________________
श६]
प्रथमोऽध्यायः सपक्षासपक्षापेक्षोपलक्षितसत्त्वासत्त्वादिभेदोपचितकधर्मवद्वा ॥१२॥ अथवा, 'सपक्षा'सपक्षापेक्षयोपलक्षितानां सत्त्वासत्त्वादीनां भेदानामाधारेण पक्ष धर्मेणकेन तुल्यं सर्वद्रव्यम् । निरपेक्षयोहर्येकत्र वादिप्रतिवादिप्रयोगापेक्षया संशय उक्तः, इतरथा हि पक्षधर्मेऽपि संशयः कल्प्येत ।
एकस्य हेतोः साधकदूषकत्वाऽविसंवादव द्वा ।१३। अथैवमुपपत्त्याऽविरोधे प्रतिपादितेऽपि ५ मिथ्यादर्शनाभिनिवेशात्तत्त्वं न प्रतिपद्यते यस्तं प्रति सार्वलौकिकहेतुवादमाश्रित्योच्यते-इह स्वपक्षमर्यादानतिक्रमण न्यायधर्ममनुपालयता वादिना अभिप्रेतप्रतिज्ञार्थसिद्धिमाशंसता 'हेत्वनुपदेशे "सर्वाभिलषितार्थसिद्धि: प्रतिज्ञामात्रादेव मा प्रापत्' इत्यतिप्रसङ्गदोष निवृत्तये यो हेतुरुपदिश्यते स साधको दूषकश्च-स्वपक्षं साधयति परपक्षं दूषयति । न तौ साधनदूषणाथों हेतोरन्यौ भवत: । नचानन्यत्वमस्तीति कृत्वा येन साधकस्तेन दूषको येन वा दूषकस्तेन १० साधकः । न तयोः संकरो विरोधो वा । एवं सर्वार्थेषु विरोधदोषमपनुदन्ती विसर्पत्यनेकान्तप्रक्रियेति ।
सर्वप्रवाद्यविप्रतिपत्तेश्च ।१४। नात्र प्रतिवादिनो विसंवदन्ते एकमनेकात्मकमिति । केचित्१० तावदाहुः-'सत्त्वरजस्तमसां साम्यावस्था प्रधानम्' इति । तेषां प्रसादलाघवशोषतापावरणसादनादिभिन्नस्वभावानां प्रधानात्मना मिथश्च न विरोधः । अथ मन्येथाः 'न प्रधानं नामैकं १५ गुणेभ्योऽर्थान्तरभूतमस्ति, किन्तु त एव गुणाः साम्यमापन्नाः प्रधानाख्यां लभन्ते' इति; यद्येवं
भूमा प्रधानस्य स्यात् । स्यादेतत्-तेषां समुदयः प्रधानमेकमिति; अत एवाविरोधः सिद्ध गुणानामवयवानां समुदायस्य च । - अपरे१५ मन्यन्ते-'अनुवृत्तिविनिवृत्तिबुदधभिधानलक्षमः सामान्यविशेषः' इति । तेषां च सामान्यमेव विशेष: "सामान्यविशेषः इत्येकस्यात्मन उभयात्मकं न विरुध्यते। २०
__ अपर५ आहुः-'वर्णादिपरमाणुसमुदयो रूपपरमाणुः' इति । तेषां "कक्खडत्वादिभिन्नलक्षणानां "रूपात्मना "मिथश्च न विरोधः । अथ मतम् 'न परमाणुनर्मिकोऽस्ति बाहयः, किन्तु "विज्ञानमेव तदाकारपरिणतं परमाणुव्यपदेशाहम्' इत्युच्यते; अत्रापि ग्राहक-विषयाभास". संवित्ति'शक्तित्रयाकाराधिकरणस्यैकस्याभ्युपगमान्न विरोधः ।
किञ्च, 'सर्वेषामेव तेषां पूर्वोत्तरकालभाव्यवस्थाविशेषार्पणाभेदादेकस्य कार्यकारण- २५ शक्तिसमन्वयो न विरोधस्यास्पदमित्यविरोधसिद्धिः ।
एवं प्रमाणनयैरधिगतानां जीवादीनां पुनरप्यधिगमोपायान्तरप्रदर्शनार्थमाह
१ महानस। २ महाह्रद। ३ पर्वत । ४ हेतुना । ५ शब्दो नित्य उतानित्य इति। एको बते शब्दो नित्य इति अपरोऽनित्य इति । तयोविप्रतिपत्त्या मध्यस्थस्य पुंसो भवति संशयः-किमयं शब्दो नित्य उतानित्य इति । ६ स्वदर्शनसीमा। ७ अनुमान। हेत्वनपदेशे प्रा०, ब०, २०, भा० १, भा०२। ६ सर्वेषां वादिनाम् । १० सांख्याः। ११ एकेन । प्रधानात्मनां प्रा०, ब०, मु०, २०। १२ बहुत्वम्ता०टि०। १३ वैशेषिकाः। १४ सामान्यविशेषाः पृथिवीत्वावयः प्रपरसामान्यात्मकाः। १५ बौद्धाः। १६ काकवडत्वा- प्रा०, ब०, २०, मु०। कर्कश। पृथ्व्यादीनाम्- ता० टि० । १७ रूपात्मनां प्रा०, ब०, २०, मु०। १८ वर्णादीनाम् । १६ ज्ञान -श्र० । २० प्राकार इत्यर्थः -सम्पा० । प्राभासशब्दः प्रत्येक परिसमाप्यते ग्राहकाकारो विषयाकारश्चेति । २१ संवेदन। २२ वादिना लौकिकानाच । २३ पदार्थस्य । २४ -पःसिदः प्रा०, २०, २०, मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org