________________
१६]
प्रथमोऽध्यायः उक्तः प्रकारैरर्पितं घटत्वमघटत्वं च परस्परतो न भिन्नम् । यदि भिद्येत; सामानाधिकरण्येन तबुद्धयभिधानवृत्तिर्न स्याद् घटपटवत् । ततश्चेतरतराविनाभावे उभयोरप्यभावात् तदाश्रयव्यवहारापह्नवः कृतः स्यात् । अतस्तदुभयात्मकोऽसौ क्रमेण तच्छब्दवाच्यतामास्कन्दन् 'स्याद् घटश्चाघटश्च' इत्युच्यते । यदि तदुभयात्मकं वस्तु घट इत्येवोच्येत; इतरात्माऽसंग्रहादतत्त्वमेव स्यात् । अथाघट एवेत्युच्यते; घटात्मानुपादानाद् अनृतमेव स्यात्, न वस्तु ताव- ५ देवेति। नचान्यः शब्दः तदुभयात्मावस्थतत्त्वाभिधायी विद्यते, अतोऽसौ घटो वचनगोचरातीतत्वात् 'स्यादवक्तव्यः' इत्युच्यते । 'घटात्मार्पणामुखेन उक्तावक्तव्यस्वरूपनिरूपणेन चादिश्यमानः स एवार्थ इति ‘स्याद् घटश्चावक्तव्यश्च' । निरूपिताऽघटभङ्गसङ्गेन प्रदर्शितावक्तव्यवर्त्मना चापदेश्यः स एवार्थ इति 'स्यादघटश्चावक्तव्यश्च' । तदुभयाभिधानक्रमाक्रमार्पणावशाद् आविर्भूततद्व्यपदेशः स एवार्थः 'स्याद् घटश्चाघटश्चावक्तव्यश्च भवति ।
एवमियं सप्तभङ्गी जीवादिषु सम्यग्दर्शनादिषु च द्रव्याथिकपर्यायाथिकनयार्पणाभेदाद्योजयितव्या। तत्र 'द्रव्याथैकान्तोऽनिश्चिततत्त्वः "अतत्तदेव' इत्यवधारणाद् उन्मत्तवत् । 'पर्यायार्थंकान्तोऽपि तथैव, 'अतद्वस्तु तदेव' (तद्वस्तु अतदेव)इत्यवधारणादुन्मत्तवत् । स्याद्वादो निश्चितार्थः अपेक्षितयाथातथ्यवस्तुवादित्वात् अनुन्मत्तवचनवत् । अवक्तव्यकान्तोऽप्यसद्वादः, स्ववचनविरोधात् सदा 'मौनवृत्तिकवत् । अमृषार्थः स्यादवक्तव्यवादः वक्तव्यावक्तव्य- १५ वादित्वात् सत्येतरवचनविशेषज्ञवादवत् । ___अनेकान्ते तदभावादव्याप्तिरिति चेत्, न; तत्रापि तदुपपत्तेः ।६। स्यादेतत्-अनेकान्ते सा विधिप्रतिषेधविकल्पना नास्ति । यदि स्यात्, यदा अनेकान्तो न भवति तदैकान्तदोषानुषङ्गो भवेत् अनवस्थाप्रसङ्गश्च । ततस्तत्र अनेकान्तत्वमेव', इति सा सप्तभङ्गी व्याप्तमती न भवतीतिः तन्नः किं कारणम् ? तत्रापि तदुपपत्तेः। स्यादेकान्तः, स्यादनेकान्तः, स्यादुभयः २० स्यादवक्तव्यः, स्यादेकान्तश्चावक्तव्यश्च, स्यादनेकान्तश्चावक्तव्यश्च, स्यादेकान्तश्चानेकान्तश्चावक्तव्यश्चेति । तत्कथमिति चेत् ? उच्यते--
प्रमाणनयार्पणाभेदात् ।। एकान्तो द्विविधः-सम्यगेकान्तो मिथ्र्यकान्त इति । अनेकान्तोऽपि द्विविधः-सम्यगनेकान्तो मिथ्यानेकान्त इति । तत्र सम्यगेकान्तो हेतुविशेषसामर्थ्यापेक्षः प्रमाणप्ररूपिताथै कदेशादेशः । एकात्मावधारणेन अन्याशेषनिराकरणप्रवण प्रणिधि- २५ मिथ्यकान्तः । एकत्र सप्रतिपक्षानेकधर्मस्वरूपनिरूपणो युक्त्यागमाभ्यामविरुद्धः सम्यगनेकान्तः । तदतत्स्वभाववस्तुशून्यं परिकल्पितानेकात्मकं केवलं वाग्विज्ञानं मिथ्याऽनेकान्तः । तत्र सम्यगेकान्तो नय इत्युच्यते । सम्यगनेकान्तः प्रमाणम् । नयार्पणादेकान्तो भवति एकनिश्चयप्रवणत्वात्, प्रमाणार्पणादनेकान्तो भवति अनेकनिश्चयाधिकरणत्वात् । यद्यनेकान्तोऽनेकान्त एव स्यान्नकान्तो भवेत्। एकान्ताभावात् तत्समूहात्मकस्य तस्याप्यभावः स्यात्, शाखा- ३० द्यभावे वृक्षाद्यभाववत् । यदि चैकान्त एव स्यात् तदविनाभाविशेषनिराकरणादात्मलोपे सर्वलोपः स्यात् । एवमुत्तरे च भङ्गा योजयितव्याः ।
१ घटाप-ता० । २ द्रव्याथिककान्तः प्रा०, ब०, द०, मु०। ३ वस्तुनस्तदतत्स्वभावत्वं तदेवेत्यवषतं सन्मत्तप्रलपितमिव भवेत-द० टि०।४ पर्यायाथिका-प्रा० ब०, म०। ५ प्रतदेव-श्र० । ६ यावज्जीवमहं मौनीत्यादिवत स्ववचनविरोषोपपत्तेः। ७अनेकान्तेऽनेकान्तत्वं न व्याप्नोति प्रतस्तत्र सप्तभड़ी व्याप्तिमती न स्यातः तन्न तत्रापि संभवात-40 टि। अनेकान्ते । ९व्यभिचारित्वम् । १० -प्रणीति-भ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org