________________
१॥३]
प्रथमोऽध्यायः मणिग्रहणवदिति चेत; न; प्रत्यक्षोपलब्धिसद्भावात् ।३। स्यादेतत्-यथा अनधिगतमणिविशेषस्यापि पुसो मणिग्रहणं भवति तस्य च फलं दृष्टम्, तथा अनधिगतजीवादितत्त्वस्यापि तत्त्वग्रहणं भवति तस्य च फलं भवतीति तन्नैसर्गिकं दर्शनमिति; तन्न; किं कारणम् ? प्रत्यक्षोपलब्धिसद्भावात् । नात्यन्तपरोक्षं मणि गृह्णाति किन्तु प्रत्यक्षत उपलभ्य गृह्णाति । वीर्यविशेषं तु न प्रतिपद्यते, अतोऽस्य अनुपलब्धमणिविशेषस्यापि प्रत्यक्षदर्शनाद् ग्रहणं ५ न्याय्यम् । अत्यन्तपरोक्षे तु जीवादितत्त्वे कथमस्य निसर्गजसम्यग्दर्शनसिद्धिः ? सामान्याधिगमे तु अधिगमसम्यग्दर्शनमेवेति ।
तापप्रकाशवत् युगपदुत्पत्तेरभ्युपगमाच्च ।४। किम् ? 'निसर्गजसम्यग्दर्शनाभावः' 'इत्यनुवर्तते । यदा अस्य सम्यग्दर्शनमुत्पद्यते तदैव प्राक्तनं मत्यज्ञानं श्रुताज्ञानं च 'सम्यक्त्वेन परणमतीत्यधिगमजमेव तद्भवति । यस्य ज्ञानात् प्राग दर्शनं स्यात् तस्य नैसर्गिकं स्यात् । तच्चा:- १० निष्टमिति । उच्यते
उभयत्र तुल्ये अन्तरङगहेतौ बाहयोपदेशापेक्षाऽनपेक्षभेदाद् भेदः ।५। उभयत्र सम्यग्दर्शने अन्तरङ्गो हेतुस्तुल्यः दर्शनमोहस्योपशमः क्षयः क्षयोपशमो वा, तस्मिन् सति यद् बायोपदेशादृते प्रादुर्भवति तन्नैसर्गिकम्, यत् परोपदेशपूर्वकं जीवाद्यधिगमनिमित्तं तदुत्तरम्, इत्यनयोरयं भेदः । ____ अपरोपदेशपूर्वके निसर्गाभिप्रायो लोकवत् ।६। यथा लोके हरिशार्दू लवकभुजगादयो निसर्गत: "क्रौर्यशौर्याहारादिसंप्रतिपत्तौ वर्तन्त इत्युच्यन्ते । नचासावाकस्मिकी कर्मनिमित्तत्वात् । अनाकस्मिक्यपि सती नैसगिकी भवति, परोपदेशाभावात् । तथेहाप्यपरोपदेशपूर्वके निसर्गाभिप्रायः । अपर आह--
भव्यस्य कालेन निःश्रेयसोपपत्तः अधिगमसम्यक्त्वाभावः ।। यदि अवधृतमोक्षकालात् २० प्रागधिगमसम्यक्त्वबलात् मोक्षः स्यात् स्यादधिगमसम्यग्दर्शनस्य साफल्यम् । न चादोऽस्ति । अतः कालेन योऽस्य मोक्षोऽसौ, स निसर्गजसम्यक्त्वादेव सिद्ध इति । . __न, विवक्षितापरिज्ञानात् ।८। नतद्युक्तम् । कुतः ? विवक्षिताऽपरिज्ञानात् । सम्यग्दर्शनादित्रयान्मोक्ष उक्तः । तत्र यत्प्रथमं तत् 'कुत उत्पद्यते' इत्युक्ते 'निसर्गादधिगमाद्वा' इत्य- . यमर्थोऽत्र विवक्षितः । यदि सम्यग्दर्शनादेव' केवलान्निसर्गजादधिगमजाद्वा ज्ञानचारित्ररहि- २५ तान्मोक्ष इष्ट: स्यात्, तत इदं युक्तं स्यात्-'भव्यस्य कालेन निःश्रेयसोपपत्तेः' इति । नचायमोंऽत्र विवक्षितः । ___ अथवा, यथा कुरुक्षेत्रे क्वचित् कनकं बाह्यपौरुषेयप्रयत्नाभावात् जायते, तथा बाहयपुरुषोपदेशपूर्वकजीवाद्यधिगममन्तरेण यज्जायते तन्निसर्गजम् । यथा कनकाश्म: विध्युपायज्ञपुरुषप्रयोगापेक्ष: कनकभावमापद्यते,तथा यत् सम्यग्दर्शनंविध्युपायज्ञमनुष्यसंपर्काज्जीवादिपदार्थतत्त्वाधिगमापेक्षमुत्पद्यते तदधिगम"सम्यग्र्दशनम् इत्ययमथों विवक्षितः, नचान्यतरस्याभाव इति । अतो विवक्षितापरिज्ञानात् न सम्यगुक्तम्-'अधिगमाभावः' इति ।
१ प्रत्यक्षेणोप-प्रा०,ब०, २०, म०, ता०। २ भवति त-श्र० । ३ विपर्ययविशे -पा०,०, २०, ..। ४ इति वर्तते श्र०। ५ समीचीनत्वेन । ६ -त्र दर्श-पा०,०,८०,०,ता०। ७ क्रौर्यशौर्याशौर्याहारा-पा०, २०, २०, म०। ८ सम्यग्दर्शनम् । ६ निसर्गादधिगमाद्वा ता०, श्र०, मू०। १० ज्ञायते मू०, ता०। ११ -श्मवि-पा०, २०, मु०। १२ -क्षक-पा०, द०, मु०। १३-नवि मा०, २०, १०, मु.। -नविशुद्धप्पा-ता०। १४ -गमजस-पा०, ब. मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org