________________
११५]
प्रथमोऽध्यायः तथा द्रव्यं स्याद्भावः, भावद्रव्यार्थादेशात् न भावपर्यायार्थादेशाद् द्रव्यम्। भावस्तु द्रव्यं स्यान्न वा, उभयथा दर्शनात् । किञ्च, __अतस्तत्सिद्धः।२४१.यत एव नामादिचतुष्टयस्य विरोधं भवानाचष्टे अत एव नाभावः । कथम् ? इह योऽयं सहानवस्थानलक्षणो विरोधो वध्यघातकवत् स सतामर्थानां भवति नाऽसतां काकोलूक-छायातपवत्, न काकदन्त-खरविषाणयोविरोधोऽसत्त्वात् । किञ्च,
नामाधात्मकत्वाऽनात्मकत्वे विरोधस्याऽविरोधकत्वात् ।२५। यो नामादिचतुष्टयस्य विरोधः स नामाद्यात्मको वा स्यात्, न वा ? उभयथा च विरोधाभावः । यदि नामाद्यात्मकः; नासो विरोधको नामाद्यात्मवत् । अथ तदात्मकोऽपि विरोधो नामादीनां विरोधकः; नामाद्यात्मापि विरोधकः स्यात्, ततो नामादीनामभावाद्विरोध एव न स्यात् । अथ न नामाद्यात्मकः; एवमपि नामादीनां नासौ विरोधकोऽर्थान्तरत्वात् । 'अथ अर्थान्तरभावेऽपि विरोध- १० कत्वमिष्यतेः सवे षां पदार्थानां परस्परतो नित्यं विरोधः स्यात् । न चासावस्तीति । अतो विरोधाभावः। ___ताद्गुण्याद् भावस्य प्रामाण्यमिति चेत् नः इतरव्यवहारनिवृत्तः ।२६। स्यादेतत्-ताद्गुण्याद् भाव एव प्रमाणं न नामादिः । स जीवनादिर्गुणो यस्य स तद्गुणः, तस्य भावस्ताद्गुण्यम्, अतो भाव एव प्रमाणं न नामादिः, ताद्गुण्याभावादिति; तन्नः किं कारणम् ? इतरव्यवहार- १५ निवृत्तेः । एवं हि सति नामाद्याश्रयो व्यवहारो निवर्तेत । स चास्तीति । अतो न भावस्यैव प्रामाण्यम् ।
उपचारादिति चेत्, न; तद्गुणाभावात्।२७। स्यादेतत्-यद्यपि भावस्यैव प्रामाण्यं तथापि" नामादिव्यवहारो न निवर्तते। कुतः ? उपचारात्, माणवके सिंहशब्दव्यवहारवदिति । तन्न; कि कारणम् ? तद्गुणाभावात् । युज्यते माणवके सिंहशब्दव्यवहारः क्रौर्यशौर्यादिगुणैकदेश- २० योगात्, इह तु नामादिषु जीवनादिगुणैकदेशो न कश्चिदप्यस्तीत्युपचाराभावाद् व्यवहारनिवृत्तिः स्यादेव ।
___ मुख्यसंप्रत्ययप्रसङगाच्च ।२८। यधुपचारान्नामादिव्यवहारः स्यात्, "गौणमुल्ययोमुख्य संप्रत्ययः" [पात० महा० ८।३।८२] इति मुख्यस्यैव संप्रत्ययः स्यान्न नामादीनाम् । यतस्त्वर्थप्रकरणादिविशेषलिङगाभावे सर्वत्र संप्रत्ययः 'अविशिष्टः कृतसंगतेर्भवति, अतो न २५ नामादिषूपचाराद् व्यवहारः ।। ___ *"कृत्रिमाकृत्रिमयोः कृत्रिमे संप्रत्ययो भवति" [पात० महा० १।१।२२] इति चेत् न, उभयगतिदर्शनात् ।२९। स्यादेतत्-कृत्रिमाकृत्रिमयोः कृत्रिमे संप्रत्ययो भवतीति लोके । तद्यथा 'गोपालकमानय कटेजकमानय' इति, यस्यैषा संज्ञा भवति स आनीयते, न यो गा: पालयति यो वा कटे जातः । एवमिहापि यस्यैषा 'जीवादिः' इति संज्ञा कृता तस्यैव संप्रत्ययः ३० स्यान्नेतरेषामिति; तन्न; किं कारणम् ? उभयगतिदर्शनात् । लोके यर्थात् प्रकरणाद्वा कृत्रिमे संप्रत्ययः स्यात् अर्थो वाऽस्यवंसंज्ञकेन भवति, प्रकृतं वा तत्र भवति 'इदमेवसंज्ञकेन कर्तव्यम्' इति, अर्थात् प्रकरणाद्वा लोके संप्रत्ययो भवति । अङ्ग हि भवान्,
१ भावस्यं द्रव्यं भावद्रव्यं तदेवार्थः तस्यादेशस्तस्मात् । २ 'द्रव्यम्' इति पदघमिकं भाति -सम्पा०। ३ विरोषः-ता०टि०। ४-कवच्च सता-प्रा०, बु०, ब०, मु०, ता०, श्र० । ५-लूकबच्छाया-मु०, प्रा०,०। ६ अर्था- प्रा०,०,०, म०, ता०। ७ तथा ना- ता०, ०। ८ विशेषरहितः । ६ प्रतश्चा-ता०, प्रा०,२०, २०, मु०। १० प्रगति प्रियस्वामान्त्रणे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org