________________
१६]
प्रथमोऽध्यायः
प्रमाणनयैराधिगमः ॥६॥ प्रमाणे च नयाश्च प्रमाणनयाः, तैरधिगमो भवति सम्यग्दर्शनादीनां जीवादीनाम् । प्रमाणनया वक्ष्यमाणलक्षणाः । ननु च नयशब्दस्या ल्पान्तरत्वात् पूर्वनिपातेन भवितव्यम् ?
अभ्यहितत्वात् प्रमाणशब्दस्य पूर्वनिपातः ॥१॥ *"अभ्यहितं पूर्वम् निपतति" [पात. महा० २।२।३४] इति प्रमाणशब्दस्य पूर्वनिपातो वेदितव्यः । कथमभ्यहितत्वम् ?
प्रमाणप्रकाशितेष्वर्थेषु नयप्रवृत्तर्व्यवहारहेतुत्वादभ्यर्हः ॥२॥ यतः प्रमाणप्रकाशितेष्वर्थेषु नयप्रवृत्तिर्व्यवहारहेतुर्भवति नान्येषु अतोऽस्याभ्यहितत्वम् ।।
समुदायाऽवयवविषयत्वाद्वा ।। अथवा, समुदायविषयं प्रमाणम् अवयवविषया नया इति प्रमाणस्याभ्यहितत्वम् । तथा चोक्तम्- "सकलादेशः प्रमाणाधीनो विकलादेशो नयाधीनः" [ ] इति ।
अधिगमहेतुद्विविधः ।।। [अधिगमहेतुद्विविधः] स्वाधिगमहेतुः, पराधिगमहेतुश्च । स्वाधिगमहेतुञ्जनात्मकः प्रमाणनयविकल्पः, पराधिगमहेतुर्वचनात्मकः । तेन श्रुताख्येन प्रमाणेन स्याद्वादनयसंस्कृतेन प्रतिपर्यायं सप्तभङ्गीमन्तो जीवादयः पदार्था अधिगमयितव्याः ।
अत्राह-केयं सप्तभङ्गी इति ? अत्रोच्यते
प्रश्नवशादेकस्मिन् वस्तुन्यविरोधेन विधिप्रतिषेधविकल्पना सप्तभङगी।५। एकस्मिन् १५ वस्तुनि' प्रश्नवशाद् दृष्टेनेष्टेन च प्रमाणेनाऽविरुद्धा विधिप्रतिषेधविकल्पना' सप्तभङ्गी विज्ञेया। तद्यथा-स्याद् घटः, स्यादघटः, स्याद् घटश्चाऽघटश्च, स्यादवक्तव्यः, स्याद् घटश्चाऽवक्तव्यश्च, स्यादघटश्चावक्तव्यश्च, स्याद् घटश्चाऽघटश्चाऽवक्तव्यश्चेति अर्पितानर्पितनयसिद्धनिरूपयितव्या ।
तत्र स्वात्मना स्याद् घटः, परात्मना स्यादघटः । को वा घटस्य स्वात्मा को वा २० परात्मा ? घटबुद्ध यभिधानप्रवृत्तिलिङ्गः स्वात्मा, यत्र तयोरप्रवृत्तिः स परात्मा पटादिः । स्वपरात्मोपादानापोहनव्यवस्थापाद्यं हि वस्तुनो वस्तुत्वम् । यदि स्वस्मिन् पटाद्यात्मव्यावृत्तिविपरणतिर्न स्यात् सर्वात्मना घट इति व्यपदिश्यत । अथ परात्मना व्यावृत्तावपि स्वात्मोपादानविपरणतिर्न स्यात् खरविषाणवदवस्त्वेव स्यात् ।
अथवा, नामस्थापनाद्र व्यभावेषु यो विवक्षितः स स्वात्मा, इतरः परात्मा। तत्र २५ विवक्षितात्मना घटः, नेतरात्मना। यदीतरात्मनापि घट: स्यात् विवक्षितात्मना वाऽघटः; नामादिव्यवहारोच्छेदः स्यात् ।
__ अथवा, तत्र विवक्षितघटशब्दवाच्यसादृश्यसामान्यसंबन्धिषु कस्मिंश्चिद् घटविशेषे परिगृहीते प्रतिनियतो यः संस्थानादिः स स्वात्मा, इतरः परात्मा। तत्र प्रतिनियतेन रूपेण घटः नेतरेण । यदीतरात्मकः स्यात्, एकघटमात्रप्रसङ्गः । ततः सामान्याश्रयो व्यवहारो ३० विनश्येत् ।
अथवा, तस्मिन्नेव घटविशेषे कालान्तरावस्थायिनि पूर्वोत्तरकुशलान्तकपालाद्यवस्थाकलापः परात्मा, तदन्तरालवर्ती स्वात्मा। स तेनैव घट: तत्कर्मगुणव्यपदेशदर्शनात्,
१-ल्पाक्षर- मु०। २ -नि अविरोधेन प्र-पा०, ब०, ८०, मु०। ३ -धकल्पना प्रा०, ब०, ६०. मु०, ता०। ४ परात्मव्याव-श्र० ।
-
---
-
-------
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org