________________
१।४] प्रथमोऽध्यायः
२५ जीवाजीवयोरन्यतरत्रवान्तर्भावाद् आस्रवादीनामनुपदेशः ।२। आसवो हि जीवो वा स्यात. अजीवो वा? यदि जीव:: जीवेन्तर्भाव इति। अथाऽजीवः: अजीवे। एवं संवरादयोऽपि । तस्मादेषामनुपदेश:-अनर्थक उपदेशोऽनुपदेशः ।
न वा; परस्परोपश्लेषे संसारप्रवृत्तितदुपरमप्रधानकारणप्रतिपादनार्थत्वात् ।। न वाऽनर्थक उपदेशः । कुतः ? जीवाजीवयोः परस्परोपरलेषे सति संसारप्रवृत्तितदुपरभप्रधान- ५ कारणप्रतिपादनार्थत्वात् । इह मोक्षमार्गः प्रकृतः, तस्य फलमवश्यं मोक्षो निर्देष्टव्यः । ‘स कस्य'इति जीव उपात्तः । स च संसारपूर्वकः । स च सत्यजीवे जीवस्य भवति, इत्यजीव उपात्तः। तयोश्च परस्परोपश्लेषः संसारः। तत्प्रधानहेतू आसवो बन्धश्चेत्युपात्तौ । तदुपरमस्य मोक्षस्य प्रधानहेतू संवरनिर्जरे इत्युपादानं तयोः । एवमेषां निर्ज्ञाने सति प्राप्तव्यमोक्षस्य निर्ज्ञानं भवतीति । दृश्यते सामान्ये अन्तर्भूतस्यापि विशेषस्य पृथगुपादानं १० प्रयोजनार्थम्, क्षत्रिया आयाताः सूरवर्माऽपीति ।
उभयथापि 'चोदनानुपत्तिः ।४। यो जीवाजीवयोरन्तर्भावात् आसूवादीनामनुपदेशं चोदयति, तस्योभयथापि चोदना नोपपद्यते । कथम् ? आसवादीनि जीवाजीवाभ्यां पृथगुपलभ्य वा चोदयेत्, अनुपलभ्य वा ? यदि पृथगुपलभ्य; अत एव ततोऽर्थान्तरत्वं सिद्धम् । ५अथाऽनपलभ्य; अनपलम्भादेव चोदनाभावः । किञ्च, जीवाजीवाभ्यां पथकसिद्धान वा । चोदयेत्, असिद्धान वा ? यदि सिद्धांश्चोदयेत; अत एवार्थान्तरभावः । अथाऽसिद्धांश्चोदयति; कथमत्रान्तर्भावश्चोद्यते ? न हि खरविषाणादीनामन्तर्भावश्चोदनार्हः ।
अनेकान्ताच्च ।५। 'चोदनानुपपत्तिः' इति वर्तते। कथम् ? द्रव्याथिकपर्यायाथिकयोगुणप्रधानभावेन अर्पणानर्पण भेदात् जीवाजीवयोरासूवादीनां स्यादन्तर्भावः स्यादनन्तर्भावः । पर्यायाथिकगुणभावे द्रव्याथिकप्राधान्यात् आस्वादिप्रतिनियतपर्यायार्थानर्पणात् अनादिपा- २० रिणामिकचैतन्याचैतन्यादिद्रव्यार्थार्पणाद् आसवादीनां स्याज्जीवेऽजीवे वान्तर्भावः । तथा द्रव्याथिकगुणभावे पर्यायाथिकप्राधान्याद् आसवादिप्रतिनियतपर्यायार्थार्पणाद् अनादिपारिणामिकचैतन्याचैतन्यादिद्रव्यार्थाऽनर्पणाद् आसवादीनां जीवाजीवयोः स्यादनन्तभीवः । "तदपेक्षया स्यादुपदेशोऽर्थवान् ।
तेषां निर्वचनलक्षणक्रमहेत्वभिधानम् ।६। तेषां जीवादीनां पृथगुपदेशे प्रयोजनमुक्तम् । २५ इदानीं निर्वचनलक्षणक्रमहेत्वभिधानं कर्तव्यम् । तदुच्यते
त्रिकालविषयजीवनानुभवनात् जीवः ।७। दशसु प्राणेषु यथोपात्तप्राणपर्यायेण त्रिषु कालेषु जीवनानुभवनात् 'जीवति, अजीवीत्, जीविष्यति' इति वा जीवः । तथा सति सिद्धानामपि जीवत्व सिद्धं जीवितपूर्वत्वात् । संप्रति न जीवन्ति सिद्धाः, भूतपूर्वगत्या जीवत्वमेषाम् इत्यौपचारिकत्व स्यात्, मुख्यं चेष्यते; नैष दोषः; भावप्राणज्ञानदर्शनानु- ३० . भवनात् सांप्रतिकमपि जीवत्वमस्ति । अथवा रूढिशब्दोऽयम् । रूढौ च क्रिया व्युत्पत्त्यर्थे - वेति कादाचित्कं जीवनमपेक्ष्य सर्वदा वर्तते गोशब्दवत् ।।
तद्विपर्ययोऽजीवः ।८। यस्य जीवनमुक्तलक्षणं नास्त्यसौ तद्विपर्ययाद् अजीव इत्युच्यते ।
१जीवेऽन्तर्भवति प्रा०, ब०, २०, म०, ता०। २ विज्ञाने ता० । ३ प्राप्यस्य मो-पा०,०, द०, ज०, म०, ता०। ४ प्रश्नानुपपत्तिः । ५ अथवाऽनप -श्र० । ६ -पणाभे-मु०, ब०। ७ पर्यायापेक्षया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org