________________
[११५
तत्त्वार्थवार्तिके न वा, अव्यतिरेकात् तद्भावसिद्धेः ।३०। न वा एष दोषः । किं कारणम् ? अव्यतिरेकात्तद्भावसिद्धेः । न हि द्रव्याद् व्यतिरिक्तो भावोऽस्ति अतस्तद्भावेनाऽध्यारोप्यते यथा 'ज्ञानमेवात्मा' इति । यदि तद्भावोऽध्यारोप्यते तल्लिङ्गसंख्यानुवृत्तिः प्राप्नोति ?
तल्लिङ्गसंख्यानुवृत्तौ चोक्तम् ।३१। किमुक्तम् ? 'न, उपात्तव्यक्तिवचनत्वात्' इति । इति तत्त्वार्थवार्तिके व्याख्यानालङकारे प्रथमेऽध्याये चतुर्थमाह्निकम् ॥४॥
एवं संज्ञास्वालक्षण्यादिभिरुद्दिष्टानां जीवादीनां संव्यवहारविशेषव्यभिचारनिवृत्त्यर्थमाह
नामस्थापनाद्रव्यभावतस्तन्न्यासः ॥५॥ नीयते गम्यतेऽनेनार्थः, नमति वाऽर्थमभिमुखीकरोतीति नाम । स्थाप्यते प्रतिनिधीयतेऽसाविति स्थापना । द्रोष्यते गम्यते गुणैः,द्रोष्यति गमिष्यति गुणानिति वा द्रव्यम् । भवनं १० भवतीति वा भावः । नामादीनामितरेतरयोगलक्षणो द्वन्द्वः । नामस्थापनाद्रव्यभावैर्नामस्थापना
द्रव्यभावतः। *"आधादित्वात्' [जैने० वा० ४।२।४९] "दृश्यन्तेऽन्यतोऽपि' [जैने० ४।१।७९] इति वा तसिः। न्यसनं न्यस्यत इति वा न्यासो निक्षेप इत्यर्थः । तेषां न्यासस्तन्न्यासः । एतेषां नामादीनां किं लक्षणमिति ? अत्रोच्यते
निमित्तान्तरानपेक्षं संज्ञाकर्म नाम ।१॥ निमित्ता'दन्यन्निमित्तं निमित्तान्तरम्, तदन१५ पेक्ष्य क्रियमाणा संज्ञा नामेत्युच्यते । यथा परमैश्वर्यलक्षणेन्दनक्रियानिमित्तान्तरानपेक्षं कस्य
चित् 'इन्द्रः' इति नाम । तथा जीवनक्रियानपेक्षं श्रद्धानक्रियानपेक्षं वा कस्यचित् 'जीवः सम्यग्दर्शनम्' इति वा नाम ।
सोऽयमित्यभिसंबन्धत्वेन अन्यस्य व्यवस्थापनामात्रं स्थापना ।२। यथा परमैश्वर्यलक्षणो यः शचीपतिरिन्द्रः, 'सोऽयम्' इत्यन्यवस्तु प्रतिनिधीयमानं स्थापना भवति । एवं जीव इति २० वा सम्यग्दर्शनम्" इति वा अक्षनिक्षेपादिषु 'सोऽयम्' इति व्यावस्थापनामात्र स्थापना ।
अनागतपरिणामविशेषं प्रति गृहीताभिमुख्यं द्रव्यम् ।३। यद् भाविपरिणामप्राप्तिं प्रति योग्यतामादधानं तद् द्रव्यमित्युच्यते ।
अतद्धावं वा ।४। अथवा, अतद्भावं वा द्रव्यमित्युच्यते । यथेन्द्रार्थमानीतं काष्ठमिन्द्रप्रतिमापर्यायप्राप्ति प्रत्यभिमुखम् 'इन्द्रः' इत्युच्यते, तथा जीव-सम्यग्दर्शनपर्यायप्राप्ति प्रति २५ गृहीताभिमुख्यं द्रव्यं द्रव्यजीवो द्रव्यसम्यग्दर्शनमिति चोच्यते । युक्तं तावत् सम्यग्दर्शनप्राप्ति
प्रति गृहीताभिमुख्यमिति, अतत्परिणामस्य जीवस्य संभवात्, इदं त्वयुक्तम्-जीवनपर्यायप्राप्ति
१ अभेदात्। २ नवा न दोषः ता०। ३ विशेषणविशेष्यसम्बन्धे सत्यपि शब्दशक्तिव्यपेक्षया उपात्तलिङगसख्याव्यतिक्रमो न भवतीत्यर्थः। ४ अप्रकृतनिराकरणाय प्रकृतनिरूपणाय च निक्षेपविधिना शब्दार्थः प्रस्तोयंत इत्यर्थः। ५-ना गम्यते प्रा०, ब०, २०, म०, म०। ६ सम्यग्दर्शनादीनां जीवादीनाञ्च । ७-दन्यनिमित्तान्त-प्रा०, ब०, द०, मु०। ८ जातिद्रव्य त्रियागणाः निमित्तम्, ताननपेक्ष्य। द्रव्य द्विविधम विषाणादिक समवायिद्रव्यम, घण्टादिक संयोगिद्रव्यम् । --नमित्यक्ष-प्रा०, ब०, २०, मु०। १० श्रादिशब्देन काष्ठपुस्तचित्रादि गृह्यते। ११ अतद्धवं म०। १२ जीवनस-ता०, मू० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org