________________
तत्त्वार्थवार्तिके
[११७ स्थितिर्जघन्या उत्कृष्टा च। तत्र जघन्या वेदनीयस्य द्वादश मुहर्ताः । नामगोत्रयोरष्टौ। शेषाणामन्तर्मुहूर्ताः। उत्कृष्टा ज्ञानदर्शनावरणवेदनीयान्तरायाणां त्रिंशत्सागरोपमकोटीकोट यः । मोहनीयस्य सन्ततिः । नामगोत्रयोविंशतिः । त्रयस्त्रिशत्सागरोपमाण्यायुषः। अथवा बन्धसन्तानपर्यायादेशात् स्यादनादिरनिधनश्चाभव्यानाम्, भव्यानां च केषाञ्चित् ये अनन्तेनापि कालेन न सेत्स्यन्ति । ज्ञानावरणादिकर्मोत्पादविनाशात् स्यात्सादिः सनिधनश्च । विधानम्-'बन्धः सामान्यादेशात् एकः, द्विविधः शुभाशुभभेदात्, विधा द्रव्यभावोभयविकल्पात्, चतुर्धा प्रकृतिस्थित्यनुभागप्रदेशभेदात्, पञ्चधा मिथ्यादर्शनादिहेतुभेदात्, षोढा नामस्थापनाद्रव्यक्षेत्रकालभावैः, सप्तधा तेरैव भवाधिकः, अष्टधा ज्ञानावरणादिमूलप्रकृतिभेदात् । एवं संख्येयाऽसंख्येयानन्तविकल्पश्च भवति हेतुफलभेदात् ।
संवरनिर्देशः-आसूवनिरोधः नामादिर्वा । जीवोऽस्य स्वामी, कर्म वा निरुध्यमानविषयत्वात् । निरोधस्य साधनं गुप्तिसमितिधर्मादयः । 'स्वामिसंबन्धाहमेवाधिकरणम्' इत्युक्तम् । स्थितिर्जघन्येनान्तर्मुहर्ता, उत्कृष्टा पूर्वकोटी देशोना। विधानम् एकादिरष्टोत्तरशतविधः, तत उत्तरश्च संख्येयादिविकल्पो निरोध्यनिरोधकभेदाद्वेदितव्यः । तत्राष्टोत्तरशतविध
उच्यते-तिस्रो गुप्तयः, पञ्च समितयः, धर्मो दशविधः, अनप्रेक्षा द्वादश, परीषहा द्वाविंशतिः, १५ तपो द्वादशविधम्, प्रायश्चित्तं नवविधम्, विनयश्चतुर्विधः, वैयावृत्यं दशविधम्, स्वाध्यायः पञ्चविधः, व्युत्सर्गो द्विविधः, धर्मध्यानं दशविधम्, शुक्लध्यानं चतुर्विधमिति ।
निर्जरानिर्देशः-यथाविपाकात्तपसो वा उपभुक्तवीर्य कर्म निर्जरा, नामादिर्वा । सा आत्मनः कर्मणो वा द्रव्यभावभेदात् । साधनं तपो यथाकर्मविपाकश्च । अधिकरणमात्मा निर्जरात्मैव वा।
स्थितिर्जघन्येनैकसमयः उत्कर्षेणान्तर्मुहूर्तः, सादिः सपर्यवसाना वा। विधानम् सामान्यादेका २० निर्जरा, द्विविधा यथाकालौपक्रमिकभेदात्, अष्टधा मूलकर्मप्रकृतिभेदात् । एवं संख्येयाऽसंख्येयानन्तविकल्पा भवति कर्मरस'निहरणभेदात् ।
मोक्षनिर्देशः-कृत्स्नकर्मसंक्षयो मोक्षः, नामादि । तस्य स्वामी परमात्मा मोक्षात्मैव वा। साधनं सम्यग्दर्शनज्ञानचारित्राणि। स्वामिसंबन्धार्हमेवाधिकरणं तद्विषयत्वात्। स्थितिस्तस्य सादिरनिधना। विधानम्-सामान्यादेको मोक्षः, द्रव्यभावमोक्तव्यभेदाद'नेकोऽपि।
सम्यग्दर्शननिर्देशः-तत्त्वार्थश्रद्धानं सम्यग्दर्शनं नामादिर्वा । तत्पुनरात्मनः स्वस्यैव वा। दर्शनमोहोपशमादि साधनम्, बाहयं चोपदेशादि, स्वात्मा वा । स्वामिसंबन्धभागेवाधिकरणम्। स्थितिर्जघन्येनान्तर्मुहूर्ता, उत्कर्षेण षट्षष्टिसागरोपमाणि सातिरेकाणि । अथवा सादिसनिधनमौपशमिकक्षायोपशमिकम्, साद्यनिधनं क्षायिकम्। विधानम् सामान्यादेकम्, द्विधा
निसर्गजाधिगमजभेदात, त्रिनौपशमिकक्षायिकक्षायोपशमिकविकल्पात् । एवं संख्येयासंख्येया३० नन्तविकल्पं च भवत्यध्यवसाय भेदात् ।
ज्ञाननिर्देश:-जीवादितत्त्वप्रकाशनं ज्ञानं नामादि । तत् आत्मनः स्वाकारस्य वा। ज्ञानावरणादिकमक्षयोपशमादि साधनम्, स्वाविर्भावशक्तिर्वा । अधिकरणम्-आत्मा स्वाकारों
१बन्धसा-पा०, ब०, ता०। २ संख्येया असंख्येया अनन्त विकल्पाश्च भवन्ति प्रा०, ब०, मु०। ३-निर्हाणभे- ता०। ४ नेकः स-पा०, ब०, द०, म०, ता०। ५ वेदकसम्यक्त्वं प्रति । लांतवकप्पे तेरस अच्चदकप्पे य होंति बावीसा। उवरिम एक्कत्तीसं एवं सव्वाणि छावठी। ६ शब्दतः संख्येयपिकल्पम् । ७ श्रद्धातुश्रद्धातव्यभेदात् । ८ -सान भे- प्रा०, ब०, द०, मु०, । रुचिविकल्पात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org