________________
३२ तत्त्वार्थवार्तिके
[१०५ 'ग्राम्यं 'पांशुलपादकमप्रकरणज्ञमागतं ब्रवीतु-'गोपालकमानय कटेजकमानय' इति, 'उभयगतिस्तस्य भविष्यति । किञ्च,
___ अनेकान्तात् ।३०। नायमेकान्तः कृत्रिममेवेदं न कृत्रिममेवेति । किं तहि ? अनेकान्तः । 'नाम सामान्यापेक्षया स्यादकृत्रिमं विशेषापेक्षया कृत्रिमम् । एवं स्थापनादयश्चेति । ५ ततः किम् ? *"कृत्रिमाकृत्रिमयोः कृत्रिम संप्रत्ययः' इत्यस्याभावः । किञ्च,
नयद्वयविषयत्वात् ।३१॥ द्वौ नयौ द्रव्याथिकः पर्यायाथिकश्च, तयोविषयो नामादिन्यासः । तत्र नामस्थापनाद्रव्याणि 'प्राच्यस्य, सामान्यात्मकत्वात् । पाश्चात्य स्य भावः, परिणतिप्रधानत्वात् । ततः किम् ? *"गोणमुख्ययोमुख्य संप्रत्ययः" "कृत्रिमाकृत्रिमयोः कृत्रिम संप्रत्ययः" इति च न भवति । प्रतिविषयं नयभेदात् ।
द्रव्याथिकपर्यायाथिकान्तर्भावानामादीनां तयोश्च नयशब्दाभिधेयत्वात् पौनरुक्त्यप्रसङगः ॥३२॥ यतो नामस्थापनाद्रव्याणि द्रव्याथिकस्य, भावः पर्यायार्थिकस्येत्युक्तम्, ततो नामादीनां नयान्तर्भावात्, नयविकल्पानां च वक्ष्यमाणत्वात् पौनरुक्त्यं प्राप्नोति ।
नवा; विनेयमतिभेदाधीनत्वाद् द्वयादिनविकल्पनिरूपणस्य ।३३। न वा एष दोषः । किं कारणम् ? विनेयमतिभेदाधीनत्वाद् द्वयादिनयविकल्पनिरूपणस्य । ये सुमेधसो विने१५ यास्तेषां द्वाभ्यामेव द्रव्यार्थिकपर्यायार्थिकाभ्यां सर्वनयवक्तव्यार्थप्रतिपत्ति: तदन्तर्भावात् ।
ये त्वतो मन्दमेधसः तेषां त्र्यादिनयविकल्पनिरूपणम् । अतो विशेषोपपत्ते मादीनामपुनरुक्तत्वम् । __तच्छब्दाऽग्रहणं प्रकृतत्वात् ।३४। सम्यग्दर्शनादित्रयस्य प्रकृतत्वादेव नामादिन्यासाभि'संबन्धः । ततस्तच्छब्दस्य ग्रहणमनर्थकम् ।।
प्रत्यासन्नत्वाज्जीवादिषु प्रसङग इति चेत्, न; सम्यग्दर्शनविषयत्वात् ।३५। स्यादेतत्तच्छब्दाद् विना प्रत्यासन्ना जीवादयस्तेषामेव न्यासाभिसंबन्धो भवेत् न सम्यग्दर्शनादीनाम् । कुतः ? *"अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" [पात० महा० १।२।४७] इति; तन्न; किं कारणम् ? सम्यग्दर्शनविषयत्वात् । सम्यग्दर्शनादित्रयस्य प्राधान्येनोपदेशः
तदर्थत्वाच्छास्त्रारम्भस्य, सम्यग्दर्शनादिविषयत्वेन तु जीवादीनां गुणभूतत्वेनोपदेशः । २५ अतस्तच्छब्दादृतेऽपि सम्यग्दर्शनादित्रयस्य प्राधान्यात् नामादिन्यासेनाभिसंबन्धो युक्तः ।
विशेषातिदिष्टत्वाच्च ।३६। जीवादयः सम्यग्दर्शनविषयत्वेन विशेषेणातिदिष्टाः प्रकृतं सम्यग्दर्शनादित्रयं न बाधिष्यन्ते *"विशेषातिदिष्टाः प्रकृतं न बाधन्ते" [ ] इति ।
सर्वभावाधिगमार्थ तु।३७। सर्वेषां भावानां जीवाजीवादीनामप्रधानानां प्रधानानां च सम्यग्दर्शनादीनाम् अधिगमार्थ तहि तच्छब्दग्रहणम् । इतरथा हि प्रधानाभिसंबन्ध ३० एव स्यात् ।
एवमजीवादिषु ज्ञानचारित्रयोश्च नामादिन्यासविकल्पो योजयितव्यः ।
अधिकृतानामेव सम्यग्दर्शनादिजीवादीनां पदार्थानाम् अभिधानाभिधेयसंव्यवहाराऽव्यभिचाराय नामादिभिनिक्षिप्तानां तत्त्वाधिगमहेतुर्वक्तव्य इति । अत आह
१ भाभ्यन् श्र०। २ प्राघूर्णकमित्यर्थः । पांशलख रपाद- प्रा०, ब०, द०, मु०। पांशुखुरपाभा०२। ३ गोपालकस्य गोपालयितुश्च परिज्ञानम । ४ अनाविसम्बन्ध इन्द्र इति। ५ द्रव्याथिकस्य । ६ द्रव्याथिकपर्यायाथिकशब्द । ७-सम्बन्धस्तच्छ-प्रा०, ब०, २०, मु०, ता० । ८-थं तच्छ- ता०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org