतुर्यतिभेता०, श्र०, मू० । 'रिति स्यातां प्रमत्तमुख्येषु वै गुणेषु चर्तुषु। ४ सवश्वश्चेति मु०, ब०, ता० । ५ प्रतिज्ञायमा-प्रा०, ब०, १०, म०। ६ सद्भावो प्रा०, ब०, द०, ता०, मु०। ७ अव्यभिचारत्वात् श्र०। ८ परिणामो- प्रा०, ब०, २०, मु०। ६ विमानादेः। १० देवादेः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org