________________
तत्त्वार्थवार्तिके
[१४ ___ कालानियमाच्च निर्जरायाः ।९। यतो न भव्यानां कृत्स्नकर्मनिर्जरापूर्वकमोक्षकालस्य नियमोऽस्ति । कोचद् भव्याः संख्येयेन कालेन सेत्स्यन्ति, केचिदसंख्येयेन, केचिदनन्तेन, अपरे अनन्तानन्तेनापि न सेत्स्यन्तीति । ततश्च न युक्तम्-'भव्यस्य कालेन निःश्रेयसोपपत्तेः' इति ।
चोदनानुपपत्तेश्च ॥१०॥ सर्वस्येयं चोदना नोपपद्यते । ज्ञानात् क्रियाया द्वयात् त्रितयाच्च मोक्षमाचक्षाणस्य सर्वस्य नेदं युक्तम्-'भव्यस्य कालेन मोक्षः' इति । यदि हि सर्वस्य कालो हेतुरिष्ट: स्यात्, बाह्याभ्यन्तरकारणनियमस्य दृष्टस्येष्टस्य वा विरोध: स्यात् ।
तदित्यनन्तरनिर्देशार्थम् ।११। 'तत्' इत्येतदनन्तरस्य सम्यग्दर्शनस्य निर्देशार्थ क्रियते । १० ननु तत्प्रकृतम्, अन्तरेणापि तद्वचनं सिद्धम्;
इतरया हि मार्गसम्बन्धप्रसङगः ॥१२॥ अक्रियमाणे हि तद्वचने मोक्षमार्गोऽपि प्रकृतः तेनाभिसंबन्ध : प्रसज्यत । ततो निसर्गमात्रेणापि मोक्षमार्गलाभ उक्तः स्यात् । बाहुश्रुत्यप्रचिख्यापयिषया च मोक्षमार्गाधिगममात्रादेव मिथ्यादृष्टीनामपि मोक्ष: स्यात् । ननु च
*"अनन्तरस्य वा विधिर्वा भवति प्रतिषेधो वा" [पा० म० ११२।४७] इत्यनन्तरत्वात् १५ सम्यग्दर्शनेनैव संबन्धो न्याय्यः । [इति चेत्, न;] *"प्रत्यासत्तेः प्रधानं बलीयः" [ ] इति मार्ग एव संबध्येत । तस्मात्तद्वचनं क्रियते विस्पष्टार्थम् ।
इति तत्त्वार्थवार्तिके व्याख्यानालङकारे प्रथमेऽध्याये तृतीयमाह्निक'समाप्तम् ॥३॥
तत्त्वार्थश्रद्धानं सम्यग्दर्शनमित्युक्तम् । अथ 'किं तत्त्वम्' इति ? अत इदमाह
जीवाजीवास्रवबन्धसंवरनिर्जरीमाक्षास्तत्त्वम् ॥४॥ किमर्थमेषामुपादानम् ? ननु द्रव्यमित्येव' वक्तव्यं तद्भेदा हि सर्वे पदार्था भवन्तीति ? अत' उत्तरं पठति
एकाद्यनन्तविकल्पोपपत्तौ विनेयाशयवशान्मध्यमाभिधानम् ॥१॥ एको द्वौ त्रयः संख्येया असंख्येया अनन्ता इति पदार्था भिद्यन्ते । तत्रैक: पदाथों भवति, ""एक द्रव्यमन
न्तपर्यायम्”[ ]इति वचनात् । द्वौ पदाथौं , जीवाजीवभेदात् । त्रयः पदार्था अर्थाभि२५ धानप्रत्ययभेदात् । एवमुत्तरे' च वचनविकल्पापेक्षया असंख्येया ज्ञानज्ञेयविकल्पापेक्षया
असंख्येया अनन्ताश्चा भवन्ति । तत्र विनेयाशयवशात् पदार्थनिरूपणाभेद इति मध्यमेन क्रमेणाभिधानं कृतम्। अतिसंक्षेपे सुमेधसामेव प्रतिपत्तिः स्याद् अतिप्रपञ्चे १०चाचिरेण संप्रतिपनि स्यादिति । कश्चिदाह
ता ।
। २ इति चेन्न। ३ कं। ता०, प्रा०, ब०, द०, मु०। ४ -त्येवंव-ता०, द०। ५ अस्मिन् । ६ सत्ता सकलपदार्था सविश्वरूपा यनन्तपर्याया। स्थितिभङगोदयसहिता सप्रतिपक्षा भवेदेका । (पना० गा०८)। ७ बुद्धिशब्दार्थसंज्ञास्तास्तिस्रो बुद्धघाविवाचकाः। तुल्या बोधादिबोधाश्च प्रयस्तत्प्रतिबिम्बकाः॥ (प्राप्तमी० श्लोक ८५) इति स्वामिभिः प्रोक्तम् । ८ -रे व-ता। ६ शब्द । १० चातिचिरेण प्रा०, ८०, ९०, मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org