________________
१५
तदभयो
३८ तत्त्वार्थवार्तिके
[११७ निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥७॥ के पुनरिमे निर्देशादयः ? निर्देशोऽर्थात्मावधारणम् । स्वामित्वमाधिपत्यम् । साधनं कारणम् । अधिकरणं प्रतिष्ठा। स्थितिः कालकृता व्यवस्था । विधानं प्रकारः । 'अधिगमः' इत्यनुवर्तते । एतैरेतेभ्यो वा अधिगमः, 'पूर्ववत्तसिः । केषामधिगमः ? जीवादीनां सम्यग्दर्शनादीनां च । स हि तथा निर्देशः कर्तव्यः ? न कर्तव्यः, अर्थवशाद्विभक्तिपरिणामो भवति । तद्यथा 'उच्चानि देवदत्तस्य गृहाण्यामन्त्रयस्वैनम्' 'देवदत्तम्' इति गम्यते ।
अथ किमर्थमादौ निर्देशः ? उच्यते
अवधृतार्थस्य धर्मविकल्पप्रतिपत्तरादौ निर्देशवचनम् ॥१॥ स्वरूपेणावधृतस्यार्थस्य स्वामित्वादिका धर्मविकल्पप्रतिपत्तिर्भवति, अतोऽस्य निर्देशस्यादौ वचनं क्रियते ।
इतरेषां प्रश्नवंशात् क्रमः।२। इतरेषां स्वामित्वादीनां प्रश्नवशात् क्रमो वेदितव्यः । यद्येवं स एव 'तावदुच्यतां को जीव इति ?
औपशमिकादिभावपर्यायो जोबः पर्यायादेशात् ।३। वक्ष्यमाण औपशमिकादिभावपर्यायो जीव इत्युच्यते पर्यायादेशात् ।
द्रव्यार्थादेशान्नामादिः ।४। द्रव्यार्थादेशान्नामादि:५ 'जीवः' इत्युच्यते । तदुभयसंग्रहः प्रमाणम् ।५। तस्योभयस्य संग्रहः प्रमागनिर्देश इत्युच्यते । कस्य जीवः ?
तत्परिणामस्य, भेदादग्नेरोपण्यवत् ।६। स परिणामो यस्य सोऽयं तत्परिणाम: तस्यासौ' व्यपदिश्यते । कुतः ? कथञ्चिद्भेदात्, परिणामपरिणामिनोभेदकल्पनासद्भावात् अग्नेरौष्ण्यवत् । तद्यथा-औष्ण्यात्मकस्याग्नेः दहनपचनस्वेदनादिक्रियासामर्थ्य मौष्ण्यं भेदेनोच्यते ।
___ व्यवहारनयवशात् सर्वेषाम् ।७। जीवादीनां सर्वेषां पदार्थानां व्यवहारनयवशाज्जीवः स्वामी। किं साधनो जीवः ?
पारिणामिकभावसाधनो निश्चयतः । योऽसौ जीवात्मा पारिणामिकस्तत्साधनो जीवो निश्चयनयेन । तेन हयसावात्मानं० सर्वकालं लभत इति ।
औपशमिकादिभावसाधनश्च व्यवहारतः।९। व्यवहारनयवशात् औपशमिकादिभाव२५ साधनश्चेति व्यपदिश्यते। चशब्देन शुक्रशोणिताहारादिसाधनश्च । किमधिकरणो जीवः ?
स्वप्रदेशाधिकरणो निश्चयतः।१०। योऽसौ स्वप्रदेशोऽसंख्यातस्वरूपः कर्मकृतशरीरपरिमाणानुविधायित्वेऽप्यपरिप्राप्तहीनाधिकभावः, तदधिकरणो जीवः, स्वात्मप्रतिष्ठाकाशवत् ।
व्यवहारतः शरीराद्यधिष्ठानः।११॥ कर्मोपात्तं शरीरम् इतरच्चाधिकरण"मात्मा व्यवहारनयवशादधितिष्ठतीत्युच्यते। किं स्थितिको जीव: ?
स्थितिस्तस्य द्रव्यपर्यायापेक्षाऽनाद्यवसाना समयादिका च ॥१२॥ तस्य जीवस्य स्थितिव्यपर्यायापेक्षा द्विधा कल्प्यते । द्रव्यापेक्षाऽनाद्यवसाना, जीवद्रव्यं हि चैतन्यजीवद्रव्योपयोगाऽसं
१जीवादिस्वरूपनिश्चयः। २ उत्पत्तिनिमित्तमित्यर्थः। ३ प्राधावित्वात, दृश्यन्तेऽज्यतोऽपि इति वा तसिः। ४ तावदुच्यते को प्रा०, ब०, द०, मु०। ५ प्रादिशन्देन स्थापनाद्रव्ये गृहचेते। ६ द्रव्यपर्यायस्य। ७.स्वामीति शेषः -१० टि। जीवः स्वामी तत्प-पा०, ब०, मु०, भा०२। ८ परिणामः, अस्यायं परिणाम इति व्यपविश्यते। अस्य परिणामस्य अयं जीवः स्वामीति व्यपदिश्यत त्यर्थः। ९ अग्नरोडण्यमिति । १० स्वस्वरूपम । ११ स्वर्गादि। शरीरमेतच्चाधि- प्रा०, २०, २०, मु०। १२ शीस्थासादेराधारः इति द्वितीया ।
२०
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org