________________
तत्त्वार्थवार्तिके
[ १६
छलमात्रमनेकान्त इति चेत्; नः छललक्षणाभावात् |८| स्यान्मतम् -'त देवास्ति तदेव नास्ति तदेव नित्यं तदेवानित्यम्' इति चानेकान्तप्ररूपणं छलमात्र मिति; तन्न; कुतः ? छललक्षणाभावात् । छलस्य हि लक्षणमुक्तम् *" वचनविघातोऽर्थविकल्पोपपत्त्या छलम्" [ न्यायसू० १ २ ।१० ] इति । यथा 'नवकम्बलोऽयम्' इत्यविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पनम् 'नवास्य कम्बला ५ न चत्वार इति, नवो वास्य कम्बलो न पुराणः' इति नवकम्बलः । न तथा अनेकान्तवादः । यत 'उभयनयगुणप्रघानभावापादितापितानपितव्यवहारसिद्धिविशेषबल लाभप्रापितयुक्तिपुष्क
लार्थः अनेकान्तवादः ।
३६
संशयहेतुरिति चेत्; न; विशेषलक्षणोपलब्धेः ॥ ९ ॥ स्यान्मतम् - संशयहेतुरनेकान्तवादः । कथम्? एकत्राधारे विरोधिनोऽनेकस्यासंभवात् । आगमश्चैवं प्रवृत्तः -* एकं द्रव्यमनन्तपर्यायम्" १० [ ] इति । किमागमप्रामाण्यादस्ति वा नास्ति वा नित्यं वा अनित्यं वेति ? तच्च नः कस्मात् ? विशेषलक्षणोपलब्धेः । इह सामान्य प्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च संशयः । तद्यथा स्थाणुपुरुषोचिते देशे नातिप्रकाशान्धकारकलुषायां वेलायामूर्ध्वत्वमात्रं सारूप्यं पश्यतो वक्रकोटर' वयो"निलयनादीन् स्थाणुगतान् विशेषान् 'वस्त्रसंयमन - शिरः कण्डूयन- शिखाबन्धनादीन् पुरुषगतांश्चाऽनुपलभमानस्य तेषां च स्मरतः संशय उत्पद्यते नच तद्वदने१५ कान्तवादे विशेषानुपलब्धिः, यतः स्वरूपाद्यादेशवशीकृता विशेषा उक्ता व्यक्ताः 'प्रत्यक्षमुपलभ्यन्ते । ततो 'विशेषोपलब्धेर्न संशयहेतुः' इति यदगदिष्म तत्सम्यग्निरजैम' ।
२०
एवमपि संशयः । कथम् ? इदं तावदसि प्रष्टव्यः - एषामस्तित्वादीनां धर्माणां साधकाः प्रतिनियता हेतवः सन्ति वा न वा ? यदि न सन्ति विप्रतिपन्नप्रतिपादनासंभवः । अथ सन्ति एकत्र "विरुद्धसाधन हेतु सन्निधाने सति भवितव्यं संशयेनेति ? उच्यते
विरोधाभावात् संशयाभावः |१०| यदि विरोधोऽभविष्यत् " संशयोऽजनिष्यत् । न च विरोधो नयोपनीतानां धर्माणामस्ति । कुतः ?
अर्पणाभेदादविरोधः "पितापुत्रादिसम्बन्धवत् । ११ । उक्तादर्पणाभेदाद् एकत्राऽविरोधेनाबरोषो" धर्माणां पितापुत्रादिसबन्धवत् । तद्यथा - एकस्य देवदत्तस्य जातिकुलरूपसंज्ञाव्यपदेशविशिष्टस्य 'पिता पुत्रो भ्राता भागिनेयः' इत्येवंप्रकाराः संबन्धा जन्यजनकत्वादिशक्त्यर्पणा२५ भेदान्न विरुध्यन्ते । न हयेकापेक्षया पितेति शेषापेक्षयापि पिता भवति, शेषापेक्षया वा पुत्रादिव्यपदेशा इति उक्तापेक्षयापि पुत्रादिव्यपदेशभाक् । न च पितापुत्रादिकृतं संबन्ध बहुत्वं देवदत्तस्यैकत्वेन विरुध्यते । तद्वदस्तित्वादयोऽपि न यान्ति विरोधमेकत्र ।
१ उभयगुण- श्रा०, ब०, द०, मु० । २ धारणाबलोद्भूता श्रतीतार्थविषया तदिति परामर्शनी स्मृति: । तुलना- बैशे० सू० २।२।१७ । ३ र विशेषवयो- श्रा०, ब० द० मु० । ४ पक्षिस्थान । नोड इत्यर्थः -सम्पा० । ५ वस्त्रसंसयन - प्रा०, ब०, द०, मु० । ६ स्मरतेः कर्मणि षष्ठी प्रयोक्तव्येति- द० टि० । ७ स्वपराद्या- श्रा०, ब०, द० मु०, ता० ८ प्रत्यर्थमुप- श्रा०, ब०, ब०, मु० । ६ र वैडम आ०, ब०, द०, मुँ० । १० तावदस्ति प्र- प्रा०, ब०, द०, मु० | ११ स्युर्वा ता०, श्र०, म०, द०, ब०, ज०- । १२ वादि । १३ 'साध्य विपर्ययव्याप्तस्तु विरुद्धः, स यथा शब्दो नित्यः कृतकत्वात् घटवत् । कृतकत्वं हि साध्य नित्यत्वविपरीतानित्यत्वेन व्याप्तं यतो यत्कृतकं तदनित्यमिति, तो विरुद्धं कृतकत्वम्' इत्यभिप्रायो न वाच्योऽत्र किन्तु विरुद्धानां नित्यानित्यत्वादिधर्माणां साधनं स एव हेतुरिति वक्तव्यम्, श्रनित्यः शब्दः कृतकत्वात् घटवत्, नित्यः शब्दः प्रत्यभिज्ञायमानत्वात् व्योमवदिति, अन्यथा हेत्वाभासप्रसङ्गः प्रसज्येत । १४ तिनिमित्तेऽवृत्तौ भूते च लुङ । १५ पितृपुत्राविब०, मु० । १६ स्वीकारः । १७ - त्वादयो न आ०, ब० द०, मु० ।
प्रा०,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org