________________
१।४]
प्रथमोऽध्यायः यथा निगडादिद्रव्यबन्धनबद्धो देवदत्तोऽस्वतन्त्रत्वाद् अभिप्रेतदेशगमनाद्यभावाद् अतिदुःखी भवति, तथा आत्मा कर्मबन्धनबद्धः पारतन्त्र्यात् शारीरमानसदुःखादितो भवति । ____ आस्रवनिरोधलक्षणः संवरः ॥१८॥ पूर्वोक्तानामास्वद्वाराणां शुभपोरणामवशानिरोधः संवरः। संवर इव संवरः । क उपमार्थः ? यथा सुगुप्तसुसंवृतद्वारकवाट' पुरं सुरक्षितं दुरासदमरातिभिर्भवति, तथा सुगुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रात्मनः सुसंवृतेन्द्रियकषाय- ५ योगस्य अभिनवकर्मागमद्वारसंवरणात् संवरः ।
एकदेशकर्मसंक्षयलक्षणा निजरा ।१९। उपात्तस्य कर्मणः तपोविशेषसन्निधाने सत्येकदेशसंक्षयलक्षणा निर्जरा । निर्जरेव निर्जरा। क उपमार्थः ? यथा मन्त्रौषधबलानिर्जीर्णवीर्यविपाकं विषं न दोषप्रदं तथा सविपाकाऽविपाकनिर्जराप्रत्ययतपोविशेषेण निर्जीर्णरसं-कर्म न संसारफलप्रदम् । ____ कृत्स्नकर्मवियोगलक्षणो मोक्षः ।२०। सम्यग्दर्शनादिहेतुप्रयोगप्रकर्षे सति कृत्स्नस्य कर्मणश्चतुर्विधबन्धवियोगो मोक्षः । मोक्ष इव मोक्षः। क उपमार्थः ? यथा निगडादिद्रव्यमोक्षात् सति स्वातन्त्र्ये अभिप्रेतप्रदेशगमनादेः पुमान सुखी भवति, तथा कृत्स्नकर्मवियोगे सति स्वाधीनात्यन्तिकज्ञानदर्शनानुपमसुख आत्मा भवति । लक्षणमुक्तम् । इदानीं क्रमहेतुरुच्यते
तादात् परिस्पन्दस्य आदो जीवग्रहणम् ।२। योऽयं मोक्षमार्गतत्त्वाविष्करणपरिस्पन्दः १५ स आत्मार्थः, तस्य मोक्षपर्यायपरिणामात् । यो वा जीवाद्युपदेशपरिस्पन्दः स आत्मार्थः, तस्योपयोगस्वाभाव्ये सति ग्राहकत्वात् । अत आदी जीवग्रहणम् । ____तदनुग्रहार्थत्वात् तदनन्तरमजीवाभिधानम् ।२२॥ यतः शरीरवाङमनःप्राणापानादिनोपकारेणाऽजीव आत्मानमनुगृह्णाति, अतस्तदनन्तरमजीवाभिधानम् । ____ तदुभयाधीनत्वात् तत्समीपे आस्रवग्रहणम् ।२३॥ यत आत्मकर्मणोः परस्पराश्लेषे सत्या- २० सुवप्रसिद्धिर्भवति, अतस्तत्समीपे आसवग्रहणम् ।
तत्पूर्वकत्वाद् बन्धस्य ततः परं बन्धवचनम् ।२४। यत आसूवपूर्वको बन्धः, ततः परं वचनं तस्य क्रियते ।
संवृतस्य बन्धाभावात् तत्प्रत्यनोकप्रतिपत्त्ययं संवरवचनम् ।२५। यतः संवृतस्यात्मनो बन्धो नास्ति ततस्तत्प्रत्यनीकप्रतिपत्त्यर्थ तदनन्तरं संवरवचनम् ।
२५ संवरे सति निर्जरोपपत्तेस्तदन्तिके' निर्जरावचनम् ॥२६॥ यतः संवरपूर्विका निर्जरा ततस्तदन्तिके निर्जरावचनम् ।
अन्ते 'प्राप्यत्वात् मोक्षस्यान्ते वचनम् ।२७। निर्जीणेषु कर्मस्वन्ते मोक्षः प्राप्यत इत्यन्ते वचनम् ।
पुण्यपापपदार्थोपसंख्यानमिति चेत् न; आस्रवे बन्धे वा अन्तर्भावात् ।२८। स्यादेतत्-पुण्य- ३० पापपदार्थयोरुपसंख्यानं कर्तव्यम् अन्यैरप्युक्तत्वादितिः तन्नः किं कारणम् ? आसवे बन्धे वा अन्तर्भावात्, यत आसवो बन्धश्च पुण्यपापात्मकः ।
तत्त्वशब्दस्य भाववाचित्वात् जीवादिभिः सामानाधिकरण्याऽनुपपत्तिः ।२९॥ तत्त्वशब्दो भाववाचीति व्याख्यातमेतत् । अतस्तस्य जीवादिभिर्द्रव्यवचनैः समानाधिकरण्यं नोपपद्यते ।
१-कपाट प्रा०, ब०, २०, मु०। २ - सुखमात्मानुभवति मा०, ब०, २०, मु.। एतदनन्तरे नि-मा०, ब०, २०, म०। ४ प्राप्तत्वा-ता०, भ०, मू०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org