________________
१।५] प्रथमोऽध्यायः
___ २६ प्रति गृहीताभिमुख्यमिति । कुतः ? सदा तत्परिणामात् । यदि न स्यात् प्रागजीवः प्राप्नोति । नैष दोषः; मनुष्यजीवादिविशेषापेक्षया स व्यपदेशो वेदितव्यः ।
तद्विविधम्-आगम-नोआगमभेदात् ५। तदेतद् द्रव्यं द्विविधम् । कुतः ?आगम-नोआगमभेदात् । आगमद्रव्यजीवः नोआगमद्रव्यजीवः, आगमद्रव्यसम्यग्दर्शनं नोआगमद्रव्यसम्यग्दर्शनमिति च।
अनुपयुक्तः प्राभृतज्ञाय्यात्मा आगमः ।६। अनुपयुक्तः प्राभृतज्ञायी' आत्मा आगमद्रव्यमित्युच्यते ।
इतरत् त्रिविधम्-ज्ञायकशरीर-भावि-तद्व्यतिरिक्तभेदात् ।७। इतरन्नोआगमद्रव्यं त्रैविध्यमास्कन्दति । कुतः ? ज्ञायकशरीर-भावि-तद्वयतिरिक्तभेदात् । ज्ञातुर्यच्छरीरं त्रिकालगोचरं तज्ज्ञायकशरीरम् । 'जीवन-सम्यग्दर्शनपरिणामप्राप्ति प्रत्यभिमुखं द्रव्यं भावीत्युच्यते। १० तद्वयतिरिक्तं कर्म-नोकर्मविकल्पम् ।
वर्तमानतत्पर्यायोपलक्षितं द्रव्यं भावः ।८। वर्तमानेन तेन जीवन-सम्यग्दर्शनपर्यायेणोपलक्षितं द्रव्यं भावजीवो भावसम्यग्दर्शनमिति चोच्यते । यथा इन्द्रनामकर्मोदयापादितेन्दनक्रियापर्यायपरिणत आत्मा भावेन्द्रः ।
स द्विविधः पूर्ववत् ।९। स एष भावो द्विविधो वेदितव्यः पूर्ववत् आगम-नोआगमभेदात् । १५
तत्प्राभतविषयोपयोगाविष्ट आत्मा आगमः ॥१०॥ जीवादिप्राभृतविषयेणोपयोगेनाविष्ट आत्मा आगमतो 'भावजीवो भावसम्यग्दर्शनमिति चोच्यते ।
जीवनादिपर्यायाविष्टोऽन्यः ॥११॥ जीवनादिपर्यायेणाऽऽविष्ट आत्माऽन्यो नोआगमतो भाव इत्युच्यते ।
नामस्थापनयोरेकत्वं संज्ञाकर्माऽविशेषादिति चेत्; न; आदरानुग्रहाकाङक्षित्वात् स्थापना- २० याम् ।१२। स्यान्मतम्-नामस्थापनयोरेकत्वम् । कुतः ? संज्ञाकर्माविशेषात् । यतो नाम्नि स्थापनायां च संज्ञाकरणं समानम्, न यकृते नाम्नि स्थाप्यत इति । तच्च न; कुतः ? आदरानुग्रहाकाङक्षित्वात् स्थापनायाम् । यथा अर्हदिन्द्रस्कन्देश्वरादिप्रतिमासु आदरानुग्रहाकाङक्षित्वं जनस्य, न तथा परिभाषिते वर्तते। ततोऽन्यत्वमनयोः ।
द्रव्यभावयोरेकत्वम् अव्यतिरेकादिति चेत्, न; कथञ्चित् संज्ञास्वालक्षण्यादिभेदात् तद्भ- २५ वसिद्धेः॥१३॥ स्यादारेका-द्रव्यभावयोस्तो कत्वं प्रसज्यते । कुतः ? तदव्यतिरेकात् । नहि द्रव्यव्यतिरेकेण भाव उपलभ्यते भावव्यतिरेकेण वा द्रव्यम्, अतोऽनयोरेकत्वमिति । तच्च न; कुतः ? संज्ञास्वालक्षण्यादिभेदात् तद्भेदसिद्धेः । इह ययोः संज्ञास्वालक्षण्यादिकृतो भेदः तयोनानात्वमुपलभ्यते तथा द्रव्यभावयोरपीति । कश्चिदाह
१ तत्परिणामो यदि प्रा०, ब०, द०, म०। २ -ज्ञाय्यागम-प्रा०, ब०, द०, मु०। ज्ञातुः शरीरं त्रिधा- भूत-वर्तमान-भविष्यभेदात् । भूतमपि त्रिधा च्युतं च्यावितं त्यक्तञ्चेति । पक्वफलमिव स्वयमेव अायुषः क्षयण पतितं च्युतम् । कदलीपातेन पतितं च्यावितम्। त्यक्तं पुनस्त्रिधा-भक्तप्रत्याख्यान-इङगिनी-प्रायोपगमनमरणः। ४ अनागत। ५ प्रत्यनभिम-ता०। ६...द्विविधं कर्मनोकर्मभेदेन, जीवाविप्राभतविषयेणोययोगेन परिणतजीवनाजिततीर्थकारादिशुभप्रकृतिस्वरूपं कर्म नोग्रागमद्रव्यकर्म। एवं नोकर्म-नोआगमद्रव्यनोकर्म-शरीरोपोचयापचयनिमित्तपुदगलद्रव्यस्यानकरूपत्वात । ७ तेन तेन जी- प्रा०, ब०, ८०, मु०। ८ प्रागमभावजीव इत्यर्थः, स्थानिप्यकर्माधारे इत्यपादानम् । ६ भविष्यत्परिणामाभिमुखम् अतीतपरिणामं वा वस्तु द्रव्यम, वर्तमानपर्यायोपलक्षितं द्रव्यं भाव इति स्वाललण्याद् भेदः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org