________________
प्रथमोऽध्यायः
३६
ख्येयप्रदेशादिसामान्यादेशान्न प्रच्यवते सर्वकालमिति । पर्यायस्त्वन्यश्चान्यश्च भवति, तदपेक्षा समयादिका कल्प्यते । किमस्य विधानम् ?
नारकादिसंख्येयासंख्येयानन्तप्रकारो जीवः | १३ | नारकादयः 'संख्या असंख्येया 'अनन्ताश्च प्रकारा भिद्यन्ते जीवस्य ।
१०
'तथैवेतरेषामागमाविरोधात् निर्देशादिवचनम् । १४ । तेनैव प्रकारेण आगमाविरोधेन इतरेषामजीवादीनां निर्देशादयो वक्तव्याः । तद्यथा - 'अजी वस्तावद्दशप्राणपर्याय रहितः नामादिश्च । अजीवात्मैव अजीवस्य स्वामी, जीवो वा भोक्तृत्वात् । पुद्गलानाम् अणुत्वादिसाधनं भेदादि तन्निमित्तं वा कालादि । धर्माधर्मकालाकाशानां गतिस्थितिवर्तनावगाहहेतुता पारिroat अगुरुलघुगुणानुगृहीता, स्वात्मभूतसत्ता संबद्धा जीवपुद्गला वा' तदपेक्षत्वाद् गत्यादिहेतुताभिव्यक्तेः । स्वात्मैवाधिकरणं सर्वद्रव्याणां स्वात्मव्यवस्थितत्वात्, आकाशं साधारणम्, असाधारणं च 'घटादिर्जलादीनाम् । स्थितिर्द्रव्यापेक्षाऽनाद्यवसाना, पर्यायापेक्षा समयादिका । विधानं धर्मादित्रिकं प्रतिनियतानादिपारिणामिकद्रव्यार्थादेशादेकैकम्, पर्यायार्थिकनयादेशादने कम्, संख्येयासंख्येयानन्तानां द्रव्याणां गतिस्थित्यवगाहनाद्युपकार" पर्यायादेशात् स्यादेकं स्यादनेकं स्यात्संख्येयं स्यादसंख्येयं स्यादनन्तम् । कालः संख्ये योऽसंख्येयोऽनन्तश्च भवति ३ परप्रत्ययात्"। पुद्गलद्रव्यं रूपस्पर्शादिपारिणामिकद्रव्यार्थादेशात् स्यादेकम्, प्रतिनियतैकानेकसंख्येया संख्ये यानन्तप्रदेशपर्यायादेशात् स्यादनेकं स्यात्संख्येयं स्यादसंख्येयं स्यादनन्तम् ।
आसूवनिर्देश:- कायवाङ्मनः क्रियापरिणामो नामादिर्वा । जीवोऽस्य स्वामी, कर्म वा तन्निमित्तत्वात् । "स्वात्मैव साधनं शुद्धस्य तदभावात् कर्म वा सति तस्मिन् प्रवृत्तेः । अधिकरणम् "आत्मन्येवासौ" तत्र तत्फलदर्शनात्, कर्मणि कर्मकृते च कायादावुपचारतः । स्थितिः वाङ्मनसासूवयोर्जघन्येनैकसमयः, उत्कर्षेणान्तर्मुहूर्त:; कायास्रवस्य जघन्ये नान्तमुहूर्त: उत्कर्षेणा- २० नन्तः “कालः, असंख्येयाः पुद्गलपरिवर्ताः । विधानम् वाङ्मनसासूवयोश्चतुर्विकल्पसंख्यं सत्यमृषोभयानुभयभेदात् । कायासूवः सप्तविधः औदारिकवै क्रियिकाहारकमिश्रकार्मणभेदात् । औदाfrstarfrafrat मनुष्यतिरश्चाम् । वैक्रियिकवैक्रियिकमिश्रको देवनारकाणाम् । आहारकाहारकमिश्रको संयतानाम् ऋद्धिप्राप्तानाम् । कार्मणकायासूवो "विग्रहापन्नानां केवलिनां वा समुद्घातगतानाम् । अथवा, आसूवस्य प्रकारः शुभाशुभः । तत्र कायिको हिंसाऽनृतस्ते या ब्रह्मादिषु . २५ प्रवृत्तिनिवृत्तिसंज्ञः । वाचिकः परुषाक्रोशपिशुनपरोपघातादिषु वचस्सु प्रवृत्तिनिवृत्तिसंज्ञः । मानसो २० मिथ्या श्रुत्यभिघातेर्ष्यासूयादिषु" मनसः प्रवृत्तिनिवृत्तिसंज्ञः ।
१७ ]
१ श्रुतकेवलिभिः । २ प्रवधिज्ञानिभिः । ३ केवलज्ञानिभिः । ४ तथेतरे - श्रा०, ब० द०, मु०, ता० । ५ व्याख्येयाः । ६ जीवद्रव्यस्य तु दशप्राणरहितत्वमेव भावपर्यायत्वम् । ७ सम्बन्धात् जी- मु० । सम्बन्धा जी - श्रा०, ब०, द० । साधनम् । श्रधिकरणम् । १० पर्याय ११ जीवपुद्गलावीनाम् । १२ व्यञ्जनपर्याय । १३ संख्येया संख्येयानन्तजीवपुद्गलान् प्रति । १४ जीवपुद्गलादेः पराधीनस्वात् । १५ स्वस्य व्यापारवानात्मैव श्रास्रवस्य व्यापारवान् जीयः श्रोत्रवस्य साधनमित्यर्थः । १६ श्रात्मैवासौ मु० | १७ श्रावः । १८ - णानन्तकालः प्रा०, ब०, द०, मु० । १६ विग्रहगतिमापप्रा०, ब० । २० मिथ्याभुतेर्ष्या- प्रा०, ब०, द०, मु० । २१ अक्षान्तिरोर्याऽसूया तु दोषारोपो गुणेष्वपि ।
बन्ध निर्देशः - जीवकर्म प्रदेशान्योन्यसंश्लेषो बन्धः, नामादिर्वा । स जीवस्य तत्र तत्फलदर्शनात् कर्मणश्च तस्य द्विष्ठत्वात् । मिथ्यादर्शनाविरतिप्रमादकषाय योगा बन्धस्य साधनम्, परिणतो वा आत्मा । स्वामिसंबन्धार्हमेव वस्त्वधिकरणं भवति, विवक्षातः कारकप्रवृत्तेः । ३०
Jain Education International
५
For Private & Personal Use Only
१५
www.jainelibrary.org