________________
तस्वार्थवार्तिके
[१४ आलबत्यनेन आलवणमात्रं वा आत्रवः ।९। येन कर्मासूवति यद्वा आसवण'मा वा स आसवः।
बध्यतेऽनेन 'बन्धनमात्रं वा बन्धः।१०। बध्यते येन अस्वतन्त्रीक्रियते येन, अस्वतन्त्रीकरणमात्रं वा बन्धः ।
संवियतेऽनेन संवरणमात्रं वा संवरः।१। येन संवियते येन संरुध्यते, संरोधनमात्रं वा संवरः ।
निर्जीर्यते यया निर्जरणमात्रं वा निर्जरा ॥१२॥ निर्जीयते निरस्यते यया, निरसनमात्रं वा निर्जरा।
- मोक्ष्यते येन मोक्षणमात्रं वा मोक्षः।१३। मोक्ष्यते अस्यते येन असनमात्रं वा मोक्षः । १. एतेषामितरेतरयोगे' द्वन्द्वः। उक्त निर्वचनम् । इदानी लक्षणमुच्यते
चेतनास्वभावत्वात्तद्विकल्पलक्षणो जीवः ।१४। जीवस्वभावश्चेतना, यत इतरेभ्यो द्रव्येभ्यो भिद्यते। तद्विकल्पा ज्ञानादयः । यत्सरिधानादात्मा ज्ञाता द्रष्टा कर्ता भोक्ता च ... भवति तल्लक्षणो जीवः ।
तद्विपरीतत्वादजीवस्तदभावलक्षणः ।१५। तद्विपरीतत्वात् अचेतनस्वभावत्वात् ज्ञानादी१५ नामभावो यस्य लक्षणं सोऽजीवः । कथमभावो 'निरुपाख्यो वस्तुनो लक्षणं भवति? अभावोऽपि
वस्तुधर्मो हेत्वङ्गत्वादेः भाववत् । अतोऽसौ लक्षणं युज्यते । स हि यदि वस्तुनो लक्षणं न स्यात् सर्वसङकरः स्यात् । यद्येवं वनस्पत्यादीनामजीवत्वं प्राप्नोति तदभावात् । ज्ञानादीनां हि प्रवृत्तित उपलब्धिः, न च तेषां तत्पूर्विका प्रवृत्तिरस्ति हिताहितप्राप्तिपरिवर्जनाभावात् । उक्तं च
*"बुद्धिपूर्वा क्रियां दृष्ट्वा स्वदेहेऽन्यत्र तद्ग्रहात् । __ मन्यते बुद्धिसद्भावः सा न येषु न तेषु धीः ॥” [सन्ताना० सि० श्लो० १] इति । नैषः दोषः; तेषामपि ज्ञानादयः सन्ति सर्वज्ञप्रत्यक्षाः, इतरेषामागमगम्याः । आहारलाभालाभयोः पुष्टि म्लानादिदर्शनेन युक्तिगम्याश्च । अण्डगर्भस्थमूच्छितादिषु सत्यपि जीवत्वे तत्पूर्वक
प्रवृत्त्यभावात् हेतुव्यभिचारः । २५ पुण्यपापागमद्वारलक्षण आस्रवः ।१६। पुण्यपापलक्षणस्य कर्मण आगमनद्वारमास्रव
इत्युच्यते । आस्रव इवास्रवः । क उपमार्थः ? यथा महोदधेः सलिलमापगामुखै रहरहरापूर्यते, तथा मिथ्यादर्शनादिद्वारानुप्रविष्टः कर्मभिरनिशमात्मा समापूर्यत इति मिथ्यादर्शनादि द्वारमास्त्रवः ।
आत्मकर्मणोरन्योन्यप्रदेशानुप्रवेशलक्षणो बन्धः ॥१७॥ मिथ्यादर्शनादिप्रत्ययोपनीतानां ३. कर्मप्रदेशानाम् आत्मप्रदेशानां च परस्परानुप्रवेशलक्षणो बन्धः । बन्ध इव बन्धः । क उपमार्थः ?
१-णमानवः ता०, वा २ बध्यतेऽस्वतन्त्रीक्रियते येन भा० २। ३ बन्धमात्र ता० । ४ प्रावि तावयवभेद इतरेतरः, तिरोहितावयवभेवः समाहारः। ५ निःस्वभावः। ६ यत्राग्निर्नास्ति तत्र घमोऽपि नास्ति यथा हवे इत्यभावः अग्निरूपवस्तृधर्मः। ७यत्र धमस्तत्राग्निः यथा महानस इति (बत्) । ८ प्रभावः। तुलना- "बुद्धिपूर्वा क्रियां दृष्ट्वा स्वदेहेऽन्यत्र तद्ग्रहात्। ज्ञायते बढिरन्यत्र अभ्रान्तः पुरुषः क्वचित् ॥"- सिद्धिवि०वि० परि०। १० -ग्ला यावि-प्रा०, ब०, २०, मु०। ११-ने य-ता०,०। १२ पागमद्वा-पा०, १०,०। १३ पूर्यते श्र०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org