________________
तत्त्वार्थवार्तिके
[११५ द्रव्यस्यादौ वचनं न्याय्यं तत्पूर्वकत्वान्नामादीनाम् ।१४। द्रव्यस्यादौ वचनं न्याय्यम् । कुतः ? तत्पूर्वकत्वान्नामादीनाम् । सतो हि संज्ञिनो नामादिभिर्भवितव्यमिति; नैष दोषः; ___संव्यवहारहेतुत्वात् संज्ञायाः पूर्ववचनम् ।१५। संव्यवहारहेतुत्वात् संज्ञायाः पूर्ववचनं क्रियते । सर्वो हि लोकसंव्यवहारः संज्ञापूर्वकः तदात्मकत्वात्, तदनात्मकत्वे वस्तुव्यवहार१ विच्छेदः । तदात्मकत्वाच्च स्तुतिनिन्दयो रागद्वेषप्रवृत्तिः सिद्धा।
ततः स्थापनावचनम्, आहितनामकस्य स्थापनोपपत्तेः।१६। ततः परं स्थापना विधीयते । कुतः ? आहितनामकस्य स्थापनोपपत्तेः । आहितनामकस्य 'सोऽयम्' इति किञ्चित् प्रतिनिधीयते ।
द्रव्यभावयोः 'पूर्वपरन्यासः पूर्वोत्तरकालवृत्तित्वात् ॥१७॥ द्रव्यभावयोः पूर्वपरन्यासः १० क्रियते । किं कारणम् ? पूर्वोत्तरकालवृत्तित्वात् । पूर्वकालविषयं हि द्रव्यम् । उत्तरकालभावी भाव इति ।
तत्त्वप्रत्यासत्तिप्रकर्षाऽप्रकर्षभेदाद्वा तत्क्रमः।१८। अथवा, तत्त्वप्रत्यासत्तेः प्रकर्षाप्रकर्षभेदात्तेषां नामादीनामुद्दिष्टः क्रमो वेदितव्यः । तत्त्वं भावः प्रधानम्, तदर्थानीतराणि, तत्र
प्रत्यासत्तेस्तत्समीपे द्रव्यं प्रयुक्तं तद्भावापतेः । ततः पूर्व स्थापनोपादानम्, अतद्भावेपि तद्भावं १५ प्रति प्रधानहेतुत्वात् । ततः पूर्व नामोपादानम् भावं प्रति विप्रकृष्टत्वात्।
नामादिचतुष्टयाभावो विरोधात् ।१९। अत्राह-नामादिचतुष्टयस्याभावः । कुतः ? विरोधात । एकस्य शब्दार्थस्य नामादिचतुष्टयं विरुध्यते । यथा नामक नामव, न स्थापना। अथ नाम स्थापना इष्यते न नामेदं नाम । स्थापना तहिः न चेयं स्थापना, नामेदम । अतोनामार्थ एको विरोधान्न स्थापना । तथैकस्य जीवादेरर्थस्य सम्यग्दर्शनादेर्वा विरोधान्नामाद्यभाव इति ।
न वा; सर्वेषां संव्यवहारं प्रत्यविरोधात् ।२०। न वैष दोषः। किं कारणम् ? सर्वेषाम् संव्यवहारं प्रत्यविरोधात् । लोके हि सर्वैर्नामादिभिर्दृष्ट: संव्यवहारः । इन्द्रो देवदत्तः इति नाम । प्रतिमादिषु चेन्द्र इति स्थापना। इन्द्रार्थे च काष्ठे द्रव्ये इन्द्रसंव्यवहारः 'इन्द्र आनीतः' इति वचनात् । अनागतपरिणामे चार्थे द्रव्यसंव्यवहारो लोके दृष्ट:- "द्रव्यमयं माणवकः,
आचार्यः श्रेष्ठी वैयाकरणो राजा वा भविष्यतीति व्यवहारदर्शनात् । शचीपतौ च भावे इन्द्र २५ इति । न च विरोधः । किञ्च,
अभिहितानवबोधात् ।२१। 'यथा नामक नामवेष्यते न स्थापना' इत्याचक्षाणेन त्वया अभिहितानवबोधः प्रकटीक्रियते । यतो नैवमाचक्ष्महे-'नामैव स्थापना' इति, किन्तु एकस्यार्थस्य नामस्थापनाद्रव्यभावासः इत्याचक्ष्महे ।
अनेकान्ताच्च ।२२।. नैतदेकान्तेन 'प्रतिजानीमहे-नामैव स्थापना भवतीति न वा, ३० स्थापना वा नाम भवति नेति च । कथम् ?
मनुष्यवाह मणवत् ।२३। यथा बाह्मणः स्यान्मनुष्यो ब्राह्मणस्य मनुष्यजात्यात्मकत्वात् । मनुष्यस्तु ब्राह्मणः स्यान्न वा,मनुष्यस्य ब्राह्मणजात्यादिपर्यायात्मकत्वादर्शनात् । तथा स्थापनास्यान्नाम, अकृतनाम्नः स्थापनानुपपत्तेः । नाम तु स्थापना स्यान्न वा, उभयथा दर्शनात् ।
१ पूर्वापर- प्रा०, ब०, मु०। २ -यं - श्र०। ३ भाव । ४ प्रतिद्रत्वात् । ५ यतो ब०। ६ वार्थे प्रा०, ब०, मू०, मु०। ७ योग्योऽयं बालः -सम्पा०। ८ अज्ञत्वम्। ६ प्रतिज्ञा कुर्महे। १० -नाच्च तथा प्रा०, २०, २०, म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org