________________
३४
तत्त्वार्थवार्तिक
[११६ नेतरात्मना । यदि हि कुशूलान्तकपालाद्यात्मनापि घट: स्यात्; घटावस्थायामपि तदुपलब्धिभवेत्, उत्पत्तिविनाशार्थ पुरुषप्रयत्नफलाभावश्चानुषज्येत । अथान्तरालवर्तिपर्यायात्मनाप्यघटः स्यातः घटकृत्यं फलं नोपलभ्येत।
__अथवा, प्रतिक्षणं द्रव्यपरिणामोपचयापचयभेदादर्थान्तरत्वोपपत्तेः ऋजुसूत्रनयापेक्षया ५ प्रत्युत्पन्नघटस्वभावः स्वात्मा, घटपर्याय एवातीतोऽनागतश्च परात्मा । तेन प्रत्युत्पन्नस्व
भावेन सता स घट: नेतरणासता, तथोपलब्ध्यनपलब्धिसद्धावात । इतरथा हि प्रत्यत्पन्नवदतीतानागतात्मनापि घटत्वे एकसमयमात्रमेव सर्व स्यात, अतीतानागतवद्वा प्रत्युत्पन्नाभावे घटाश्रयव्यवहाराभाव आपद्येत विनष्टानत्पन्नघटव्यवहाराभाववत ।
___ अथवा, तस्मिन् प्रत्युत्पन्नविषये रूपादिसमुदये परस्परोपकार तिनि पृथुबुध्नाद्याकारः १० स्वात्मा, इतरः परात्मा। तेन पृथुबुध्नाद्याकारेण स घटोऽस्ति नेतरेण; घटव्यवहारस्य तद्भावे
भावात् तदभावे चाऽभावात् । यदि हि पृथुबुध्नाद्यात्मनापि घटो न स्यात्। स एव न स्यात् । अथेतरात्मनापि घट: स्यात् तदाकारशून्येऽपि घटब्यवहारः प्राप्नुयात् ।। __अथवा, रूपादिसन्निवेशविशेषः संस्थानम् । तत्र 'चक्षुषा घटो गृहयते' इत्यस्मिन् व्यवहारे रूपमुखेन घटो गृहयत इति रूपं स्वात्मा, रसादिः परात्मा । स घटो रूपेणास्ति नेतरेण रसादिना प्रतिनियतकरणग्राहयत्वात् । अथ हि 'चक्षुषा घटो गृहयते' इत्यत्र रसादिरपि घट इति गृहयेतः सर्वेषां रूपत्वप्रसङ्गः, ततश्च करणान्तरकल्पनाऽनर्थिका। यदि वा रसादिवद्रूपमपि घट इति न गृहयेतः चक्षुर्विषयताऽस्य न स्यात् ।।
अथवा, शब्दभेदे ध्र वोऽर्थभेद इति घटकुटादिशब्दानामप्यर्थभेद:-घटनाद् घटः कौटिल्यात् कुट इति तत्क्रियापरिणतिलक्षण एव तस्य शब्दस्य वृत्तियुक्ता। तत्र घटनक्रिया२० विषयकर्तृभावः स्वात्मा, इतरः परमात्मा। तत्राद्येन घटः नेतरण, तथार्थसम भिरोहणात् ।
यदि च घटनक्रियापरणतिमुखेनाप्यघट: स्यात् तद्व्यवहारनिवृत्तिः स्यात् । यदि वा 'इतरव्यपेक्षयापि घटः स्यात्, पटादिष्वपि तक्रियाविरहितेषु तच्छब्दवृत्तिः स्यात्, एकशब्दबाच्यत्वं वा वस्तुनः ।
अथवा, घटशब्दप्रयोगानन्तरमुत्पद्यमान उपयोगाकारः स्वात्मा अहेयत्वादन्तरङ्ग२५ त्वाच्च । बायो घटाकारः परात्मा तदभावेऽपि घटव्यवहारदर्शनात् । स घट उपयोगा* कारेणास्ति नान्येन । यदि हि उपयोगाकारात्मनाऽप्यघटः स्यात्; वक्तृश्रोतृहेतुफलभूतोप
योगघटाकाराभावात् तदधीनो व्यवहारो विनाशमाप्नुयात् । इतरोऽसन्निहितोऽपि यदि घट: स्यात् पटादीनामपि स्याद् घटत्वप्रसङ्गः ।
अथवा, चैतन्यशक्तावाकारी ज्ञानाकारो ज्ञेयाकारश्च । अनुपयुक्तप्रतिबिम्बाकारा३० दर्शतलवत् ज्ञानाकारः, प्रतिबिम्बाकारपरिणतादर्शतलवत् ज्ञेयाकारः । तत्र ज्ञेयाकारः स्वा
त्मा, तन्मूलत्वाद् घटव्यवहारस्य। ज्ञानाकारः परात्मा, सर्वसाधारणत्वात् । स घटो ज्ञेयाकारेणास्ति नान्यथा। यदि ज्ञेयाकारणाप्यघट: स्यात्; तदाश्रयेतिकर्तव्यतानिरासः स्यात् । अथ हि ज्ञानाकारेणापि घट: स्यात्, पटादि ज्ञानाकारकालेऽपि तत्सन्निधानाद् घटव्यहारवृत्तिः प्रसज्येत।
१-त् तदुत्प-मु०, ता० । २ प्रापद्यते मु०, प्रा०, ब०, द०। ३ -वतिपथ-श्र० । ४-वेभामु०, प्रा०, ब०, २०। ५-तिक्षण प्रा०, २०, २०, मु०। ६ -समीपरो -श्र०। ७ चेतर-मु०, प्रा०, ब०,०।८-ज्ञानकालेऽपि प्रा०,०, २०. मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org